स्तोष्ये संज्ञानानि, परोक्षप्रत्यक्षभेदभिन्नानि।
लोकालोकविलोकनलोलितसल्लोकलोचनानि सदा।।१।।
अभिमुखनियमितबोधनमाभिनिबोधिकमिंनद्रियेंद्रियजं।
बह्वाद्यवग्र्हादिककृतषट्त्रिंशत्त्रिशतभेदम् ।।२।।
विविधर्द्धिबुद्धिकोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकं।
संभिन्नश्रोतृतया सार्धं श्रुतभाजनं वंदे।।३।।
श्रुतमपि जिनवरविहितं, गणधररचितं द्व्यनेकभेदस्थम्।
अंगांगबाह्यभावितमनंतविषयं नमस्यामि ।।४।।
पर्यायाक्षरपदसंघातप्रतिपत्तिकानुयोगविधीन् ।
प्राभृतकप्राभृतक्, प्राभृतक् वस्तु पूर्वं च।।५।।
तेषां समासतोऽपि च, विंशतिभेदान् समश्नुवानं तत्।
वंदे द्वादशधोक्तं, गभीरवर – शास्त्रपद्धत्या।।६।।
आचारं सूत्रकृतं, स्थानं समवायनामधेयं ।
व्याख्याप्रज्ञिंप्त च, ज्ञातृकथोपासकाध्ययने।।७।।
वंदेंऽतकृद्दशमनुत्तरोपपादिकदशं दशावस्थम् ।
प्रश्नव्याकरणं हि, विपाकसूत्रं च विनमामि।।८।।
परिकर्म च सूत्रं च, स्तौमि प्रथमानुयोगपूर्वगते।
सार्द्धं चूलिकयापि च, पंचविधं दृष्टिवादं च।।९।।
पूर्वगतं तु चतुर्दश-धोदितमुत्पादपूर्वमाद्यमहम् ।
आग्रायणीयमीडे, पुरुवीर्यानुप्रवादं च ।।१०।।
संततमहमभिवंदे, तथास्तिनास्तिप्रवादपूर्वं च।
ज्ञानप्रवादसत्यप्रवादमात्मप्रवादं च ।।११।।
कर्मप्रवादमीडेऽथ, प्रत्याख्याननामधेयं च।
दशमं विद्याधारं पृथुविद्यानुप्रवादं च ।।१२।।
कल्याणनामधेयं, प्राणावायं क्रियाविशालं च।
अथ लोकविंदुसारं, वंदे लोकाग्रसारपदं।।१३।।
दश च चतुर्दश चाष्टा-वष्टादश च द्वर्योिद्वषट्कं च।
षोडश च विंशतिं च, त्रिंशतमपि पंचदश च तथा।।१४।।
वस्तूनि दश दशान्येष्वनुपूर्वं भाषितानि पूर्वाणाम्।
प्रतिवस्तु प्राभृतकानि, विंशतिं विंशतिं नौमि।।१५।।
पूर्वांतं ह्यपरातं ध्रुवमध्रुवच्यवनलब्धिनामानि।
अध्रुवसंप्रणिधिं चाप्यर्थं भौमावयाद्यं च।।१६।।
सर्वार्थकल्पनीयं, ज्ञानमतीतं त्वनागतं कालं।
सिद्धिमुपाध्यं च तथा, चतुर्दशवस्तूनि द्वितीयस्य।।१७।।
पंचमवस्तुचतुर्थ – प्राभृतकस्यानुयोगनामानि।
कृतिवेदने तथैव, स्पर्शनकर्मप्रकृतिमेव।।१८।।
बंधननिबंधनप्रक्रमानुपक्रममथाभ्युदयमोक्षौ ।
संक्रमलेश्ये च तथा, लेश्यायाः कर्मपरिणामौ।।१९।।
सातमसातं दीर्घं, ह्रस्वं भवधारणीयसंज्ञं च।
पुरुपुद्गलात्मनाम च, निधत्तमनिधत्तमभिनौमि।।२०।।
सनिकाचितमनिकाचितमथ कर्मस्थितिकपश्चिमश्वंधौ।
अल्पबहुत्वं च यजे, तद्द्वाराणां चतुर्विंशम् ।।२१।।
कोटीनां द्वादशशत-मष्टापंचाशतं सहस्राणाम् ।
लक्षत्र्यशीतिमेव च, पंच च वंदे श्रुतपदानि।।२२।।
षोडशशतं चतुिंस्त्रशत्कोटीनां त्र्यशीतिलक्षाणि।
शतसंख्याष्टासप्तति-मष्टाशीतिं च पदवर्णान् ।।२३।।
सामायिक् चतुर्विंशति-स्तवं वंदना प्रतिक्रमणं।
वैनयिक् कृतिकर्म च, पृथुदशवैकालिक् च तथा।।२४।।
वरमुत्तराध्ययनमपि, कल्पव्यवहारमेवमभिवन्दे।
कल्पाकल्पं स्तौमि, महाकल्पं पुण्डरीक च ।।२५।।
परिपाट्या प्रणिपतितोऽस्म्यहं महापुण्डरीकनामैव।
निपुणान्यशीतिक् च, प्रकीर्णकान्यङ्गबाह्यानि।।२६।।
पुद्गलमर्यादोत्तंक्, प्रत्यक्षं सप्रभेदमवधिं च।
देशावधिपरमावधि-सर्वावधिभेदमभिवन्दे ।।२७।।
परमनसि स्थितमर्थं, मनसा परिविद्य मंत्रिमहितगुणम्।
ऋजुविपुलमतिविकल्पं, स्तौमि मनःपर्ययज्ञानम् ।।२८।।
क्षायिकमनन्तमेक्, त्रिकालसर्वार्थयुगपदवभासम्
सकलसुखधाम सततं, वन्देऽहं केवलज्ञानम् ।।२९।।
एवमभिष्टुवतो मे, ज्ञानानि समस्तलोकचक्षूंषि।
लघु भवताज्ज्ञानद्र्धि, ज्र्ञानफलं सौख्यमच्यवनम् ।।३०।।
इच्छामि भंते! सुदभत्तिकाउस्सग्गो कओ तस्सालोचेउं अंगोवंगपइण्णए पाहुडयपरियम्मसुत्तपढमाणुओगपुव्वगयचूलिया चेव सुत्तत्थयथुइधम्मकहाइयं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।