संकल्प्याभिषवं विशोध्य भुवमा-स्थाप्यात्र दर्भान् घटान्।
पीठे बिंबमिहार्हतं जिनमुपा-स्याव्हाननादिक्रमैः।।
दिक्पालान्परिपूज्य सज्जलमुखैः, सार्धैः कषायोदकैः।
संस्नाप्यान्ववतार्य कोणकलशै-र्गंधोदकैः स्नापये।।1।।
विधियज्ञप्रतिज्ञापनाय प्रतिमाग्रे जात्यकुंकुमलुलितदर्भदूर्वापुष्पाक्षतं क्षिपेत्।।
श्रीपादन्यासमत्राचरत् जिनमतोद्योतनार्थं मुनींद्राः।
कल्पेंद्रा विक्रियांगैरिह समुपगता विघ्नशांतिं कुरुध्वम्।
ये भित्वा घातिकर्माचलमखिलजगज्ज्योतिराप्य प्रणेता।
श्रेयोमार्गस्य सोयं जिनविभुरलमाराध्यतेऽभ्यच्र्य सिद्धान्।।2।।
प्रभावक¯सिंहसानिध्यविधानाय समंतात्पुष्पाक्षतं क्षिपेत्।।
आर्याः पोषयताशिषद्र्धिकलिताः, सप्तापि हुत्वा£चताः।
देवा विघ्ननिवारणेन निखिलाः, स्वस्वायुधाद्यन्विताः।।
स्थानस्थाश्च सुरर्षयः स्तुतमुदा, सर्वेहमिंद्रास्तदा।
श्रद्धत्तार्यजनाश्च पंच सदयं, यागं मया प्रस्तुतम्।।3।।
त्रिभुवनसाध£मकाध्येषणाय समंतात्पुष्पाक्षतं क्षिपेत्।।
इति प्रस्तावना।।
जिनानामपि सिद्धानां, महर्षीणां समर्चनात्।
पाठात्स्वस्त्ययनस्यापि, मनःपूर्वं प्रसादये।।4।।
मनःप्रसत्तिविधानसूचनार्थमर्चनापीठाग्रतः पुष्पांजलिं क्षिपेत्।। इति जिनयज्ञविधानम्।
आहूता भवनामरैरनुगता, यं सर्वदेवास्तथा। तस्थौ यस्त्रिजगत्सभांतरमहा-पीठाग्रसिंहासने। यं हृद्यं हृदि सन्निधाप्य सततं, ध्यायंति योगीश्वराः। तं देवं जिनम£चतं कृतधिया-माव्हाननाद्यैर्भजे।।1।।
ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा अर्हन्! अत्र एहि एहि संवौषट्। ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा अर्हन्! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा अर्हन्! अत्र मम सन्निहितो भव भव वषट्। तीर्थोदकै जनपादौ प्रक्षाल्य तदग्रे पृथगिमान्मंत्रानुच्चारयन्पुष्पांजलिं प्रयंुजीत। यत्रागाधविशालनिर्मलगुणे, लोकत्रयं सर्वदा। सालोकं प्रतिबिंबितं प्रविशतां, नित्यामृतानंदनम्। सर्वाब्जानिमिषास्पदं स्मृतिगतं, पापापहं धीमताम्। अर्हत्तीर्थमपूर्वमक्षयमिदं, वार्धारया धारये।।1।।
ॐ ह्रीं परमब्रह्मणे अनंतानंतज्ञानशक्तये जलं निर्वपामीति स्वाहा। गंधश्चंदनगंधबंधुरतरो, यद्दिव्यदेहोद्भवो। गंधर्वाद्यमरस्तुतो विजयते, गंधांतरं सर्वतः। गंधादीनखिलानवैति विशदं, गंधादिमुक्तोऽपि यः। तं गंधाद्यघगंधमानहतये, गंधेन संपूजये।।2।।
ॐ ह्रीं सहजसौगंध्यबंधुराय गंधं निर्वपामीति स्वाहा। इंद्राहींद्रसमचतैरनुपमै-दव्यैर्वलक्षाक्षतै-र्यस्य श्रीपदसन्नखेंदुसविधे, नक्षत्रजालायितं। ज्ञानं यस्य समक्षमक्षतमभू-द्वीर्यं सुखं दर्शनम्। यायज्म्यक्षतसंपदे जिनमिमं, सूक्ष्मेतरैरक्षतैः।।3।।
ॐ ह्रीं अक्षयफलप्रदाय अक्षतम् निर्वपामीति स्वाहा। यस्य द्वादशयोजने सदसि सद्गंधादिभिः स्वोपमा। नप्यर्थान्सुमनोगणान्सुमनसो, वर्षन्ति विष्वक्सदा। यः सिद्धिं सुमनःसुखं सुमनसां, स्वं ध्यायतामावहे-त्तं देवं सुमनोमुखैश्च सुमनो-भेदैः समभ्यर्चये।।4।।
ॐ ह्रीं सुमनःसुखप्रदाय पुष्पम् निर्वपामीति स्वाहा। यद्व्याबाधविव£जतं निरुपमं, स्वात्मोत्थमत्यू£जतम्। नित्यानंदसुखेन तेन लभते, यस्तृप्तिमात्यन्तिकीम्।। यं चाराध्य सुधाशिनो ननु सुधा-स्वादं लभंते चिरम्। तस्योद्यद्रसचारुणैव चरुणा, श्रीपादमाराधये।।5।।
ॐ ह्रीं अनंतानंतसुखसंतृप्ताय चरुं निर्वपामीति स्वाहा। स्वस्यान्यस्य सहप्रकाशनविधौ, दीपोपमोप्यन्वहम्। यः सर्वं ज्वलयन्ननंतकिरणै-स्त्रैलोक्यदीपोऽस्त्यतः।। येनोद्दीपितधर्मतीर्थमभवत्-सत्यं विभो स्वस्यसद्दीप्त्या दीपितदिङ्मुखस्य चरणौ, दीपैः समुद्दीपये।।6।।
ॐ ह्रीं अनंतदर्शनाय दीपं निर्वपामीति स्वाहा। येनेदं भुवनत्रयं चिरमभू-दुद्धूपितं सोप्यहो-मोहो येन सुधूपितो निजमहा-ध्यानाग्निना निर्दयम्। यस्यास्थानपदस्थधूपघटजै-र्धूमैर्जगद्धूपितम्। धूपैस्तस्य जगद्वशीकरणसद्धूपैः पदं धूपये।।7।।
ॐ ह्रीं वशीकृतत्रिलोकनाथाय धूपं निर्वपामीति स्वाहा। यद्भक्त्या फलदायि पुण्यमुदितं, पुण्यं नवं बध्यते। पापं नैव फलप्रदं किमपि नो, पापं नवं प्राप्यते। आर्हन्त्यं फलमद्भुतं शिवसुखं, नित्यं फलं लभ्यते। पादौ तस्य फलोत्तमादिसुफलैः, श्रेयःफलायाच्र्यते।।8।।
ॐ ह्रीं अभीष्टफलप्रदाय फलम् निर्वपामीति स्वाहा। वार्गंधतंडुललतांतहविःप्रदीपै-र्धूपैः फलैः कनकपात्रगतै£जनाग्रे। नंद्यादिवर्तदधिस्वस्तिकदर्भदूर्वा, सिद्धार्थकैश्च कृतमहाघ्र्यमिहोद्धरामः।।9।।
ॐ ह्रीं विनष्टाष्टकर्मणे अघ्र्यं निर्वपामीति स्वाहा।
(शांतिधारा, पुष्पांजलिः।)
तुभ्यं नमो दशगुणो£जतदिव्यगात्र।कोटिप्रभाकरनिशाकरजैत्रतेजः।
तुभ्यं नमोऽतिचिरदुर्जयघातिजात। घातोपजातदशसारगुणाभिराम।।1।।
तुभ्यं नमः सुरनिकायकृतै£वहारे। दिव्यैश्चतुर्दशविघातिशयैरुपेत।
तुभ्यं नमस्त्रिभुवनाधिपतित्वलक्ष्म- श्रीप्रातिहार्याष्टकलक्षितार्हन्।।2।।
तुभ्यं नमो निरुपमान अनंतवीर्य। तुभ्यं नमो निजनिरंजननित्यसौख्य।
तुभ्यं नमः परमकेवलबोधवार्धे। तुभ्यं नमः समसमस्तपदावलोक।।3।।
तुभ्यं नमः सकलमंगलवस्तुमुख्य। तुभ्यं नमः शिवसुखप्रद पापहारिन्।
तुभ्यं नमस्त्रिजगदुत्तमलोकपूज्य। तुभ्यं नमः शरणभूत्रय रक्ष रक्ष।।4।।
तुभ्यं नमोस्तु नवकेवलपूर्वलब्धे। तुभ्यं नमोस्तु परमैश्वर्योपलब्धे।
तुभ्यं नमोस्तु मुनिकुंजरयूथनाथ। तुभ्यं नमोस्तु भुवनत्रितयैकनाथ।।5।।
इति जिनयज्ञविधानम् अथातः सिद्धार्चनविधानम् आहूता इव सिद्धमुक्तिवनितां, मुक्तान्यसंगा ययुः। तिष्ठंत्यष्टमभूमिसौधशिखरे, सानंतसौख्याः सदा। साक्षात्कुर्वत एव सर्वमनिशं, सालोकलोकं समं। तानद्धेद्धविशुद्धसिद्धनिकरा-नावाहनाद्यैर्भजे।।1।।
ॐ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिन्! अत्र एहि एहि संवौषट्। ॐ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिन्! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिन्! अत्र मम सन्निहितो भव भव वषट्। गंगादितित्थप्पवहप्पएहिं, सग्गंधदाणिम्मलदापएहिं। अच्चेमि णिच्चं परमट्ठसिद्धे, सव्वट्ठसंपादय सव्वसिद्धे।।1।।
ॐ ह्रीं र्हं श्रीसिद्धाधिपतये जलं निर्वपामीति स्वाहा। गंधेहिं घाणाण सुहप्पएहिं, समच्चयाणं पि सुहप्पएहिं। अच्चेमि णिच्चं परमट्ठसिद्धे, सव्वट्ठसंपादय सव्वसिद्धे।।2।।
ॐ ह्रीं र्हं श्रीसिद्धाधिपतये गंधं निर्वपामीति स्वाहा। फेरंत छोणीसिय कारणे¯हिं, वरक्खएहिं सियकारणेहिं। अच्चेमि णिच्चं परमट्ठसिद्धे, सव्वट्ठसंपादय सव्वसिद्धे।।3।।
ॐ ह्रीं र्हं श्रीसिद्धाधिपतये अक्षतं निर्वपामीति स्वाहा। पुफ्फेहिं दिव्वेहिं सुवण्णएहिं, कब्बे कऊसेहिं सुवण्णएहिम्। अच्चेमि णिच्चं परमट्ठसिद्धे, सव्वट्ठसंपादय सव्वसिद्धे।।4।।
