श्रीम-दमरेन्द्रमुकुट-प्रघटितमणि-किरण-वारिधाराभिः।
प्रक्षालित-पदयुगलान्-प्रणमामि जिनेश्वरान्भक्त्या।।१।।
अष्टगुणैः समुपेतान्प्रणष्ट-दुष्टाष्ट-कर्मरिपु-समितीन् ।
सिद्धान्सतत-मनन्तान्, नमस्करो-मीष्टतुष्टि-संसिद्ध्यै।।२।।
साचारश्रुत-जलधीन्प्रतीर्य शुद्धोरुचरण-निरतानाम्।
आचार्याणां पदयुग-कमलानि दधे शिरसि मेऽहम्।।३।।
मिथ्यावादि-मदोग्र-ध्वान्त-प्रध्वंसिवचनसंदर्भान्।
उपदेशकान्प्रपद्ये मम दुरितारि – प्रणाशाय।।४।।
सम्यग्दर्शनदीप – प्रकाशका – मेयबोधसंभूताः।
भूरिचरित्र – पताकास्ते साधुगणास्तु मां पान्तु।।५।।
जिनसिद्ध-सूरिदेशक-साधुवरा-नमलगुणगणोपेतान्।
पंचनमस्कारपदै-स्त्रिसंध्य-मभिनौमि मोक्षलाभाय।।६।।
एष पंचनमस्कारः सर्वपाप – प्रणाशनः।
मंगलानां च सर्वेषां प्रथमं मंगलं मतं।।७।।
अर्हत्सिद्धाचार्यो – पाध्यायाः सर्वसाधवः।
कुर्वन्तु मंगलाः सर्वे निर्वाण – परमश्रियम्।।८।।
सर्वान् जिनेन्द्रचन्द्रान् – सिद्धा-नाचार्य-पाठकान् साधून्।
रत्नत्रयं च वन्दे रत्नत्रयं – सिद्धये भक्त्या।।९।।
पान्तु श्रीपाद – पद्मानि पंचानां परमेष्ठिनां।
लालितानि सुराधीश – चूडामणि – मरीचिभिः।।१०।।
प्रातिहार्यैर्जिनान् सिद्धान् गुणैः सूरीन् स्वमातृभिः।
पाठकान् विनयैः साधून् योगांगै – रष्टभिः स्तुवे।।११।।
इच्छामि भंते! पंचमहा-गुरुभत्ति काउसग्गो कओ तस्सालोचेउं, अट्ठ-महापाडिहेर-संजुत्ताणं अरहंताणं, अट्ठगुण-संपण्णाणं उड्ढलोय-मत्थयम्मि पइट्ठियाणं सिद्धाणं, अट्ठपवयण-माउसंजुत्ताणं आयरियाणं, आयारादि-सुदणाणो-वदेसयाणं उवज्झायाणं, तिरयण-गुणपालण-रयाणं सव्वसाहूणं, णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।