पडिक्कमामि भंते! इरियावहियाए विराहणाए अणागुत्ते अइगमणे, णिग्गमणे, ठाणे, गमणे, चंकमणे, पाणुग्गमणे, बीजुग्गमणे, हरिदुग्गमणे, उच्चार-पस्सवण-खेल-सिंहाणय-वियडिय पइट्ठावणियाए, जे जीवा एइंदिया वा, बेइंदिया वा, तेइंदिया वा, चउिंरदिया वा, पंचिंदिया वा, णोल्लिदा वा, पेल्लिदा वा, संघट्टिदा वा, संघादिदा वा, उद्दाविदा वा, परिदाविदा वा, किरिंच्छिदा वा, लेस्सिदा वा, छिंदिदा वा, भिंदिदा वा, ठाणदो वा, ठाणचंकमणदो वा, तस्स उत्तरगुणं, तस्स पायच्छित्तकरणं, तस्स विसोहिकरणं, जाव अरहंताणं भयवंताणं णमोक्कारं पज्जुवासं करेमि, तावकायं पावकम्मं दुच्चरियं वोस्सरामि। ॐ णमो अरहन्ताणं, णमो सिद्धाणं, णमो आइरियाणं। णमो उवज्झायाणं, णमो लोए सव्व साहूणं।।
(९ जाप्य, २७ उच्छ्वास में) (अनंतर बैठकर आलोचना आदि पाठ पढ़ें व कृत्य विज्ञापन करें)
ईर्यापथे प्रचलिताद्य मया प्रमादादेकेन्द्रियप्रमुखजीवनिकायबाधा।
निर्वर्तिता यदि भवेदयुगान्तरेक्षा। मिथ्या तदस्तु दुरितं गुरु भक्तितो मे।।१।।
इच्छामि भन्ते! आलोचेउं इरिया-वहियस्स पुव्वुत्तरदक्खिण-पच्छिम-चउदिस-विदिसासु विहरमाणेणजुगंत्तरदिट्ठिणा भव्वेण दट्ठव्वा।
पमाददोसेण डबडबचरियाए पाणभूदजीवसत्ताणं उवघादो कदो वा कारिदो वा कीरंतो वा समणुमण्णिदो तस्स मिच्छा मे दुक्कडं।
न स्नेहाच्छरणं प्रयान्ति भगवन् ! पादद्वयं ते प्रजाः। हेतुस्तत्र विचित्रदुःखनिचयः, संसारघोरार्णवः।।
अत्यन्तस्फुरदुग्ररश्मिनिकर-व्याकीर्णभूमण्डलो। ग्रैष्मः कारयतीन्दुपादसलिल-च्छायानुरागं रविः।।१।।
क्रुद्धाशीर्विषदष्टदुर्जयविषज्वालावलीविक्रमो। विद्याभेषजमन्त्रतोयहवनैर्याति प्रशांतिं यथा।।
तद्वत्ते चरणारुणांबुजयुग-स्तोत्रोन्मुखानां नृणाम्। विघ्नाः कायविनायकाश्च सहसा, शाम्यन्त्यहो! विस्मयः।।२।।
संतप्तोत्तमकांचनक्षितिधरश्रीस्पद्र्धिगौरद्युते । पुंसां त्वच्चरणप्रणामकरणात्, पीडाः प्रयान्ति क्षयं।।
उद्यद्भास्करविस्फुरत्करशतव्याघातनिष्कासिता। नानादेहिविलोचनद्युतिहरा, शीघ्रं यथा शर्वरी।।३।।
त्रैलोक्येश्वरभंगलब्धविजयादत्यन्तरौद्रात्मकान् । नानाजन्मशतान्तरेषु पुरतो, जीवस्य संसारिणः।।
को वा प्रस्खलतीह केन विधिना, कालोग्रदावानला- न्नस्याच्चेत्तव पादपद्मयुगलस्तुत्यापगावारणम्।।४।।
लोकालोकनिरन्तरप्रविततज्ञानैकमूर्ते! विभो!। नानारत्नपिनद्धदंडरुचिरश्वेतातपत्रत्रय! ।।
त्वत्पादद्वयपूतगीतरवतः शीघ्रं द्रवन्त्यामयाः। दर्पाध्मातमृगेन्द्रभीमनिनदाद्वन्या यथा कुञ्जराः।।५।।
दिव्यस्त्रीनयनाभिराम! विपुलश्रीमेरुचूडामणे! भास्वद्बालदिवाकरद्युतिहरप्राणीष्टभामंडल! ।।
अव्याबाधमचिन्त्यसारमतुलं, त्यक्तोपमं शाश्वतं। सौख्यं त्वच्चरणारविंदयुगलस्तुत्यैव संप्राप्यते।।६।।
यावन्नोदयते प्रभापरिकरः, श्रीभास्करो भासयं- स्तावद्-धारयतीह पंकजवनं, निद्रातिभारश्रमम् ।।