ॐ ह्रीं र्हं श्रीसिद्धाधिपतये पुष्पं निर्वपामीति स्वाहा। बब्भेहिं णाणसुरसप्पएहिं, भव्वाणणाणायिरसप्पएहिं। अच्चेमि णिच्चं परमट्ठसिद्धे, सव्वट्ठसंपादय सव्वसिद्धे।।5।।
ॐ ह्रीं र्हं श्रीसिद्धाधिपतये चरुं निर्वपामीति स्वाहा। देदिव्वमाणप्पहदीवएहिं, संऊयआणं सिरिदीवएहिं। अच्चेमि णिच्चं परमट्ठसिद्धे, सव्वट्ठसंपादय सव्वसिद्धे।।6।।
ॐ ह्रीं र्हं श्रीसिद्धाधिपतये दीपं निर्वपामीति स्वाहा। कालाअरुब्भूयसुहूवएहिं, जीयाण पावाण सुहूवएहिम्। अच्चेमि णिच्चं परमट्ठसिद्धे, सव्वट्ठसंपादय सव्वसिद्धे।।7।।
ॐ ह्रीं र्हं श्रीसिद्धाधिपतये धूपं निर्वपामीति स्वाहा। अणग्घभूएहि फलव्वएहिं, भव्वस्स संदिण्णफलव्वएहिम्। अच्चेमि णिच्चं परमट्ठसिद्धे, सव्वट्ठसंपादय सव्वसिद्धे।।8।।
ॐ ह्रीं र्हं श्रीसिद्धाधिपतये फलं निर्वपामीति स्वाहा। णयेण णाणेण य दंसणेण, तवेण उट्ठेण य संजमेण। सिद्धे तिकाले सुविसुद्धबुद्धे, समग्घयामो सयले वि सिद्धे।।9।।
ॐ ह्रीं र्हं श्रीं सिद्धाधिपतये जलादियज्ञांगदूर्वादर्भदधिसिद्धार्थादिमंगल-द्रव्यविनि£मतमहाघ्र्यं निर्वपामीति स्वाहा। एवमर्हत्प्रतिमाग्रे सिद्धानभ्यच्र्य भक्त्या स्तुवीत।
(शांतिधारा, पुष्पांजलिः।)
नमस्ते पुरुषार्थानां, परां काष्ठामधिष्ठित। सिद्धभट्टारकस्तोम, निष्ठितार्थ निरंजन।।1।।
स्वःप्रदाय नमस्तुभ्यं, अचलाय नमोस्तु ते। अक्षयाय नमस्तुभ्यं, अव्याबाधाय ते नमः।।2।।
नमस्तेऽनंतविज्ञान-दृष्टिवीर्यसुखास्पद। नमो नीरजसे तुभ्यं, निर्मलायास्तु ते नमः।।3।।
अच्छेद्याय नमस्तुभ्यं, अभेद्याय नमो नमः। अक्षताय नमस्तुभ्यं, अप्रमेय नमोस्तु ते।।4।।
नमोस्त्वगर्भवासाय, नमोऽगौरवलाघव। अक्षोभ्याय नमस्तुभ्य-मविलीनाय ते नमः।।5।।
नमः परमकाष्ठात्म-योगरूपत्वमीयुषे । लोकाग्रवासिने तुभ्यं, नमोऽनंतगुणाश्रय।।6।।
निःशेषपुरुषार्थानां, निष्ठां सिद्धिमधिष्ठित। सिद्धभट्टारकव्रात, भूयो भूयो नमोस्तु ते।।7।।
विविधदुरितशुद्धान्सर्वतत्त्वार्थबुद्धान् । परमसुखसमृद्धान्युक्तिशास्त्राविरुद्धान्।
बहुविधगुणवृद्धान्सर्वलोकप्रसिद्धान् । प्रमितसुनयसिद्धान्संस्तुवे सर्वसिद्धान्।।8।।
इति सिद्धभक्तिविधानम्
ये येऽनगारा ऋषयो यतीन्द्रा, मुनीश्वरा भव्यभवद्व्यतीताः। तेषां समेषां पदपंकजानि, संपूजयामो गुणशीलसिद्ध्यै।।1।।
ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रपवित्रतरगात्र चतुरशीतिलक्षगुणगणधरचरणा! अत्र आगच्छत आगच्छत संवौषट्। ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रपवित्रतरगात्र चतुरशीतिलक्षगुणगणधरचरणा! अत्र तिष्ठत तिष्ठत ठः ठः।
ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्रपवित्रतरगात्र चतुरशीतिलक्षगुणगणधरचरणा! अत्र मम रत्नत्रयशुद्धिं कुरुत कुरुत वषट्। सुगंधिशीतलैः स्वच्छैः, स्वादुभि£वमलैर्जलैः। सार्धद्वीपद्वयातीत, भवद्भव्ययतीन्यजे।।1।।
ॐ ह्रीं गणधरचरणेभ्यो जलं निर्वपामीति स्वाहा। सारकर्पूरकाश्मीर-कलितैश्चंदनद्रवैः।। सार्धद्वीपद्वयातीत, भवद्भव्ययतीन्यजे।।2।।
ॐ ह्रीं गणधरचरणेभ्यो गंधं निर्वपामीति स्वाहा। अक्षतैरक्षतैः सूक्ष्मै-र्वलक्षैरुक्षसन्निभैः।। सार्धद्वीपद्वयातीत, भवद्भव्ययतीन्यजे।।3।।
ॐ ह्रीं गणधरचरणेभ्यो अक्षतं निर्वपामीति स्वाहा। पुष्पैः प्रसरदामोदा-हूत पुष्पंधयावृतैः।। सार्धद्वीपद्वयातीत, भवद्भव्ययतीन्यजे।।4।।
ॐ ह्रीं गणधरचरणेभ्यो पुष्पं निर्वपामीति स्वाहा। हव्यैर्नव्यघृतापूप-पायसैव्र्यंजनान्वितैः।। सार्धद्वीपद्वयातीत, भवद्भव्ययतीन्यजे।।5।।
ॐ ह्रीं गणधरचरणेभ्यो चरुं निर्वपामीति स्वाहा। कर्पूरप्रभवैर्दीपै-र्दीप्त्या दीपितदिङ्मुखैः।। सार्धद्वीपद्वयातीत, भवद्भव्ययतीन्यजे।।6।।
ॐ ह्रीं गणधरचरणेभ्यो दीपं निर्वपामीति स्वाहा। दशांगधूपसद्धूमै-र्दशाशापूर्णसौरभैः।। सार्धद्वीपद्वयातीत, भवद्भव्ययतीन्यजे।।7।।
ॐ ह्रीं गणधरचरणेभ्यो धूपं निर्वपामीति स्वाहा। चोचमोचाम्रजंबीर-फलपूगादिसत्फलैः।। सार्धद्वीपद्वयातीत, भवद्भव्ययतीन्यजे।।8।।
ॐ ह्रीं गणधरचरणेभ्यो फलं निर्वपामीति स्वाहा। गुणमणिगणसिंधून्भव्यलोकैकबंधून्, प्रकटितनिजमार्गान्ध्वस्तमिथ्यात्वमार्गान्। परिचितनिजतत्त्वान्पालिताशेषसत्त्वान्। शमरसजितचंद्रानघ्र्ययामो मुनींद्रान्।। 9।।
ॐ ह्रीं गणधरचरणेभ्यो अघ्र्यं निर्वपामीति स्वाहा। (शांतिधारा, पुष्पांजलिः।) अथ स्तुतिः ये सर्वतीर्थप्रभवा गणेंद्राः, सप्तर्धयो ज्ञानचतुष्टयाढ्याः। तेषां पदाब्जानि जगद्धितानां, वचोमनोमूद्र्धसु धारयामः।।1।।
तपोबलाक्षीणरसौषधद्र्धीन्, विज्ञानऋद्धीनपि विक्रियद्र्धीन्। सप्त£द्धयुक्तानखिलानृषींद्रान्स्मरामि वंदे प्रणमामि नित्यम्।।2।।
सर्वेषु तीर्थेषु तदंतरेषु, सप्तर्षयो ये महिता बभूवुः। भवांबुधेः पारमिताः कृतार्थाः, भवंतु नस्ते मुनयः प्रसिद्धाः।।3।।
ये केवलींद्राः श्रुतकेवलींद्रा, ये शिक्षकास्तूर्यतृतीयबोधाः। सविक्रिया ये वरवादिनश्च, सप्त£षसंज्ञानिह तान्प्रवंदे।।4।।
प्रमत्तमुख्येषु पदेषु सार्ध-द्वीपद्वये ये युगपद्भवन्ति। उत्कर्षतस्तान्नवकोटिसंख्यान्, वंदे त्रिसंख्यारहितान्मुनींद्रान्।।5।।
इति महषपर्युपासनविधानम्
श्रीपंचकल्याणमहार्हणार्हा, वागात्मभाग्यातिशयैरुपेताः।
तीर्थंकराः केवलिनश्च शेषाः, स्वस्तिक्रियां नो भृशमावहंतु।।1।।
ये शुद्धमूलोत्तरसद्गुणाना-माघारभावादनगारसंज्ञाः ।
निर्गं्थवर्या निरवद्यचर्याः, स्वस्तिक्रियां नो भृशमावहंतु।।2।।
ये चाणिमाद्यष्टसुविक्रियाढ्या-स्तथाक्षयावासमहानसाश्च।
राजर्षयस्ते सुरराजपूज्याः, स्वस्तिक्रियां नो भृशमावहंतु।।3।।
ये कोष्ठबुध्यादिचतु£वधद्र्धी-रवापुरामर्शमुखौषधद्र्धीः ।
ब्रह्मर्षयो ब्रह्मणि तत्परास्ते, स्वस्तिक्रियां नो भृशमावहंतु।।4।।
जलादिनानाविधचारणा ये, ये चारणाग्न्यांबरचारणाश्च।
देवर्षयस्ते नतदेववृंदाः, स्वस्तिक्रियां नो भृशमावहंतु।।5।।
सालोकलोकोज्ज्वलनैकतानं, प्राप्ताः परं ज्योतिरनंतबोधम्।
सर्व£षवंद्याः परमर्षयस्ते, स्वस्तिक्रियां नो भृशमावहंतु।।6।।
श्रेणीद्वयारोहणसावधानाः, कर्मोपशांतिक्षपणप्रवीणाः।
एते समस्ता यतयो महान्तः, स्वस्तिक्रियां नो भृशमावहंतु।।7।।
समग्रमध्यक्षमिताक्षदेश-प्रत्यक्षमत्यक्षसुखानुरक्ताः।
मुनीश्वरास्ते जगदेकमान्याः, स्वस्तिक्रियां नो भृशमावहंतु।।8।।
उग्रं च दीप्तं च तपोभितप्तं, महच्च घोरं च तरां चरन्तः।
तपोधना निर्वृतिसाधनोत्काः, स्वस्तिक्रियां नो भृशमावहंतु।।9।।
मनोवचः कायबलप्रकृष्टाः, स्पष्टीकृताष्टांगमहानिमित्ताः।
क्षीरामृतस्राविमुखा मुनींद्राः, स्वस्तिक्रियां नो भृशमावहंतु।।10।।
प्रत्येकबुद्धप्रमुखा मुनींद्रा, शेषाश्च ये ये विविध£द्धयुक्ताः।
सर्वेऽपि ते सर्वजनीनयुक्ताः, स्वस्तिक्रियां नो भृशमावहंतु।।11।।
