गर्भावतरणकल्याणक
(भूमिका)
अथांकुरार्पणदिनात् षष्ठे तु दिवसे निशि ।
गर्भावतारकल्याणं विदधीत यथाविधि ।। 1 ।।
तत्रादौ पूजकाचार्य, कुंजरेण विधीयते ।
पुरस्तान्नवबिंबस्य, प्रतिष्ठेयनिरूपणम् ।। 2 ।।
सकलीकरणं कार्यं, हस्तशुद्ध्यादिपूर्वकम् ।
मूलवेदीपुरोदेशे, कल्पिते पुष्पमंडिते ।। 3 ।।
संकल्पपूर्वकं पुष्पांजलिस्तद्भूमिशोधनम् ।
वायुमेघाग्निभिर्देवैर्दर्भन्यासोर्चना क्षितेः ।। 4 ।।
गंधांबुसेकः पुष्पोपहारः पीठनिवेशनम् ।
तद्भद्रपीठे निःशेषजिनमातृसमर्चनम् ।। 5 ।।
तत्पीठस्थमहापात्रे, विवक्षितजिनप्रभोः ।
मातुरावाहनादिः स्यात्कौबेरं रत्नवर्षणम् ।। 6 ।।
भोगोपभोगद्रव्योपनयनं धनदेन वै।
ततः प्राक्कल्पिते पद्माकरे साष्टदलांबुजे ।। 7 ।।
कर्णिकायां जिनस्येष्टिः, श्र्यादीनां तद्दलाष्टके ।
तत्र सर्वौषधीवारिपूर्णकुंभनिवेशनम् ।। 8 ।।
श्र्यादिसंकल्पनेनाष्टकन्यानां विनिवेशनम् ।
गर्भशोधनमंबायाः, श्र्यादिभिस्तदुपासनम् ।। 9।।
फलवत्षोडशस्वप्नस्थापनं मातुरानने ।।
प्रवेशनस्य संकल्पादुचिताकारतः प्रभोः ।। 10 ।।
जलाधिवासनं सर्व-बिंबानां तु तथोचितम् ।।
तदर्चनं च दिक्पालपूजा यवनिकार्पणम् ।। 11 ।।
धामसंप्रोक्षणं होमः, शांतिशुध्यभिधानकः ।
भूमिशुध्यादिकं गर्भ-गृहे पीठनिवेशनम् ।। 12 ।।
सर्वौषधीपंचमृद्भिः पीठाग्रस्य विलेपनम् ।
पंचतीर्थांबुभिस्तस्य, क्षालनं विशदाक्षतैः ।। 13 ।।
अष्टच्छदाब्जरचना तन्मध्ये विनिवेशनम् ।
जलाधिवासितार्चायास्ततो गर्भाभिवद्र्धनम् ।। 14।।
सांगसर्गक्रमारोपाद्दर्भशय्याविधिर्विभोः ।
क्षीरैर्लघ्वभिषेकोऽथ गव्यैरष्टविधार्चनम् ।। 15 ।।
वस्त्रांतरावृतिर्दिक्षु दिक्पालानां समर्चनम् ।
वालुकास्थंडिले हस्तव्यासायामेंऽगुलोच्छ्रये ।। 16 ।।
दर्भैर्होमो यवनिकादीपद्वयनिवेशनम् ।
इष्टिः स्तुतिर्जिनांबायास्तदग्रे शक्रनर्तनम् ।। 17 ।।
जिनतातस्य गमनाप्रच्छनं स्तुतिपूर्वकम्।
गर्भावतारकल्याण-क्रियाशान्तिबलिस्तथा ।। 18 ।।
इष्टार्थप्रार्थना चेति, तत्कल्याणक्रियाक्रमः ।
तत्तत्क्रियाविशेषस्तु, प्रयोगे प्रतिपाद्यते ।। 19 ।।