यावत्त्वच्चरणद्वयस्य भगवन्न स्यात्प्रसादोदय- स्तावज्जीवनिकाय एष वहति प्रायेण पापं महत्।।७।।
शांतिं शान्तिजिनेन्द्र! शांतमनसस्त्वत्पादपद्माश्रयात्। संप्राप्ताः पृथिवीतलेषु बहवः शांत्यर्थिनः प्राणिनः।।
कारुण्यान्मम भाक्तिकस्य च विभो! दृष्टिं प्रसन्नां कुरु। त्वत्पादद्वयदैवतस्य गदतः शांत्यष्टवं भक्तितः।।८।।
नम: श्रीवर्धमानाय, निर्धूत कलिलात्मने। सालोकानां त्रिलोकानां, यद्विद्या दर्पणायते।।१।।
जिनेन्द्रमुन्मूलितकर्मबन्धं, प्रणम्य सन्मार्गकृतस्वरूपम्। अनन्तबोधादिभवं गुणौघं, क्रियाकलापं प्रकटं प्रवक्ष्ये।।२।।
खम्मामि सव्वजीवाणं, सव्वे जीवा खमन्तु मे। मित्ती मे सव्वभूदेसु, वैरं मज्झं ण केण वि।।३।।
रागबंधपदोसं च, हरिसं दीणभावयं। उस्सुगत्तं भयं सोगं, रदिमरदिं च वोस्सरे।।४।।
हा! दुट्ठकयं हा! दुट्ठचिंत्तियं भासियं च हा! दुट्ठं। अन्तो अन्तो डज्झम्मि, पच्छुत्तावेण वेदंतो।।५।।
दव्वे खेत्ते काले भावे य कदावराहसोहणयं। णिंदण गरहणजुत्तो मणवचिकाएण पडिकमणं।।६।।
भगवन्नमोऽस्तु ते, एषोऽहं देववन्दनां कुर्याम्। (इति सामायिक स्वीकार:)
समता सर्वभूतेषु, संयमे शुभभावना। आर्तरौद्रपरित्यागस्तद्धि सामायि मतं।।१।।
सिद्धं सम्पूर्णभव्यार्थं, सिद्धे: कारणमुत्तमम्।
प्रशस्तदर्शनज्ञानचारित्रप्रतिपादनम् ।।२।।
सुरेन्द्रमुकुटाश्लिष्ट-पादपद्मांशुकेसरम्।
प्रणमामि महावीरं, लोकत्रितयमंगलम्।।३।।
आदौ मध्येऽवसाने च, मङ्गलं भाषितं बुधै:।
तज्जिनेन्द्रगुणस्तोत्रं, तदविघ्नप्रसिद्धये।।४।।
विघ्ना:
प्रणश्यन्ति भयं न जातु, न क्षुद्रदेवा परिलंघयन्ति।
अर्थान्यथेष्टांश्च सदालभन्ते, जिनोत्तमानां परिकीर्तनेन।।५।।
सिद्धेभ्यो निष्ठितार्थभ्यो वरिष्ठेभ्य: कृतादर:।
अभिप्रेतार्थसिद्ध्यर्थं नमस्कुर्वे पुन: पुन:।।६।।
आई मंगलकरणे सिस्सा लहु पारया हवंति त्ति।
मज्झे अव्वोच्छित्ती, विज्जा विज्जाफलं चरिमे।।७।।
दुऊणदं जहाजादं, वारसावत्तमेव च।
चदुस्सिरं तिसुद्धिं च किरियम्मं पउंजदे।।८।।
किरियम्मं पि करंतो ण होदि किरियम्मनिज्जराभागी।
बत्तीसाणण्णदरं, साहुट्ठाणं विराहिंतो।।९।।
तिविहं तियरणसुद्धं, मयरहियं दुविहठाणपुणरुत्तं।
विणयेण कम्मविसुद्धं, किरियम्मं होदि कादव्वं।।१०।।
योग्यकालासनस्थान-मुद्रावर्त-शिरोनति:।
विनयेन यथाजात:, कृतिकर्मामलं भजेत्।।११।।
स्नपनार्चास्तुतिजपान्, साम्यार्थं प्रतिमार्पिते।
युज्यां यथाम्नायमाद्यादृते संकल्पितेऽर्हति।।१२।।
एकत्वेन चरन्निजात्मनि मनोवाक्कायकर्मच्युते।
वैश्चिद्विक्रियते न जातु, यतिवद्यद्भागपि श्रावक:।।१३।।
येनार्हच्छु्रतलिङ्गवानुपरिमग्रैवेय नीयते।
भव्योऽप्यद्भुतवैभवेऽत्र न सजेत्त्सामायिके क: सुधी:।।१४।।