शापानुग्रहशक्तताद्यतिशयै – रुच्चावचैरंचिताः ।
ये सर्वे परमर्षयो भगवतां, तेषां गुणस्तोत्रतः।
एतत्स्वस्त्ययनादपैति सकलः, संक्लेशभावः शुभो।
भावः स्यात्सुकृतं च तच्छुभविधे-रादाविदं श्रेयसे।।12।।
इति स्वस्त्ययनविधानम्। मनः प्रसादनविधानम्।। अथातो यज्ञदीक्षाविधानम् न्यस्यार्हद्विष्टरे धृत्वा-नादिमंत्राभिमंत्रितम्। प्रसाधनं गुरोरग्रे, यज्ञदीक्षामुपादधे।।1।।
ॐ णमो अरिहंताणमित्यादि चत्तारि मंगलं अरिहंत मंगलं… इत्यादि। केवलिपण्णत्तो धम्मो सरणं पव्वज्जामि। ॐ ह्रीं शांतिं कुरु कुरु स्वाहा। अनादिसिद्धमंत्रः। वस्त्रादिप्रसाधनाभिमंत्रणम्। (तिलक की केशर, मुकुट आदि पर पुष्पांजलि।) जिनमतमिव सूक्ष्मं, यत्सुखस्पर्शदक्षं, क्षपितविविधबाधं, साध्वलंकारमुख्यं। शुचितरमपदोषं, सद्गुणं तद्दधेऽहं, परमजिनमखेऽस्मिन्सांतरीयोत्तरीयम्।।2।।
ॐ श्वेतवर्णे सर्वोपद्रवहारिणि सर्वजनमनोरंजिनि परिधानोत्तरीयधारिणि हं हं झं झं वं वं सं सं तं तं पं पं परिधानोत्तरीयं धारयामि स्वाहा। वस्त्रावरणं। पवित्रभूमिप्रभवैः पवित्रैः, पवित्रमुद्रासहितं सुदृब्धं। पवित्रताकृन्मम सव्यहस्ते, त्वनामिकायां निदधे पवित्रम्।।3।।
ॐ ह्रीं पवित्रं धारयामि स्वाहा। (डाभ का छल्ला या लोहे-तांबे का छल्ला पहनें) सुशीतलेनोक्तवदर्हदीशो, यशोवदुच्चै£वशदेन तस्य। तदंगवन्मंगलगंधभाजा, समालभेंगं मम चंदनेन।।4।।
श्रीचंदनानुलेपनम्। (अपने ललाट आदि में चंदन लगावे) चेतश्चमत्कारकरी जनानां, गंधादिना या विदुषां विशेषात्। स्वर्भोगमालावहदिव्यशक्त्या, मालां दधे मू£ध्न जिना£चतां ताम्।।5।।
सृग्धारणम्। (माला पहनें) दृग्बोधचारित्रगुणत्रयेण, धृत्वा त्रिधौपासकभावसूत्रम्। द्रव्यं च सूत्रं त्रिगुणं समुक्ताफलं तदारोपणमुद्वहामि।।6।।
ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय स्वाहा। इति ब्रह्मसूत्रं बिभृयात्। (यज्ञोपवीत धारण करें) जिनेश्वराज्ञाभरवद्विशिष्टै-र्धार्यं महाहार्यगुणौघरत्नम्। मूध्र्ना वहेयं मुकुटं महान्तं, चंचत्प्रभामंडितकुंडलाभ्याम्।।7।।
ॐ ह्रीं सम्यक्चारित्राय स्वाहा। कुंडलविशिष्टमुकुटोपयोगः। (मुकुट बांधं) आसन्नभव्ये जिनभक्तिमुख्या, गुणा यथायोग्यमुपव्रजन्ति। तथैव तस्मिन्मणयो महान्तः, करे ममैवत्कटकं करोमि।।8।।
ॐ ह्रीं सम्यग्ज्ञानाय स्वाहा। कंकणप्रणयनम्। (कंकण आदि पहनें) उन्मुद्रिताशेषविनेयपद्म, ž श्रीकेवलार्कोदयपूर्वशैलम्। यष्टुं जिनं जीवदयासमुद्रं, मुद्रां दधे चारुमनामिकायाम्।।9।।
ॐ ह्रीं सम्यग्दर्शनाय स्वाहा। मुद्रिकास्वीकारः।। (अंगूठी पहनें) दृग्बोधदेशव्रतरूपरत्न-त्रयं भवन्मे कलितोपवासम्। आक£मकाब्रह्मनिवृत्तियुक्तं, सद्यज्ञदीक्षाविधिना विशिष्टम्।।10।।
अर्हद्देवयज्ञदीक्षांगीकारः।। (यज्ञपूर्तिपर्यंत नियमादि लेवें) रत्नत्रयांगमुपवीतमुरस्यथांगं, देशव्रतस्य वसुकंकणमत्र हस्ते। ब्रह्मव्रतांगमधुना स्वकटौ च मौंजीं, धृत्वारभे जिनमखं मखदीक्षितोहम्।।11।।
ॐ वज्राधिपतये आं हां अः ऐं ह्रीं व्हः हूः श्रूं हूं क्षः इंद्राय संवौषट्। अनेनैकविंशतिवारानात्मानमधिवासयेत्।।
इति यज्ञदीक्षा चिन्होद्वहनम्।।
शार्दूलविक्रीडित – श्रीमत्पंचमवार्धिनिर्मलपयः-पूरैः सुधासन्निभैः। यज्जन्माभिषवं सुराद्रिशिखरे, सर्वे सुराश्चक्रिरे। त्रैलोक्यैकमहापते£जनपतेस्तस्याभिषेकोत्सवं। कर्तुं भव्यमलोपलेपविलयं, प्राज्ञः स्तुतं प्र्रस्तुवे।।1।।
ॐ ह्रीं श्रीं क्षीं भूः स्वाहा। प्रस्तावनापुष्पांजलिः।।
गद्यम्-ॐ समस्ताभ्युदयसुखसंघातलंघनजंघालसमुल्लाघानंतसुखनिवासनिःश्रेयसनिसर्गमार्गप्रवचनप्रकाशनस्य। सहजात्मगुणसमाजोपघात- प्रसिद्धानादिसंबद्धपतिनिचयानिर्मूलकाषंकषणस्य।
त्रिकालगोचरानंतपर्यायचितचराचरद्रव्य विषयकेवलज्ञानार्ककिरण परिपूरितसकललोकालोकस्य। परमाप्तपदप्रतिष्ठाधिष्ठितभगवदर्हद्भट्टारकस्य। नागयक्षामरद्वा¯त्रिंशन्मिथुनकरकलितचतुःषष्टिचामराद्यष्टमहाप्रातिहार्यविशिष्टस्य।
विनीलकुंतल कुलिशदशनप्रवालाधरपल्लवोपमानकरचरणतलसमुल्लसितस्य। श्रीश्रुतदेवीसर्वाण्हसनत्कुमारयक्षप्रतिमोपलक्षितपीठोपकंठस्य। प्रत्येकाष्टशतभृंगारादिमंगलद्रव्याष्टकगर्भावासमध्यमध्यासीनस्य। प्रेक्षमाणवदाभाषमाणवदालक्ष्यमाणमणिमयप्रतिबिंबकदंबस्य। निवासीभूतताजातभूत्रयसमाराधनीय भावमापनीपद्यमानस्य।
तमःसमूलसमुत्पाटनपटुतावलेपलिप्सागभस्तिमालिमंडलायमानहटद्घाटकीय- घटपेटकोपघटित चित्तचमत्कारस्य। चकचकायमाननानाविधोपकरणनिचितनीलतलनि£जत ज्योतिर्गणांकिगगनांगणस्य। समुत्तुंगसुवर्ण- भित्ति भागावलंबमानमणिमाला-मुषितमेरुगिरिपाश्र्वशोभातिशयस्य।
विचित्रविनिर्माणवदनाभिषेकनर्तनसंगीतावलोकनादिमंडपाभिमंडित- चैत्यमहीमहितस्य। कुंजरारातिकुंजरादिदशविधध्वजराजिसभाजिताद्यद्वितीयसालांतरध्वजाधराविराजितस्य। चतु£दग्गताशोकसप्तच्छद- चंपकाम्रचतुर्वनांचिततृतीयबहिः सालांतरवनावनीविनूतस्य। चतुर्वीथिपर्यंतगतमहामानस्तंभाहितप्रतितीथ्र्यजनमानस्तंभस्य। साक्षादकृत्रिम- चैत्यालयस्य लक्ष्मीमात्मसात्कुर्वतश्चैत्यालयस्य विस्तारविशेषशालितया तदीयांगणोपमाने।
घंटाटंकारवीणाक्वणितमुरज धां-धां क्रियाकाहलाच्छें च्छेंकारोदारभेरीपटहधलधलंकारसंभूतघोषैः। आक्रम्याशेषकाष्ठातटमटझटिति प्रोच्छटत्युद्भटेभ्रम्। शिष्टाभीष्टार्हदिष्ट्यै प्रमुख इह लतांतांजलिं प्रोत्क्षिपामि।।2।।
ॐ परमब्रह्मणे नमो नमः स्वस्ति स्वस्ति जीव जीव नंद नंद वद्र्धस्व वद्र्धस्व विजयस्व विजयस्व अनुशाधि अनुशाधि पुनीहि पुनीहि पुण्याहं पुण्याहं मांगल्यं मांगल्यं पुष्पांजलिः। सोदकानि पुष्पाणि क्षिपेत्। क्षेत्रं मखेऽस्मिन्परिपालयंतं, विघ्नानशेषानपसारयन्तम्। अग्ने£दशायां गुणदानपूर्वं, श्रीक्षेत्रपालं बलिना धिनोमि।।3।।
ॐ ह्रीं अत्रस्थ क्षेत्रपालाय इदमघ्र्यं पाद्यं जलं गंधं अक्षतं पुष्पं चरुं दीपं धूपं फलं स्वस्तिकं यज्ञभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा। सर्वेषु वास्तुषु सदा निवसन्तमेनं, श्रीवास्तुदेवमखिलस्य कृतोपकारं। प्रागेव वास्तुमिह कल्पितयज्ञभागस्येशानकोणदिशि पूजनया धिनोमि।।4।।
ॐ ह्रीं वास्तुदेवाय इदमघ्र्यं पाद्यं जलं गंधं अक्षतं पुष्पं चरुं दीपं धूपं फलं स्वस्तिकं यज्ञभागं च….। विहारकाले जगदीश्वराणा-मवाप्तसेवार्थकृतापदान। हुत्वा£चतो वायुकुमारदेव! त्वं वायुना शोधय यागभूमिम्।।5।।
ॐ ह्रीं वायुकुमाराय सर्वविघ्नविनाशनाय इदमघ्र्यं पाद्यं जलं गंधं अक्षतं पुष्पं चरुं दीपं धूपं फलं…….। महीं पूतां कुरु कुरु हूं फट् स्वाहा। षड्दर्भपूलेन भूमिं संमार्जयेत्। विहारकाले जगदीश्वराणा-मवाप्तसेवार्थकृतापदान। हुत्वा£चतो मेघकुमारदेव! त्वं वारिणा शोधय यागभूमिम्।।6।।