भगवन्नमोस्तु प्रसीदंतु प्रभुपादाः वंदिष्येऽहं। एषोऽहं सर्वसावद्य-योगाद्विरतोऽस्मि। अथ पौर्वाण्हिकदेववन्दनायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावंदनास्तवसमेतं चैत्यभक्तिकायोत्सर्गं करोम्यहं। (अनंतर प्रमाणकर ३ आवर्त एक शिरोनति कर मुक्ताशुक्ति मुद्रा करके यह दण्डक पढ़ें।)
णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं।
णमो उवज्झायाणं, णमो लोए सव्वसाहूणं।।
चत्तारि मंगलं-अरिहंत मंगलं, सिद्ध मंगलं, साहु मंगलं, केवलिपण्णत्तो धम्मो मंगलं। चत्तारि लोगुत्तमा-अरिहंत लोगुत्तमा, सिद्ध लोगुत्तमा, साहु लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमा। चत्तारि सरणं पव्वज्जामि-अरिहंत सरणं पव्वज्जामि, सिद्ध सरणं पव्वज्जामि, साहु सरणं पव्वज्जामि, केवलिपण्णत्तो धम्मो सरणं पव्वज्जामि। अड्ढाइज्जदीवदोसमुद्देसु पण्णारसकम्मभूमिसु जाव अरहंताणं भयवंताणं आदियराणं तित्थयराणं जिणाणं जिणोत्तमाणं केवलियाणं, सिद्धाणं, बुद्धाणं, परिणिव्वुदाणं, अन्तयडाणं, पारयडाणं, धम्माइरियाणं, धम्मदेसियाणं धम्मणायगाणं, धम्मवरचाउरंग-चक्कवट्टीणं, देवाहिदेवाणं, णाणाणं, दंसणाणं, चरित्ताणं सदा करेमि किरियम्मं। करेमि भंते! सामाइयं सव्वसावज्जजोगं पच्चक्खामि जावज्जीवं तिविहेण मणसा वचसा कायेण ण करेमि ण कारेमि कीरंतं पि ण समणुमणामि। तस्स भंते! अइचारं पडिक्कमामि णिंदामि गरहामि, जाव अरहंताणं, भयवंताणं, पज्जुवासं करेमि ताव कालं पावकम्मं दुच्चरियं वोस्सरामि। (इस प्रकार सामायिक दण्डक पढ़कर पुन: तीन आवर्त व एक शिरोनति करे। पश्चात् जिनमुद्रा से कायोत्सर्ग करें। सत्ताईस उच्छ्वास में ९ जाप्य, अनन्तर प्रणाम करके पुन: तीन आवर्त व एक शिरोनति करे और मुक्ताशुक्ति मुद्रा के द्वारा चतुर्विंशति स्तवन पढ़ें।)
थोस्सामि हं जिणवरे, तित्थयरे केवली अणंतजिणे।
णरपवरलोयमहिए, विहुय-रयमले महप्पण्णे।।१।।
लोयस्सुज्जोययरे, धम्मं तित्थंकरे जिणे वंदे।
अरहंते कित्तिस्से, चउवीसं चेव केवलिणो।।२।।
उसहमजियं च वंदे, संभवमभिणंदणं च सुमइं च।
पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे।।३।।
सुविहिं च पुप्फयंतं, सीयल सेयं च वासुपुज्जं च।
विमलमणंतं भयवं, धम्मं संतिं च वंदामि।।४।।
कुंथुं च जिणविंरदं, अरं च मल्लिं च सुव्वयं च णमिं।
वंदामि रिट्ठणेमिं, तह पासं वड्ढमाणं च।।५।।
एवं मए अभित्थुया, विहुय-रयमला पहीणजरमरणा।
चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु।।६।।
कित्तिय वंदिय महिया, एदे लोगोत्तमा जिणा सिद्धा।
आरोग्गणाणलाहं, दिंतु समाहिं च मे बोहिं।।७।।
चंदेहिं णिम्मल-यरा, आइच्चेहिं अहिय-पहासत्ता।
सायरमिव गंभीरा, सिद्धा सिद्धिं मम दिसंतु।।८।।
(अनन्तर तीन आवर्त व एक शिरोनति करें। इस तरह एक कायोत्सर्ग में दो प्रणाम, बारह आवर्त, चार शिरोनमन होते हैं।)
श्रीगौतमादिपदमद्भुतपुण्यबन्ध-मुद्योतिताखिलममोघमघप्रणाशम्।