ॐ ह्रीं मेघकुमाराय सर्वविघ्नविनाशनाय इदमघ्र्यं पाद्यं जलं गंधं अक्षतं पुष्पं चरुं दीपं धूपं फलं…….। धरां प्रक्षालय प्रक्षालय अं हं सं वं झं ठं क्षः फट् स्वाहा। षडदर्भपूलोपात्त जलेन भूमिं सिंचेत्। गर्भान्वयादौ महितद्विजेंद्रै-£नर्वाणसेवासु कृतापदान। हुत्वा£चतो वन्हिकुमार देव! त्वं ज्वालया शोधय यागभूमिम्।।7।।
ॐ ह्रीं अग्निकुमाराय सर्वविघ्नविनाशनाय इदमघ्र्यं पाद्यं जलं गंधं अक्षतं पुष्पं चरुं दीपं धूपं फलं…..। भूमिं ज्वालय ज्वालय अं हं सं वं झं ठं क्षः फट् स्वाहा। ज्वलद्दर्भपूलानलेन भूमिं ज्वालयेत्।। प्राचीमैशानीं चांतरा वातकुमारादिस्थापनम्।। तुष्टा अमी षष्टिसहस्रनागा, भवंत्ववार्या भुवि कामचाराः। यज्ञावनीशानदिशाप्रदत्त – सुधोपमानांजलिपूर्णवा£भः ।।8।।
ॐ ह्रीं क्रों षष्टिसहस्रसंख्येभ्यो नागेभ्यः स्वाहा। इदमघ्र्यं पाद्यं जलं गंधं अक्षतं पुष्पं चरुं दीपं धूपं फलं स्वस्तिकं यजभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा।
नागसंतर्पणार्थं ऐशान्यां दिशि जलांजलिं क्षिपेत्।।
ब्र्र्रह्मप्रदेशे निदधामि पूर्वं, पूर्वादिकाष्ठासु पुनः क्रमेण।
दर्भं जगद्गर्भजिनेंद्रयज्ञे, विघ्नौघविध्वंसकृते समंत्रम्।।1।।
प्रकृतक्रमविध्यवधानाय पुष्पांजलिः।।
ॐ परमब्रह्मभूयाप्त, परमाप्तजिनक्रतौ।
ब्रह्मस्थाने स्थितं कुर्वे, दर्भं विघ्नोपशांतये।।2।।
ॐ दर्पमथनाय नमः स्वाहा। ब्रह्मदर्भः।।
ॐ सर्वज्ञस्य यज्ञेशो, यज्ञेऽस्मिन् निदधे कुशम्।
शतयज्ञहरिद्भागे, यज्ञविघ्नविदारणम्।।3।।
ॐ ह्रीं अनंतज्ञानाय अनंतदर्शनाय अनंतसुखाय पूर्वदिग्मुखे दर्भमवस्थापयामि स्वाहा। इंद्रदर्भः।।
ॐ विश्वदोषसंप्लुष्टा-द्यागे वैश्वानरात्मनः।
वैश्वानरहरिद्भागे, कुशखंडं निवेशयेत्।।4।।
ॐ ह्रीं ब्रह्मणे स्वाहा। प्रजापतये स्वाहा।
जिनाय स्वाहा। जिनोत्तमाय स्वाहा। धवाय स्वाहा।
धवोत्तमाय स्वाहा। शुचिष्ठाशुचिष्ठेषु कोणाकोणेषु आग्नेय्यां दिशि दर्भमवस्थापयामि स्वाहा। अग्निदर्भः।।
ॐ वैवस्वतमहामूर्ते-ववस्वत्कोटिदीधितेः।
यागे वैवस्वताशायां, दर्भखंडं निदध्महे।।5।।
ॐ ह्रीं अनंतवीर्याय जितेंद्रियाय दक्षिणस्यां दिशि दर्भमवस्थापयामि स्वाहा। यमदर्भः।।
ॐ क्षमामयक्षमामूर्तेः, पुण्यराशेर्महामहे। पुण्ये पुण्यजनाशायां, दर्भन्यासं वितन्महे।।6।।
ॐ ह्रीं परमब्रह्मणे नैऋत्यदिशि दर्भमवस्थापयामि स्वाहा। नैऋत्यदर्भः।।
ॐ विघ्नशांतये शांतेरपांमू£तमतः क्रतौ। अपांपत्युस्तनोम्याशां, पवित्रेण पवित्रिताम्।।7।।
ॐ परममंगलाय परमपवित्रिताय परमनिर्वाणकारणाय अपरस्यां दिशि दर्भमवस्थापयामि स्वाहा। वरुणदर्भः।।
ॐ निःसंगस्वरूपस्य, यागेऽस्मिन्मारुतान्मनः। मारुतस्य ककुद्भागे, कुशमास्थापयामहे।।8।।
ॐ ह्रीं पंचमहाकल्याणसंपूर्णाय वायव्यां दिशि दर्भमवस्थापयामि स्वाहा। वायुदर्भः।।
ॐसर्वसौम्यरूपस्य, सोममूर्तेर्महामखे। सौममौलिसुहृत्काष्ठां, कुशोयमधितिष्ठतु।।9।।
ॐ ह्रीं त्रैलोक्यनाथाय त्रिलोकमहिताय शुचिरत्नत्रयदेशकाय उत्तरस्यां दिशि दर्भमवस्थापयामि स्वाहा। यक्षदर्भः।।
ॐ निर्लेपस्य जिनेंद्रस्य, व्योममूर्तेर्महाध्वरे। व्योमकेशस्य दिग्भागं, कुर्महे दर्भग£भतत्।।10।।
ॐ ह्रीं नवकेवललब्धिसमन्विताय देवाधिदेवाय ऐशान्यां दिशि दर्भमवस्थापयामि स्वाहा। ईशानदर्भः।।
।। इति दर्भस्थापनम्।। वार्दर्भगंधैः सुमनोऽक्षतौघैः, धूपप्रदीपैरमृतोपमान्नैः।
क्रमान्महामो महितां महर्महीं महादेवमहामहस्य।।11।।
ॐ नीरजसे नमः जलं। शीलगंधाय नमः गंधं। अक्षताय नमः अक्षतं। विमलाय नमः पुष्पं। परमसिद्धाय नमः चरुं। ज्ञानोद्योतनाय नमः दीपं। श्रुतधूपाय नमः धूपं। अभीष्टफलदाय नमः फलं। भूमिदेवतायै नमः अघ्र्यं। अथातो मंडपप्रतिष्ठाविधानम् गद्यम्-ॐ मणिमयमहास्तंभसंभृतसप्तादिद्वात्रिंशदंतकरान्यतमायामसमुत्तुंगसमचतुरस्रचतुद्र्वारोत्तंभितघंटादर्पणाद्यलंकृतकपिलाविशुद्ध- गोमयपयोद्रुमकषायसंमार्जनमहितमहीतलविहितविचित्ररंगवलिविराजितं।
समसमुत्पन्नसुरचापशतशंकावह-विचित्रवितानसंपादितचित्त- चमत्कारं सौरभासक्तमधुकरमालाकरंबितकमनीयकुसुममालाकलापनिरंतरितांतरालम्। दशविधानेकध्वजदंडकोटिविघट्यमान- घनाघनगलन्मुक्तासारसंकाशमुक्ताफललंबूषतारकादिभूषणविभूषितम्। विविधाकारकल्पिताल्पकेतनमालालंबमानधवल- कलशाष्टकदर्भमालावरणविभ्राजितम्। धूपघटपटलनिर्यद्धूमलेखासौरभप्रसरसुरभीकृतसकलदिङ्मुखम्। दर्शनविशुद्ध्यादिषोडश- भावनीयभवबीजयवसिद्धार्थादिद्रव्यबीजकृतपुंजनिकुरुंबरंजितम्। मणिकनकचंदनमलयानेकयज्ञांग भाजनभावद्रव्यरत्नफलपल्लवदूर्वादि- पूजापरिकरपरिपूर्णम्।
घोषविशुद्धप्रवचनपाठस्तवनाशीर्वादवाद्यप्रमुखनिनादमुखरितदिगंतरविविधविनेयजनपरिपूरितम्। जन्माभिषवणसमय- पांडुकशिलातटघटितमहामंडपलक्ष्मीमात्मशोभातिशयभव्यजनसंकल्पाभ्यासादात्मसात्कुर्वाणम्। निर्वाणकारणदयायागसाधनतया महनीयमखिलमंगलमंडितमहामंडपमिमं बहुमानयामहे।
मंडपांतःसमंताद्भूषणादिवस्तुषु च पृथक् कुंकुमाक्तपुष्पाक्षतं क्षिपेत्।। यत्पंचवर्णाक्तपवित्रसूत्रं, सूत्रोक्ततत्त्वाभमनेकमेकम्। तेन त्रिवारं परिवेष्टयामः, शिष्टेष्टयागत्रयमंडपेंद्रम्।।1।।
मंडपमिमं बहिः पंचवर्णसूत्रेण त्रीन्वारान्वेष्टयेत्।। (मंडप को बाहर से कलावा से तीन बार वेष्टित करें) श्रीमंडपाभं मिलितत्रिलोकी-श्रीमंडितं पंडितपुंडरीकम्। श्रीमंडपं खंडितपापतापं, तमेनमघ्र्येण च मंडयामः।।2।।
मंडपायाघ्र्यं दद्यात्। (मंडप को अघ्र्य चढ़ावें)
रक्षार्थमस्य पूर्वादि-द्वारदक्षिणभागके। कुमुदं चांजनं यक्ष्ये, वामनं पुष्पदंतकम्।। तोरणोपांतापसव्यदेशेषु कुंकुमाक्तपुष्पाक्षतं क्षिपेत्। कुंभं शुंभंतमुच्चै-र्धवलितमभितः सर्वसस्यांकुराढ्यैः। पंचास्यैः स्वस्तिकस्थं, सततमभिमुखं लीलया लोकयंतम्। बिभ्राणं हेमदंडं, मरकतखचितं कांतियुक्तं कदल्याः। पूर्वद्वाराधिकारं, कुमुदमतिमुदं कुर्महे पूजनेन।।1।।
ॐ ह्रीं कुमुदप्रतीहार निजद्वारि! तिष्ठ तिष्ठ ठः ठः। (इत्यादि मंत्रों से पुष्पांजलि क्षेपण कर अघ्र्य समर्पित करें।) कुंभं शुंभंतमुच्चै-र्धवलितमभितः सर्वसस्यांकुराढ्यैः। पंचास्यैः स्वस्तिकस्थं, सततमभिमुखं लीलया लोकयंतम्। बिभ्राणं हेमदंडं, मरकतखचितं कांतियुक्तं कदल्याः। कुर्वेऽपाग्द्वारपालं, बलिविहितमुदं सांजनाभाजन त्वाम्।।2।।
ॐ ह्रीं अंजनप्रतीहार निजद्वारि तिष्ठ तिष्ठ ठः ठः। (इत्यादि मंत्रों से पुष्पांजलि क्षेपण कर अघ्र्य समर्पित करें।) कुंभं शुंभंतमुच्चै-र्धवलितमभितः सर्वसस्यांकुराढ्यैः। पंचास्यैः स्वस्तिकस्थं, सततमभिमुखं लीलया लोकयंतम्। बिभ्राणं हेमदंडं, मरकतखचितं कांतियुक्तं कदल्याः। प्रत्यग्द्वाराधिकारं, विधुधवलरुचं वामनं मानयामि।।3।।