वक्ष्ये जिनेश्वरमहं प्रणिपत्य तथ्यं, निर्वाणकारणमशेषजगद्धितार्थम्।।
जयति भगवान् हेमाम्भोजप्रचारविजृंभिता- वमरमुकुटच्छायोद्गीर्णप्रभापरिचुम्बितौ।
कलुषहृदया मानोद्भ्रान्ताः परस्परवैरिणो। विगतकलुषाः पादौ यस्य प्रपद्य विशश्वसुः।।१।।
तदनु जयति श्रेयान् धर्मः प्रवृद्धमहोदयः कुगति-विपथ-क्लेशाद्योऽसौ विपाशयति प्रजाः।
परिणतनयस्याङ्गी-भावाद्विविक्तविकल्पितं भवतु भवतस्त्रातृ त्रेधा जिनेन्द्रवचोऽमृतम् ।।२।।
तदनु जयताज्जैनी वित्तिः प्रभंगतरंगिणी प्रभवविगमध्रौव्य – द्रव्यस्वभावविभाविनी।
निरुपमसुखस्येदं द्वारं विघट्य निरर्गलं विगतरजसं मोक्षं देयान्निरत्ययमव्ययम् ।।३।।
अर्हत्सिद्धाचार्यो-पाध्यायेभ्यस्तथा च साधुभ्यः।
सर्वजगद्वंद्येभ्यो, नमोऽस्तु सर्वत्र सर्वेभ्यः।।४।।
मोहादिसर्वदोषारि-घातकेभ्यः सदा हतरजोभ्यः।
विरहितरहस्कृतेभ्यः पूजार्हेभ्यो नमोऽर्हद्भ्य।।५।।
क्षान्त्यार्जवादिगुणगण-सुसाधनं सकललोकहितहेतुं।
शुभधामनि धातारं, वन्दे धर्मं जिनेन्द्रोक्तम् ।।६।।
मिथ्याज्ञानतमोवृत-लोवैकज्योतिरमितगमयोगि।
सांगोपांगमजेयं, जैनं वचनं सदा वन्दे।।७।।
भवनविमानज्योति-व्र्यंतरनरलोकविश्वचैत्यानि।
त्रिजगदभिवन्दितानां, वंदे त्रेधा जिनेन्द्राणां।।८।।
भुवनत्रयेऽपि भुवन-त्रयाधिपाभ्यच्र्य-तीर्थकर्तृणाम्।
वन्दे भवाग्निशान्त्यै, विभवानामालयालीस्ताः।।९।।
इति पंचमहापुरुषाः, प्रणुता जिनधर्म-वचन-चैत्यानि।
चैत्यालयाश्च विमलां, दिशन्तु बोधिं बुधजनेष्टां।।१०।।
अकृतानि कृतानि चाप्रमेय-द्युतिमन्तिद्युतिमत्सु मन्दिरेषु।
मनुजामरपूजितानि वंदे, प्रतिबिम्बानि जगत्त्रये जिनानाम् ।।११।।
द्युतिमंडलभासुरांगयष्टीः, प्रतिमा अप्रतिमा जिनोत्तमानाम्।
भुवनेषु विभूतये प्रवृत्ता, वपुषा प्राञ्जलिरस्मि वन्दमानः।।१२।।
विगतायुधविक्रियाविभूषाः, प्रकृतिस्थाः कृतिनां जिनेश्वराणाम्।
प्रतिमाः प्रतिमागृहेषु कांत्या- प्रतिमा कल्मषशान्तयेऽभिवन्दे।।१३।।
कथयन्ति कषायमुक्तिलक्ष्मीं, परया शान्ततया भवान्तकानाम्।
प्रणमाम्यभिरूपमूर्तिमन्ति, प्रतिरूपाणि विशुद्धये जिनानाम् ।।१४।।
यदिदं मम सिद्धभक्तिनीतं, सुकृतं दुष्कृतवत्र्मरोधि तेन।
पटुना जिनधर्म एव भक्ति- र्भवताज्जन्मनि जन्मनि स्थिरा मे।।१५।।
अर्हतां सर्वभावानां, दर्शनज्ञानसम्पदाम् ।
कीर्तयिष्यामि चैत्यानि, यथाबुद्धि विशुद्धये।।१६।।
श्रीमद्भावनवासस्थाः, स्वयंभासुरमूर्तयः।
वन्दिता नो विधेयासुः, प्रतिमा: परमां गतिम् ।।१७।।
यावन्ति सन्ति लोकेऽस्मिन्नकृतानि कृतानि च।
तानि सर्वाणि चैत्यानि, वन्दे भूयांसि भूतये।।१८।।
ये व्यन्तरविमानेषु, स्थेयांसः प्रतिमागृहाः।
ते च संख्यामतिक्रान्ताः, सन्तु नो दोषविच्छिदे।।१९।।
ज्योतिषामथ लोकस्य, भूतयेऽद्भुतसम्पदः।
गृहाः स्वयंभुवः सन्ति, विमानेषु नमामि तान् ।।२०।।
वन्दे सुरतिरीटाग्र – मणिच्छायाभिषेचनम् ।
याः क्रमेणैव सेवंते, तदर्चाः सिद्धिलब्धये।।२१।।
इति स्तुतिपथातीत – श्रीभृतामर्हतां मम।
चैत्यानामस्तु संकीर्तिः, सर्वास्रवनिरोधिनी।।२२।।
अर्हन्महानदस्य, त्रिभुवनभव्यजनतीर्थयात्रिकदुरित-
प्रक्षालनैककारण-मतिलौकिककुहकतीर्थमुत्तमतीर्थम् ।।२३।।
लोकालोकसुतत्त्व-प्रत्यवबोधनसमर्थदिव्यज्ञान-
प्रत्यहवहत्प्रवाहं, व्रतशीलामलविशालकूलद्वितयम्।।२४।।
शुक्लध्यानस्तिमित-स्थितराजद्राजहंसराजितमसकृत्।
स्वाध्यायमन्द्रघोषं, नानागुणसमितिगुप्ति सिकतासुभगम् ।।२५।।
क्षान्त्यावर्तसहस्रं, सर्वदया विकचकुसुमविलसल्लतिकम्।
दुःसहपरीषहाख्य – द्रुततररंगत्तरंगभंगुरनिकरम् ।।२६।।
व्यपगतकषायपेनं, रागद्वेषादिदोष-शैवलरहितम्।
अत्यस्तमोहकर्दम-मतिदूरनिरस्तमरणमकरप्रकरम् ।।२७।।
ऋषिवृषभस्तुतिमन्द्रोद्रे-कितनिर्घोष-विविधविहगध्वानम्।
विविधतपोनिधिपुलिनं, सास्रवसंवरनिर्जरानिःस्रवणं।।२८।।
गणधरचक्रधरेन्द्र-प्रभृतिमहाभव्यपुंडरीवैपुरुषैः,
बहुभिः स्नातं भक्त्या, कलिकलुषमलापकर्षणार्थममेयम् ।।२९।।
अवतीर्णवतः स्नातुं, ममापि दुस्तरसमस्तदुरितं दूरं।
व्यपहरतु परमपावन-मनन्यजय्यस्वभावभावगभीरं।।३०।।
अताम्रनयनोत्पलं, सकलकोपवह्नेर्जयात् , कटाक्षशरमोक्षहीन – मविकारतोद्रेकतः।
विषादमदहानितः, प्रहसितायमानं सदा, मुखं कथयतीव ते, हृदयशुद्धिमात्यन्तिकीम् ।।३१।।
निराभरणभासुरं, विगतरागवेगोदया- न्निरंबरमनोहरं, प्रकृतिरूपनिर्दोषतः।
निरायुधसुनिर्भयं, विगतहिंस्यिंहसाक्रमात् निरामिषसुतृप्तिमद्विविधवेदनानां क्षयात् ।।३२।।
मितस्थितनखांगजं, गतरजोमलस्पर्शनं नवांबुरुहचन्दन – प्रतिमदिव्यगन्धोदयम् ।
रवीन्दुकुलिशादि – दिव्यबहुलक्षणालंकृतं दिवाकरसहस्रभासुर – मपीक्षणानां प्रियम् ।।३३।।
हितार्थपरिपंथिभिः, प्रबलरागमोहादिभिः कलंकितमना जनो, यदभिवीक्ष्य शोशुद्ध्यते।
सदाभिमुखमेव यज्जगति पश्यतां सर्वतः शरद्विमलचन्द्रमंडल – मिवोत्थितं दृश्यते।।३४।।
तदेतदमरेश्वर – प्रचलमौलिमालामणि- स्पुरत्किरणचुम्बनीय – चरणारविन्दद्वयम् ।
पुनातु भगवज्जिनेन्द्र! तव रूपमन्धीकृतं जगत् सकलमन्यतीर्थगुरुरूपदोषोदयैः।।३५।।
चन्द्रप्रभं चन्द्र-मरीचिगौरं, चन्द्रं द्वितीयं जगतीव कान्तम्।
वन्देऽभिवन्द्यं महता-मृषीन्द्रं, जिनं जितस्वान्त-कषायबन्धम्।।
यस्यांग-लक्ष्मी-परिवेश-भिन्नं, तमस्तमोरे-रिव रश्मि-भिन्नम् ।
ननाश बाह्यं बहुमानसं च, ध्यान-प्रदीपातिशयेन भिन्नम् ।।१।।
स्वपक्षसौस्थित्य-मदावलिप्ता, वाक्सिंहनादै-र्विमदा बभूवुः।
प्रवादिनो यस्य मदाद्र्र-गण्डा, गजा यथा केशरिणो निनादैः।।
यः सर्वलोके परमेष्ठितायाः, पदं वभूवाद्भुतकर्मतेजाः।
अनन्त-धामाक्षर-विश्वचक्षुः, समंत-दुःखक्षय-शासनश्च।।२।।
स चन्द्रमा भव्य-कुमुद्वतीनां, विपन्न-दोषाभ्र-कलंकलेपः।
व्याकोश-वाङ्न्याय-मयूख-मालः, पूयात् पवित्रो भगवान्मनो मे।।