ॐ ह्रीं वामनप्रतीहार निजद्वारि तिष्ठ तिष्ठ ठः ठः। (इत्यादि मंत्रों से पुष्पांजलि क्षेपण कर अघ्र्य समर्पित करें।) कुंभं शुंभंतमुच्चै-र्धवलितमभितः सर्वसस्यांकुराढ्यैः। पंचास्यैः स्वस्तिकस्थं, सततमभिमुखं लीलया लोकयंतम्। बिभ्राणं हेमदंडं, मरकतखचितं कांतियुक्तं कदल्याः। लब्धोदग्द्वाररक्षं, विधिविहितबलिं पुष्पदंतं तनोमि।।4।।
ॐ ह्रीं पुष्पदंतप्रतीहार निजद्वारि तिष्ठ तिष्ठ ठः ठः। (इत्यादि मंत्रों से पुष्पांजलि क्षेपण कर अघ्र्य समर्पित करें।) इति मंडपप्रतिष्ठाविधानम् अथातो वेदीप्रतिष्ठाविधानम् गद्यम्-ॐ तदेतन्महामंडपस्य परितः किंचिदंशमपहाय परिगृहीतभूमिभागसमविस्तारायाम् समुचितोत्सेधचतुरस्रविनि£मतबहिः- परिकल्पिताल्पदिक्पालपीठिकाधिष्ठितवेदिकापरीताम्। चंद्रोपकरुंद्रस्तंभसांद्रच्छायचामरादि परिच्छदविशेषपरिष्कृतां। मंगललोकोत्तमशरण- वदुपर्युपरिव्यवस्थितभांडोच्चयमंडिताम्।
दर्शनविशुद्धिवद्र्धनार्थमीशानादिसुरेंद्रपरीतसौधर्मेंद्रविनिर्मापितजिनेंद्रमहामहवेदी साक्षादियमेवेति संकल्प्यमानाम्। प्रोक्षणसमालंभनसमर्चननीराजनलवणकलशाष्टकावतरणैरिमां वेदीमतल्लिकां बहुमानयामहे। वेद्यां चंद्रोपकादिषु च कुंकुमाक्तपुष्पाक्षतं क्षिपेत्। भव्यात्मनां दुष्कृतकर्दमौघ-प्रक्षालनार्थं जिनयज्ञवेदीम्। कुशोद्धृतैः प्रोक्षणमंत्रपूतैः, संप्रोक्षयामः परितः पयोभिः।। 1।।
ॐ क्षां क्षीं क्षूं क्षौं क्षः प्रोक्षणजलाभिमंत्रणम्। काश्मीरकालागुरुमिश्रितेन, कर्पूरभाजा हरिचंदनेन। वेदीं समंतादिह चर्चयामो, निजात्मचर्चाचरणप्रसिद्ध्यै।।2।।
ॐ ह्रीं शीलगंधाय नमः। इति वेद्यां गंधचर्चनम्।। स्वच्छैस्तीर्थजलैरतुच्छमधुरैः स्विच्चंदनैश्चंदनैः। सूक्ष्मत्वायतशालिशालिसदकैर्गंधोद्गमैरुद्गमैः। हव्यैर्नव्यरसैः प्रदीपितदिशै-र्दीपैः सुधूमोत्करैः। धूपैः पुण्यफलोत्तमैर्बहुफलै-र्वेदीं समर्चामहे।।3।।
ॐ नीरजसे नमः जलं। शीलगंधाय नमः गंधं। अक्षताय नमः अक्षतान्। विमलाय नमः पुष्पं। परमसिद्धाय नमः चरुं। ज्ञानोद्योतनाय नमः दीपं। श्रुतधूपाय नमः धूपं। अभीष्टफलदाय नमः फलं। ¬ वेदिकायै अघ्र्यं..। (अघ्र्य समर्पित करें।) दिव्यप्रदीपकलिकोदनवर्णपूरै-र्नीराजनार्थविदितैर्वरभाजनस्थैः। नीराजयामि भगवज्जिनयज्ञवेदी-मोजोगुणस्य यजतामभिवर्धनाय।।4।।
दीपकलिकावर्णपूरान्ननीराजनम्। स्वादिष्टता सर्वरसस्य येन, जायेत सद्भाजनपुंजितेन। लावण्यसिद्ध्यै लवणेन तेन, वेदीं विशिष्टामवतारयामि।।5।।
लवणावतरणम्। कुशकलितजलौघै-रुंभितैः शातकुंभ-प्रमुखरचितकुंभै-रष्टभिः श्रीविशिष्टैः। परिवृतसितसूत्रै-रुल्लसत्पल्लवास्यै-रवतरणममुष्यास्तन्महे सन्महिम्ने।।6।।
कुंभाष्टकावतरणम्। इति वेदीप्रतिष्ठाविधानम्
गद्यम्-ॐ विशोधितभूभागपरिकल्पितप्रतिष्ठितमंडपमंडनीभूतप्रतिष्ठामहितमहावेदिकायाम्। विवक्षितन्यासोदितपूर्वोत्तराग्र- सूत्रैरंशान्कलशप्रमाणेन परिकल्प्य यावत्कलशं तावदंशेषु तत्तन्न्यासानुसारेण प्रस्तीर्णप्रस्थशालीन्प्रस्तीर्य, तेष्वशेषशालीयतंडुलैश्चतुर्दल- कमलमुपकल्प्य, क£णकायां स्वस्तिकं, कोष्ठेषु श्रियं, दलेषु मायां जलमहिमंडले समालिख्य समभ्यच्र्य तत्र बहुमध्यदेशे सुरभिजल- पूर्णमहाघटमाढकांबुपूरितकलशान्।
पूर्वादिक्रमेण तथैव बाह्यावरणे जलादिद्रव्यकलितकरीरान्, कोणेषुद्रोणांभःसंभृतकुंभान्समवस्थाप्य, तेषु रैरत्नसर्वगंधकुशकूर्चमंगलद्रव्यसुरभिपुष्पाणि निक्षिप्य, च्छेदभेदाद्यष्टदोषव£जतानमलसितसूत्रसमवृतांभोजबीजपूरपिहिताननान्।
चंदनपंक- परिलग्नबलक्षाक्षतपुंजोपलक्षितान्। प्रसूनमालांबरफलपल्लवदूर्वादर्पणादिपरिष्कृतानिमान्सर्वानपि कुंभान्संपूजयामहे।। पुष्पांजलिः।। कल्याणावसरे प्रभो£जनपतेः, शक्रेण ये स्थापिताः। तेऽमी इत्यभिकल्पनां स्फुटयतः, श्रीशातकुंभादिभिः। निर्वृत्तानथवा मृदाभिघटितान्, कालादिदोषोज्झितान्। सत्पंचामृतपूरितानिह घटान्, यंत्रोपरि स्थापये।।1।।
ॐ ह्रीं स्वस्तये कलशस्थापनं करोमि स्वाहा। श्रीखंडकर्पूरवरादिगंध-दिव्यप्रसूनोत्तमरिक्थरत्नम् । क्षिपामि मध्यस्थमहाघटेऽस्मिन्, गलस्थवस्त्रादिविराजमाने।।2।।
ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: नमोऽर्हते भगवते श्रीमते पद्ममहापद्मतिगिंच्छकेसरिमहापुंडरीकपुंडरीकगंगा सिंधुरोहिद्रोहितास्याहरिद्धरिकांतासीतासीतोदानारीनरकांतासुवर्णरूप्यकूलारक्तारक्तोदापयोधिशुद्धजलं स्वर्णघट- प्रक्षालितपरिपूरितनवरत्नगंधपुष्पाक्षताद्य£चतमामोदकपवित्रं कुरु कुरु ह्मममफ ह्मममफ वं मं हं सं तं पं ह्रीं अ सि आ उ सा नमः स्वाहा।
अनेन मध्यमहाकुंभे रैरत्नादिनिक्षेपणम्। (इससे बीच के कुंभ में रत्न आदि क्षेपण करें।) सर्वेषु कुंभेषु च सर्वगंधं, क्षिपामि वारा परिपूरितेषु। कुंभेषु पंचामृतपूरितेषु, न्यसामि सर्वेषु कुशस्य कूर्चं।।3।।
जलकुंभेषु सर्वौषधिस्थापनं सर्वकुंभेषु कूर्चस्थापनम्।। यन्मंगलद्रव्यमिति प्रतीतं, बिसं च बोधिद्रुमपल्लवं च। क्षिपाम्यपामार्गदलं च पूतं, तत्कोणकुंभेषु विभूषितेषु।। 4।।
कोणकुंभेषु मंगलद्रव्यनिक्षेपणं। यज्ञोचितं वस्तु समस्तमेतत्-फलप्रसूनाक्षतगंधमुख्यम्। दर्भोद्धतै£नर्मलतीर्थवा£भ-£वशोधयामोद्य समंत्रमेव।।5।।
ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: नमोऽर्हते भगवते श्रीमते पवित्रतरजलेन गंधादिद्रव्यशुद्धिं करोमि स्वाहा। मल्लिकाबकुलजातिकेतकी-पाटलाकमलचंपकादिकम्। निक्षिपामि सुमनोगणं शुभं, कोणकुंभपरिपूरिते जले।।6।।
ॐ ह्रीं नेत्राय संवौषट्। इति कोणकुंभेषु पुष्पाणि क्षिपेत्।। सपल्लवांभोजसमंचितानि, संस्थापिताशेषघटाननानि। सद्बीजपूरस्य फलैः परैर्वा, फलैरिदानीं पिदधे प्रशस्तैः।।7।।
अनेन पद्मबीजपूरादिभिः कलशमुखानि पिदध्यात्। स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।। हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलैः, कुंभान्समभ्यर्चये।। ॐ ह्रीं नेत्राय संवौषट् कलशार्चनम्।।
।। इति कलशस्थापनविधानम् ।।
गद्य- सकलमंगलद्रव्यकलापकलितकलशमंडलप्रत्यक्प्रदेशपरिकल्पिते, चतुःस्तंभसंभृतचतुरसमुचितोत्सेधायामविस्तार- विराजिते, जलनिर्गमनद्वारोपलक्षितवेदिकासमावृते, प्रागभेदाहितमंडपवितद्धप्रतिष्ठासमासादितसंस्कारे, चंद्रोपकमुक्तालंबूषादि- विविधमंडनाभिमंडितस्नपनमंडपे। मध्ये मंडपं रुचिरतरचूर्णैरष्टदलकमलमुपात्तचतुद्र्वारचतुरमंडलं समालिख्य, तत्र अर्हत्परमेष्ठिप्रभृतिदेवताः सर्वविघ्नानामनुत्पत्यर्थमुपशमनार्थं च सम्यगिदानीमाराधयामहे। पुष्पांजलिः।
मध्ये जिनेंद्रानिह क£णकायां, क्रमेण पूर्वादिषु दिक्षु सिद्धान्। सूरीनुपाध्यायगुरूंश्च साधू-नाराधयामः पृथगेव मंत्रैः।।1।।
ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: असि आ उ सा अर्हत्परमेष्ठिन्! अत्र अवतर अवतर संवौषट्। अनेन क£णकामध्ये पुष्पांजलिं प्रयुज्यावाहयेत्।। ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: असि आ उ सा अर्हत्परमेष्ठिन्! अत्र तिष्ठ तिष्ठ ठः ठः। अनेन तद्वत्प्रतिष्ठापयेत्। ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: असि आ उ सा अर्हत्परमेष्ठिन्! अत्र मम सन्निहितो भव भव वषट्। अनेन तद्वत्संनिधापयेत्।
ॐ ह्रीं अर्हत्परमेष्ठिन्! इदं जलं गृहाण गृहाण नमः। (इसी मंत्र से चंदन आदि आठों द्रव्य चढ़ावें) ॐ ह्रीं सिद्धपरमेष्ठिन्! अत्र अवतर अवतर संवौषट्। ॐ ह्रीं सिद्धपरमेष्ठिन्! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं सिद्धपरमेष्ठिन्! अत्र मम सन्निहितो भव भव वषट्। ॐ ह्रीं सिद्धपरमेष्ठिन्! इदं जलं गृहाण गृहाण नमः। (इसी मंत्र से चंदन आदि आठों द्रव्य चढ़ावें) ॐ ह्रीं आचार्यपरमेष्ठिन्! अत्र अवतर अवतर संवौषट्। ॐ ह्रीं आचार्यपरमेष्ठिन्! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं आचार्यपरमेष्ठिन्!
अत्र मम सन्निहितो भव भव वषट्। ॐ ह्रीं आचार्यपरमेष्ठिन्! इदं जलं गृहाण गृहाण नमः। (इसी मंत्र से चंदन आदि आठों द्रव्य चढ़ावें) ॐ ह्रीं उपाध्यायपरमेष्ठिन््! अत्र अवतर अवतर संवौषट्। ॐ ह्रीं उपाध्यायपरमेष्ठिन्! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं उपाध्यायपरमेष्ठिन्! अत्र मम सन्निहितो भव भव वषट्। ॐ ह्रीं उपाध्यायपरमेष्ठिन्! इदं जलं गृहाण गृहाण नमः। (इसी मंत्र से चंदन आदि आठों द्रव्य चढ़ावें)
ॐ ह्रीं साधुपरमेष्ठिन्! अत्र अवतर अवतर संवौषट्। ॐ ह्रीं साधुपरमेष्ठिन्! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं साधुपरमेष्ठिन्! अत्र मम सन्निहितो भव भव वषट्। ॐ ह्रीं साधुपरमेष्ठिन्! इदं जलं गृहाण गृहाण नमः। (इसी मंत्र से चंदन आदि आठों द्रव्य चढ़ावें) मंगललोकोत्तमशरणात्मकजिनसिद्धसाधुसद्धर्मान्। बहु मानयेऽहमघ्र्यैराग्नेयाद्यन्तरालेषु।।2।।
ॐ ह्रीं अर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्ममंगलेभ्योघ्र्यं निर्वपामीति स्वाहा। ॐ ह्रीं अर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्मलोकोत्तमेभ्योघ्र्यं निर्वपामीति स्वाहा। ॐ ह्रीं अर्हत्सिद्धसाधुकेवलिप्रज्ञप्तधर्मशरणेभ्योघ्र्यं निर्वपामीति स्वाहा। उद्धृत्य सत्वान्भवदुःखवार्धे-£नःश्रेयसे नित्यसुखे धरन्तम्। अयोगिनोंऽते समये स्फुरन्तं, यजामि सिद्धोपरि शुद्धधर्मम्।।3।।
ॐ ह्रीं संपूर्णरत्नत्रयात्मकधर्म! अत्र अवतर अवतर संवौषडित्यादि। (इस प्रकार स्थापना विधि करके अष्टद्रव्य चढ़ावें) एवमर्हदादीनभ्यच्र्य शरच्चन्द्रमरीचिरोचिषोन्तश्चेतसि चिंतयन्ननादिसिद्धमंत्राभिमंत्रितकर्पूरहरिचंदनद्रवालुलित सुरभिशुभ्रपुष्पांजलिभिरेकविंशतिवारानधिवास्य पूर्णाघ्र्यदानेन बहुमानयामहे।। पंच परमेष्ठिनस्ते, मंगललोकोत्तमाश्च शरणानि। धर्मोऽपि क£णकायां, सम£चताः संतु नः शिवदाः।।4।।
ॐ ह्रीं पंचपरमेष्ठि-मंगललोकोत्तमशरणधर्मेभ्यः पूर्णाघ्र्यं…….।
इति कणकार्चनविधानम्।
क्रमेण पूर्वादिषु दिग्दलेषु, जयादिदेवीर्जयदाश्चत:। आग्नेयकोणादिविदिग्दलेषु, जंभादिदेवीः प्रयजे चत:।।1।।
ॐ ह्रीं जये! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं जये! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं जये! अत्र मम सन्निहिता भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं विजये! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं विजये! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं विजये! अत्र मम सन्निहिता भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं अजिते! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं अजिते! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं अजिते! अत्र मम सन्निहिता भव भव वषट्।
इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं अपराजिते! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं अपराजिते! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं अपराजिते! अत्र मम सन्निहिता भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं जंभे! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं जंभे! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं जंभे! अत्र मम सन्निहिता भव भव वषट्।
इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं मोहे! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं मोहे! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं मोहे! अत्र मम सन्निहिता भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं स्तंभे! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं स्तंभे! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं स्तंभे! अत्र मम सन्निहिता भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा।
ॐ ह्रीं स्तंभिनि! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं स्तंभिनि! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं स्तंभिनि! अत्र मम सन्निहिता भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। प्रभावितश्रीजिननाथमार्गा, दुर्मार्गविध्वंसविधिप्रवीणाः। जयादिदेव्योष्टकृतेष्टितुष्टाः, निःशेषविघ्नानपसारयंतु।।2।।
ॐ ह्रीं सर्वा जयादिदेव्यः! इदं जलादि अघ्र्यं गृण्हीध्वं गृण्हीध्वं स्वाहा।
इति जयादिदेवतार्चनविधानम्।।
शार्दूलविक्रीडित-एतत्सर्वजनीनजैनसवन-प्रत्यूहविध्वंसन-प्रोद्भूताप्रतिमप्रभावविहित-प्रख्यातिपूजांचितान्। स्वस्वातुच्छपरिच्छदान्दशदिशा-मन्याप्रधृष्यामितान्। दिक्पाला॰जगदेकपालकजिना-धीशाध्वरे व्याव्हये।।1।।
ॐ ह्रीं इंद्र! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं इंद्र! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं इंद्र! अत्र मम सन्निहितो भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं अग्ने! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं अग्ने! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं अग्ने! अत्र मम सन्निहितो भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं यम! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं यम! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं यम! अत्र मम सन्निहितो भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं नैऋत्य! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं नैऋत्य! अत्र तिष्ठ तिष्ठ ठः ठः।