वत्ताणुट्ठाणे, जणधणुदाणे, पइपोसिउ तुहु खत्तधरु।
तुह चरणविहाणे केवलणाणे, तुहु परमप्पउ परमपरु।।१।।
जय रिसह रिसीसरणमियपाय, जय अजियजियंगमरोसराय।
जय संभवसंभवकयविओय, जय अहिणंदण णंदियपओय।।
जय सुमइ सुमइसम्मयपयास, जय पउमप्पह पउमाणिवास।
जय जयहि सुपाससुपासगत्त, जय चन्दप्पह चन्दाहवत्त।।
जय पुप्फयन्त दंतन्तरंग, जय सीयल सीयलवयणभंग।
जय सेय सेयकिरणोहसुज्ज, जय वासुपूज्य पुज्जाणुज्ज।।
जय विमल विमलगुणसेढिठाण, जय जयहि अणंताणंतणाण।
जय धम्म धम्मतित्थयर संत, जय सांति सांति विहियावयत्त।।
जय कुंठुकुन्थपुहुअंगिसदय, जय अर अर माहर विहियसमय।
जय मल्लि मल्लि आदामगधं, जय मुणिसुव्वय सुव्वयणिबंध।
जय णमि णमियामरणियरसामि, जयणेमि धम्मरह चक्कणेमि।
जय पास पासछिंदणकिवाण, जय वड्ढमाण जसवड्ढमाण।।
इह जाणिय णामहिं दुरियविरामहिं, परहिंबि णमिय सुरावलिहिं।
अणहणहिं अणाइहिं समियकुवाइहिं, पणविधि अरहंतावलिहिं।।
मानस्तंभाः सरांसि, प्रविमल-जल-सत्खातिका-पुष्पवाटी।
प्रकारो नाट्यशालाद्वितयमुपवनं वेदिकांतध्र्वजाद्याः।।
शालः कल्पदु्रमाणां, सुपरिवृत्त-वनं स्तूप-हम्र्यावली च।
प्राकारः स्फाटिकोन्त-र्नृसुर-मुनिसभा पीठिकाग्रे स्वयंभूः।।१।।
वर्षेषु वर्षान्तरपर्वतेषु, नन्दीश्वरे यानि च मंदरेषु।
यावन्ति चैत्यायतनानि लोके, सर्वाणि वन्दे जिनपुङ्गवानां।।
अवनितलगतानां, कृत्रिमाकृत्रिमाणां।
वनभवनगतानां, दिव्यवैमानिकानां।।
इह मनुजकृतानां, देवराजार्चितानां।
जिनवरनिलयानां भावतोऽहं स्मरामि।।२।।
जम्बूधातकिपुष्कराद्र्धवसुधाक्षेत्रत्रये ये भवा- श्चंद्राम्भोजशिखंडिकंठकनकप्रावृड्घनाभाजिना:।
सम्यग्ज्ञानचरित्रलक्षणधरा दग्धाष्टकर्मेन्धना, भूतानागतवर्तमानसमये तेभ्यो जिनेभ्यो नम:।।३।।
श्रीमन्मेरौ कुलाद्रौ रजतगिरिवरे शाल्मलौ जम्बुवृक्षे, वक्षारे चैत्यवृक्षे रतिकररुचिके कुंडले मानुषांके।
इष्वाकारेंऽजनाद्रौ दधिमुखशिखरे व्यंतरे स्वर्गलोके, ज्योतिर्लोकेऽभिवन्दे भुवनमहितले यानि चैत्यालयानि।।४।।
द्वौ कुन्देन्दुतुषार-हारधवलौ, द्वाविन्द्रनीलप्रभौ, द्वौ बन्धूकसमप्रभौ जिनवृषौ, द्वौ च प्रियंगुप्रभौ।
शेषा: षोडश जन्मृत्युरहिता:, संतप्तहेमप्रभा- स्ते संज्ञानदिवाकरा: सुरनुता: सिद्धिं प्रयच्छन्तु न:।।५।।
इच्छामि भन्ते! चेइयभत्ति काउस्सग्गो कओ तस्सालोचेउं, अहलोयतिरियलोयउढ्ढलोयम्मि किट्टिमाकिट्टिमाणि जाणि जिणचे-इयाणि ताणि सव्वाणि तिसु वि लोएसु भवणवासियवाणविंतरजोइ-सियकप्पवासियत्तिचउविहा देवा सपरिवार दिव्वेण गन्धेण, दिव्वेण पुप्पेण, दिव्वेण चुण्णेण, दिव्वेण वासेण, दिव्वेण ण्हाणेण, णिच्चकालं, अंचंति, पुज्जंति वन्दंति, णमंसंति अहमवि इह संतो, तत्थ संताइं णिच्चकालं अंचेमि, पूजेमि, वन्दामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ बोहिलाहो सुगइगमणं, समाहिमरणं, जिणगुणसम्पत्ति होउ मज्झं। (अनन्तर पंचांग नमस्कार करे व नीचे लिखी कृत्यविज्ञापना करे) अथ पौर्वाण्हिकदेववन्दनायां पूर्वाचार्यानुक्रमेण सकलकर्मक्षयार्थं भावपूजावन्दनास्तवसमेतं पंचमहागुरुभक्तिकायोत्सर्गं करोम्यहं। (पंचांग प्रणाम करें, अनंतर ३ आवर्त एक शिरोनति कर पूर्वोक्त सामायिक दंडक पढ़े। पुन: तीन आवर्त और एक शिरोनति कर सत्ताईस उच्छ्वास-प्रमाण कायोत्सर्ग करें। कायोत्सर्ग पूर्ण होने पर पुन: पंचांग नमस्कार कर तीन आवर्त और एक शिरोनति करें। पश्चात् थोस्सामि इत्यादि चतुर्विंशति स्तव पढ़कर अन्त में तीन आवर्त और एक शिरोनति करे। अनन्तर नीचे लिखी पंचमहागुरुभक्ति पढ़े।
मणुयणाइंदसुरधरियछत्तत्तया, पंचकल्लाणसोक्खावली पत्तया।
दंसणं णाण झाणं अणंतं बलं, ते जिणा दिंतु अम्हं वरं मंगलं।।१।।
जेहिं झाणग्गिवाणेहिं अइथद्दयं जम्मजरमरणणयरत्तयं दड्ढयं।
जेहिं पत्तं सिवं सासयं ठाणयं, ते महं दिंतु सिद्धा वरं णाणयं।।२।।
पंचआचारपंचग्गिसंसाहया, बारसंगाइं सुअजलहि-अवगाहया।
मोक्खलच्छी महंती महं ते सया, सूरिणो दिंतु मोक्खंगयासंगया।।३।।
घोरसंसार-भीमाडवीकाणणे, तिक्खवियरालणहपावपंचाणणे।
णट्ठमग्गाण जीवाण पहदेसया, वंदिमो ते उवज्झाय अम्हे सया।।४।।
उग्गतवचरणकरणेहिं झीणंगया, धम्मवरझाणसुक्केक्कझाणंगया।
णिब्भरं तवसिरीए समालिंगया, साहवो ते महं मोक्खपहमग्गया।।५।।
एण थोत्तेण जो पंचगुरु वंदए, गुरुयसंसारघणवेल्लि सो छिंदए लहइ
सो सिद्धसोक्खाइं बहुमाणणं, कुणइ कम्मिंधणं पुंजपज्जालणं।।६।।
अरुहा सिद्धाइरिया,उवझाया साहु पंचपरमेट्ठी।
एयाण णमुक्कारा, भवे भवे मम सुहं दिंतु।।७।।
इच्छामि भन्ते! पंचगुरुभक्तिकाओसग्गो कओ तस्सालोचेउं अट्ठमहापाडिहेरसंजुत्ताणं अरहंताणं, अट्ठगुणसंपण्णाणं उड्ढलोय-मत्थयम्मि पइट्ठियाणं सिद्धाणं, अट्ठपवयणमाउसंजुत्ताणं आइरियाणं, आयारादिसुदणाणोवदेसयाणं उवज्झायाणं, तिरयणगुणपाल-णरयाणं सव्वसाहूणं, णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसम्पत्ति होउ मज्झं। (अनंतर नमस्कार करके कृत्य विज्ञापना करें।)
अथ पौर्वाण्हिक देववंदनायां पूर्वाचार्यानुक्रमेण सकल-कर्मक्षयार्थं भावपूजावंदनास्तवसमेतं श्रीशांतिभक्तिकायोत्सर्गं करोम्यहं।
(प्रणाम करके ३ आवर्त, १ शिरोनति कर ‘णमो अरहंताणं’ इत्यादि दंडक पढ़कर ३ आवर्त, १ शिरोनति करे। जाप्य से कायोत्सर्ग करे, पुन: प्रणाम कर ३ आवर्त, १ शिरोनति करके ‘‘थोस्सामि’’ इत्यादि पढ़कर ३ आवर्त, १ शिरोनति करके ‘‘शांतिभक्ति पढ़े।’’)
शांतिजिनं शशिनिर्मलवक्त्रं, शीलगुणव्रतसंयमपात्रम्।
अष्टशतार्चितलक्षणगात्रं, नौमि जिनोत्तममम्बुजनेत्रम्।।१।।
पंचममीप्सितचक्रधराणां, पूजितमिंद्र-नरेन्द्रगणैश्च।
शांतिकरं गणशांतिमभीप्सुः षोडशतीर्थकरं प्रणमामि।।२।।
दिव्यतरुः सुरपुष्पसुवृष्टिर्दुन्दुभिरासनयोजनघोषौ।