ॐ ह्रीं नैऋत्य! अत्र मम सन्निहितो भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं वरुण! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं वरुण! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं वरुण! अत्र मम सन्निहितो भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं पवन! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं पवन! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं पवन! अत्र मम सन्निहितो भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं धनद! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं धनद! अत्र तिष्ठ तिष्ठ ठः ठः।
ॐ ह्रीं धनद! अत्र मम सन्निहितो भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं ईशान! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं ईशान! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं ईशान! अत्र मम सन्निहितो भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं धरणींद्र! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं धरणींद्र! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं धरणींद्र! अत्र मम सन्निहितो भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। ॐ ह्रीं सोम! अत्र आगच्छ आगच्छ संवौषट्।
ॐ ह्रीं सोम! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं सोम! अत्र मम सन्निहितो भव भव वषट्। इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। शतमखशिखिकाला यातुधानाः प्रचेताः, पवनधनदनागाः कल्पनागेंद्रचंद्राः। मखमुखमहितार्घा, येऽप्रधृष्यप्रभावाः- प्रकृतयजनविघ्नान् घ्नन्तु ते मंत्रनिघ्नाः।। 2।। पूर्णाघ्र्यः।।
इति दिक्पालानुकूलनम्।।
रक्तार्कं धवलेंदुमारमरुणं, पीतं ससौम्यं गुरुं। शुक्रं शुक्लमलिप्रभं शनिमहिं, केतुं सवर्णाक्षतैः।। पुंजेष्विंदुदिगीश्वरोपरिवृतेष्वास्थाप्य मूलान्वितम्। दर्भं संस्कृतमंत्रसाधु धिनुयां, तत्तत्सवर्णार्चनैः।।1।।
ॐ ह्रीं आदित्य! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं आदित्य! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं आदित्य! अत्र मम सन्निहितो भव भव वषट्। आदित्याय स्वाहा। आदित्यपरिजनाय स्वाहा। आदित्यानुचराय स्वाहा। आदित्यमहत्तराय स्वाहा। अग्नये स्वाहा। अनिलाय स्वाहा। वरुणाय स्वाहा। प्रजापतये स्वाहा। ॐ स्वाहा। भूः स्वाहा। भुवः स्वाहा। स्वः स्वाहा। ¬ भूर्भुवः स्वः स्वाहा स्वधा।
आदित्याय स्वगणपरिवृताय इदमघ्र्यं पाद्यं गंधं अक्षतान् पुष्पं चरुं दीपं धूपं फलं स्वस्तिकं यजभागं च यजामहे यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा। ॐ ह्रीं सोम! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं सोम! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं सोम! अत्र मम सन्निहितो भव भव वषट्। सोमाय स्वाहा। सोमपरिजनाय…………… ॐ ह्रीं अंगारक! अत्र आगच्छ आगच्छ संवौषट्।
ॐ ह्रीं अंगारक! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं अंगारक! अत्र मम सन्निहितो भव भव वषट्। अंगारकाय स्वाहा। अंगारकपरिजनाय……. ॐ ह्रीं बुध! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं बुध! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं बुध! अत्र मम सन्निहितो भव भव वषट्। बुधाय स्वाहा। बुधपरिजनाय……… ॐ ह्रीं बृहस्पते! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं बृहस्पते! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं बृहस्पते! अत्र मम सन्निहितो भव भव वषट्। बृहस्पतये स्वाहा…………. ॐ ह्रीं शुक्र! अत्र आगच्छ आगच्छ संवौषट्।
ॐ ह्रीं शुक्र! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं शुक्र! अत्र मम सन्निहितो भव भव वषट्। शुक्राय स्वाहा…………. ॐ ह्रीं शनैश्चर! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं शनैश्चर! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं शनैश्चर! अत्र मम सन्निहितो भव भव वषट्। शनैश्चराय स्वाहा…………. ॐ ह्रीं राहो! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं राहो! अत्र तिष्ठ तिष्ठ ठः ठः। ॐ ह्रीं राहो! अत्र मम सन्निहितो भव भव वषट्। राहवे स्वाहा। राहुपरिजनाय स्वाहा………… ॐ ह्रीं केतो! अत्र आगच्छ आगच्छ संवौषट्। ॐ ह्रीं केतो! अत्र तिष्ठ तिष्ठ ठः ठः।
ॐ ह्रीं केतो! अत्र मम सन्निहितो भव भव वषट्। केतवे स्वाहा। केतुपरिजनाय स्वाहा……. शार्दूलविक्रीडित- सूर्यः शौर्यगुणं शशी कुशलतां, सन्मंगलं मंगलो। बुद्धिं तत्त्वबुधां बुधो वितरताज्जीवः शुभोज्जीवनम्। शुक्रः शुक्लतरं यशोऽतिविपुलं मंदोप्यमंदश्रियं।। राहुर्बाहुबलं महाघ्र्यमहितः, केतुर्महीकेतुताम््।। 2।।
ॐ ह्रीं आदित्यादयः नवग्रहदेवाः इदं जलादि अघ्र्यं गृण्हीध्वं गृण्हीध्वं स्वाहा।।पूर्णाघ्र्यः।। श्रीशांतियंत्रं विधिना समंत्र-माराधितं निःप्रतिमप्रभावं। समस्तविघ्नस्य शमं विधेया-दनुद्भवं चेष्टसुखं च देयात्।।3।।
इष्टप्रार्थनाय पुष्पांजलिं क्षिपेत् (पुष्पांजलिं) अथ बृहच्छांतिकर्मणि चिकी£षते बृहच्छांतिकयंत्रं समाराध्य ग्रहपूजानंतरं प्रतिकूलग्रहानुद्दिश्य तन्मंत्रेण तिलशालियवैर्जलहोमं तत्तत्समिöिरग्निहोमं च विदध्यात्।। इति शांतिकर्मविधानम्।। (यहाँ जलहोम करें) अथ ऐशान्यां दिशि अनावृतार्चनम् मेरोरीशानभागे कुरुषु मणिमयस्योत्तरेषु स्थितस्य। श्रीजंबूभूरुहस्य स्थितिजुषमनिशं पूर्वशाखास्थसौधे। शंखं चक्रं च कुंडीं दधतमुरुकरैरक्षमालां च कृष्णं। पक्षींद्रारूढमस्या भवदिशि विधिनानावृतेंद्रं यजामि।।4।।
ॐ ह्रीं अनावृतेंद्र! अत्र आगच्छ आगच्छ संवौषट्। अत्र तिष्ठ तिष्ठ ठः ठः। अत्र मम सन्निहितो भव भव वषट्।। पुष्पांजलिं।। ॐ ह्रीं अनावृतेन्द्र! इदं जलादि अघ्र्यं गृहाण गृहाण स्वाहा। अथात्र मंडले स्नपनपीठे जिनबिंबं प्रागुक्तविधिना स्थापयेत् (भगवान का अभिषेक करें) पाश्र्वप्रोतमणिप्रभाभिरभितः, क्लृप्तेंद्रचापोत्करम्। पाश्र्वद्वन्द्वनिवेशितोचितलसद्देवेंद्रपीठद्वयम्।। अर्धेन्दूपमपांडुकोपलतला-नादिस्थपीठोपमं। पीठं भासुरभर्मनि£मतमिदं, यंत्रोपरि स्थापये।।1।।
ॐ ह्रीं अर्हं क्ष्मं ठः ठः स्वाहा। पीठस्थापनं।। हाटकीयघटपूर्णपयोभिः, पाटलातृटिपटीरविमिश्रैः। क्षालयामि निजमानसपंक-क्षालनाय जिनमज्जनपीठम्।।2।।
ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: नमोऽर्हते भगवते श्रीमते पवित्रतरजलेन श्रीपीठप्रक्षालनं करोमि स्वाहा। पीठप्रक्षालनम्।। स्याद्वादविद्वज्जनशेमुषीव, नितांतमेतान्निशिताग्रभागान्। हिरण्मयेऽस्मिन्नभिषेकपीठे, हरिन्मणिच्छायकुशान्न्यसामि।।3।।
ॐ ह्रीं दर्पमथनाय नमः। पीठदर्भः।। (अभिषेक पात्र पर दर्भ स्थापित करना) स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।। हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलैः, पीठं समभ्यर्चये।।4।।