आतपवारणचामरयुग्मे, यस्य विभाति च मंडलतेजः।।३।।
तं जगदर्चितशांतिजिनेन्द्रं, शांतिकरं शिरसा प्रणमामि।
सर्वगणाय तु यच्छतु शांतिं, मह्यमरं पठते परमां च।।४।।
येभ्यर्चिता मुकुटकुंडलहाररत्नैः।
शक्रादिभिः सुरगणैः स्तुतपादपद्माः।।
ते मे जिनाः प्रवरवंशजगत्प्रदीपाः।
तीर्थंकराः सततशांतिकरा भवंतु।।५।।
संपूजकानां प्रतिपालकानां, यतीन्द्रसामान्यतपोधनानां।
देशस्य राष्ट्रस्य पुरस्य राज्ञः, करोतु शांतिं भगवान् जिनेन्द्रः।।६।।
अशोकवृक्ष: सुरपुष्पवृष्टि-र्दिव्यध्वनिश्चामरमासनं च।
भामंडलं दुदुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणां।।७।।
क्षेमं सर्वप्रजानां प्रभवतु बलवान्, धार्मिको भूमिपालः।
काले काले च सम्यग्वर्षतु मघवा, व्याधयो यांतु नाशं।।
दुर्भिक्षं चोरिमारी क्षणमपि जगतां, मा स्म भूज्जीवलोके।
जैनेन्द्रं धर्मचव्रं प्रभवतु सततं, सर्वसौख्यप्रदायि।।८।।
प्रध्वस्तघातिकर्माणः, केवलज्ञानभास्कराः।
कुर्वन्तु जगतां शांतिं, वृषभाद्या जिनेश्वराः।।९।।
इच्छामि भंते! संतिभत्ति काउस्सग्गो कओ तस्सालोचेउं पंचमहाकल्लाण-संपण्णाणं, अट्ठमहापाडिहेर-सहियाणं, चउती-सातिसयविशेषसंजुत्ताणं, बत्तीसदेवेंदमणिमय-मउडमत्थय-महियाणं, बलदेववासुदेवचक्कहररिसिमुणिजइ-अणगारोवगूढाणं, थुइसय-सहस्सणिलयाणं उसहाइवीरपच्छिम-मंगलमहापुरिसाणं, णिच्च-कालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिनगुणसंपत्ति होउ मज्झं। —- (पुन: नमस्कार कर विज्ञापना करे।) अथ पौर्वाण्हिकदेववंदनायां चैत्य-पंचगुरुशांतिभक्ती: कृत्वा तद्धीनाधिकत्वादि दोषविशुद्धयर्थं आत्मपवित्रीकरणार्थं समाधिभक्ति कायोत्सर्गं करोम्यहं। (पुन: नमस्कार कर ३ आवर्त, १ शिरोनति करके सामायिक दंडक पढ़कर ३ आवर्त, १ शिरोनति करे। पुन: कायोत्सर्ग कर नमस्कार करे व ३ आवर्त १, शिरोनति कर थोस्सामि स्तव पढ़कर ३ आवर्त, १ शिरोनति कर समाधिभक्ति पढ़े।)
प्रथमं करणं चरणं द्रव्यं नम:। शास्त्राभ्यासो जिनपतिनुतिः संगतिः सर्वदार्यैः।
सद्वृत्तानां गुणगणकथा, दोषवादे च मौनम् ।।
सर्वस्यापि प्रियहितवचो, भावना चात्मतत्त्वे।
सम्पद्यंतां मम भवभवे, यावदेतेऽपवर्गः।।१।।
जैनमार्गरुचिरन्यमार्गनिर्वेगता जिनगुणस्तुतौ मतिः।
निष्कलंकविमलोक्तिभावनाः, सम्भवन्तु मम जन्मजन्मनि।।२।।
तव पादौ मम हृदये, मम हृदयं तव पदद्वये लीनम्।
तिष्ठतु जिनेन्द्र! तावद्यावन्निर्वाणसंप्राप्तिः।।३।।
अक्खर-पयत्थहीणं, मत्ताहीणं च जं मए भणियं।
तं खमउ णाण देवय! देउ समाहिं च मे बोहिं।।४।।
जं सक्कइ तं कीरइ सेसस्स सया करेइ सद्दहणं।
सद्दहमाणो जीवो पावइ अजरामरं ठाणं।।५।।
तवयरणं वयधरणं संजमसरणं च जीवदयाकरणं।
अंते समाहिमरणं चउगइदुक्खं णिवाणेइ।।६।।
दुक्खक्खओ कम्मक्खओ बोहिलाओ सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।