ॐ ह्रीं सम्यग्दर्शनज्ञानचारित्राय स्वाहा। पीठार्चनम्। (अभिषेक पात्र को अघ्र्य चढ़ावें) श्रीपीठक्लृप्ते विशदाक्षतौघ-श्रीप्रस्तरे पूर्णशशांककल्पे। श्रीर्वर्तते चंद्रमसीति वार्तां, सत्यापयंतीं श्रियमालिखामि।।5।।
ॐ ह्रीं श्रीं अर्हं श्रीलेखनं करोमि स्वाहा। श्रीलेखनम्।। स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।। हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलै-रभ्यर्चयामो जिनम्।।6।।
स्नपनप्रतिमार्चनम्।। (अघ्र्य चढ़ाना) जैनेंद्रबिंबं जगदेकपुण्या-लंबं प्रशांत्याजितचंद्रबिंबम्। निर्भूषणं भूषितसर्वलोकं, स्पृशामि संस्पर्शयदिष्टसौख्यम्।।7।।
ॐ ह्रीं धात्रे वषट् प्रतिमास्पर्शनम्।। स्नपनमंडपमर्हद्बिम्बं नीत्वा तत्र स्तोत्रमिदं पठेत्। जय जय जिनराज, ध्वस्तदुर्मोहराज। प्रहतमदनराज, प्रव्हतद्देवराज। रुचिरतरविराज, स्तुत्यशक्ताहिराज। प्रचुरसुगुणराजन्नच्युताधीशराज।।1।।
जय जय जिनधीर, प्राप्तजन्माब्धिपार। प्रथितविभवसार, प्रौढतीर्थावतार। प्रहतहतकमार, प्रोद्धतानंदपूर। प्रहसितशतसूर, प्रप्रकृष्टांशुभार।।2।।
जय जय जिनमित्र, ध्वांतविध्वंसिमित्र। स्वतिशयगुणगात्र, ज्ञानविस्फू£तपात्र। परमपदपवित्र, प्रोल्लसद्देवयात्र। प्रवरशरणगात्र, प्राणिनामप्यमुत्र।।3।।
जय जय जिनजैत्र, क्ष्मात्रयारामचैत्र। त्रिदशविधृतवेत्र, श्वेतचित्रातपत्र।। निरतिशयचरित्र, श्रीमदर्थोक्तसूत्र। स्वदुरघतरुदात्र, श्रायसश्रीकलत्र।।4।।
जय जय जिन तात, त्रातरत्यंतपूत। स्थिरतरसुखदातः, कर्मसंघातघात।। कुमतजलदवात, ज्ञेयजातप्रमातः। प्रवचनरथसूत, ख्यातदेवाभिनूत।।5।।
जय जय जिनचंद्र, च्छिन्नदुर्मोहतंद्र। प्रणतनरसुरेंद्र, स्वात्मलक्ष्मिन्मुनींद्र। स्वतिशयगुणरुंद्र, प्रीणितप्राणिमंद्र। प्रवचनसरिदिंद्र, स्फीतभासांद्रचंद्र।।6।।
जय जय जिनसेव्य, त्रातसुप्रीतभव्य। त्रिभुवनमहितव्य, स्वाप्तिसंभावितव्य। वरद नमसितव्य, प्रत्यहं की£ततव्य। स्मृतिपथनिहितव्य, श्रेयसे भावितव्य।।7।।
जय जय जिननाथ, ज्ञातसंपत्सनाथ। प्रतिहतरतिनाथ, प्रास्तमोहाघनाथ।। नतसुरनरनाथ, श्रीदलोकादिनाथ। श्रुतिकजदिननाथ, श्रीवधूप्राणनाथ।।8।।
नमदनिमिषषंडं, खंडितानंगकांडं। हसितलसिततंुंडं, ध्यानधीराग्निकुंडम्।9।।
सुगुणमणिकरंडं, जन्मवार्धौ तरंडं। जिनमतचिदखंडं, श्रायसानंदपिंडम्।।10।।
।। इत्यानंदस्तवः।। शार्दूलविक्रीडित- नीत्वा भूरिविभूतितः सुरगिरिं, श्रीपांडुकाग्रासने। पूर्वास्यं विनिवेश्य ते सुरवराः, संस्नापयंति स्म यम्। तं देवं स्नपनार्थमंडपमिमं, नीत्वा विभूत्या समं, पीठेत्र श्रुतबीजभासुरतले पूर्वाननं स्थापये।।1।।
ॐ ह्रीं अर्हं श्रीधर्मतीर्थाधिनाथ भगवन्निह पांडुकशिलापीठे तिष्ठ तिष्ठेति स्वाहा। श्रीवर्णे प्रतिमास्थापनम्। अनुष्टुप्-देवस्य दक्षिणे भागे, यक्षमुत्तरदिङ्मुखम्। यक्षीमुत्तरभागेऽस्य, दक्षिणस्यां निवेशये।।2।।
यक्षयक्षीस्थापनम्।। शार्दूलविक्रीडित-येषां मेरुतटे जिनालयपुरो-भूः पांडुकाग्रस्थितं। पीठं पीठमिदं त्वियं प्रतिकृतिः, साक्षाच्च सोर्हत्प्रभुः। सौधर्मामरनायकोऽहममराः, सर्वे च भव्या अमी। यज्ञांगानि च तान्यमूनि सकलं, तत्सिद्धमिष्टं हि नः।।3।।
श्रीमंडपादिषु भावस्थापनार्थं स्नपनमंडपाग्रे पाद्यविध्ं विदध्यात्।। यज्ञांगसन्निधापनम्।। वेदाच्चेतसि मे स्फुरंतमपि च, त्वामाव्हयामि प्रभो, शुद्ध स्वात्मकृतप्रतिष्ठमपि च, त्वामत्र संस्थापये। आसन्नं वितनोमि सर्वगमपि, त्वां निर्विकारं सदा। पाद्याद्यैश्च पुनामि केवलमिदं, सर्वं हि पूजाक्रमः।।4।।
प्रकृतक्रमविध्यवधानाय प्रतिमाग्रे पुष्पांजलिं क्षिपेत्।। आहूता भवनामरैरनुगता, यं सर्वदेवास्तथा, तस्थौ यस्त्रिजगत्सभांतरमहा-पीठाग्रसिंहासने। यं हृद्यं हृदि सन्निधाप्य सततं, ध्यायंति योगीश्वराः। तं देवं जिनम£चतं कृतधिया-मावाहनाद्यैर्भजे।।5।।
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं! अत्र एहि एहि संवौषट् नमोऽर्हते स्वाहा। आवाहनमंत्रः।। ॐ ह्रीं श्रीं क्लीं ऐं अर्हं! अत्र तिष्ठ तिष्ठ ठः ठः नमोऽर्हते स्वाहा। स्थापनमंत्रः।। ॐ ह्रीं श्रीं क्लीं ऐं अर्हं! अत्र मम सéिहितो भव भव वषट् नमोऽर्हते स्वाहा। सन्निधापनमंत्रः। तीर्थोदकै£जनपादौ प्रक्षाल्य तदग्रे पृथग्मंत्रानुच्चारयन्पुष्पांजलिं प्रयंुजीत।। आराधितौ सुरवरैर्बहुभक्तियुक्तै-र्यौ संस्तुतौ मुनिवरै£वविध£द्धयुक्तैः। श्रीपादयो£जनवरस्य तयोः पुरस्तात्, बध्नामि विघ्नहरपंचजिनेंद्रमुद्राम्।।6।।
पंचगुरुमुद्राबंधनम् अनन्यसाधारणसद्गुणानां, तव स्मरन्नास्तमितस्मरार्तेः। जिनेंद्र! साक्षात्कृतसर्वतत्त्व! त्वामात्मनः सन्निहितं करोमि।।7।।
ॐ उसहाय दिव्वदेहाय सज्जोजादाय महप्पण्णाय अणंतचउट्ठयाय परमसुहपइट्ठयाय णिम्मलाय सयंभुवे अजरामरपदपत्ताय चउमुहपरमेट्ठिणे अरहंताय तिलोयणाणाय तिलोयपूजाय अट्ठदिव्वदेहाय देवपरिपूजियाय परमपदाय ममयत्थसन्निहिदाय स्वाहा। इदमुच्चारयन्प्रतिमां परामृशेत्।। आव्हानादिविधानं।। विजयविभवविद्या-वीर्यमौदार्यमाज्ञां।। श्रुतिमतिधृतिनीतीः, शांतिकांतिप्रसादान्। दृगवगमचरित्रं, सिद्धिवृद्धिप्रसिद्धी- £वतरतु जगतोऽत्र, स्थापितः श्रीजिनेंद्रः।।8।।
आशीर्वादः।। सुरेश्वरो यस्य सुराचलाग्रे, पाद्यक्रियामातनुते स्म भक्त्या। तस्य प्रभोः पाद्यविधिं विधास्ये, निपात्य पादे वरवारिधारां।।9।।
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं नमोऽर्हते स्वाहा। पाद्यमंत्रः।। श्रीतीर्थक्षेत्रियस्यास्य, मेरुमूध्र्नीव देवराट्। हस्ते निपात्य वार्धारां, करोम्याचमनक्रियाम्।।10।।
ॐ ह्रीं झ्वीं क्ष्वीं वं मं हं सं तं द्रां द्रीं हं सः स्वाहा। आचमनमंत्रः।। इति पाद्याचमनविधानम् त्रैलोक्यरक्षामणिमर्हदीशं, द्विषट्प्रकारैरवतारयेऽर्थैः।
त्रिवारमामस्तकमापदाब्जं, नन्वीदृशोऽस्य स्नपनक्रमः स्यात्।।11।।
(धुले अक्षत और सुगंधित पुष्प अंजुलि में लेकर, भगवान हमारे रत्नत्रय को निर्दोष करो, इस भावना से आगे का पद्य और मंत्र बोलकर अवतरण विधि करें। मस्तक से लेकर पैरपर्यंत तीन बार उतारना अवतरण विधि है।)
पुष्पाक्षत-अवतरण वीतक्षताद्र्राक्षतसौरभाढ्य-प्रसूनपूर्णांजलिनांजसार्थम्। पतिं जिनानामवतारयामि, रत्नत्रयं निक्षतमाप्तुकामः।।1।।
ॐ ह्रीं क्रों बहुविधपुष्पाक्षतपरिपूर्णपाणिपात्रेण भगवतोऽर्हतोऽवतरणं करोमि सम्यग्दर्शनज्ञानचारित्राणि अस्माकमक्षतानि विदधातु भगवान् स्वाहा। पुष्पाक्षतावतरणम्। (आगे के श्लोक व मंत्र से, हमारे पापसमूह नष्ट होवें, इस भावना से दूब, सरसोंयुक्त गोमय से अवतरणविधि करें।) भूतलापतितगोमय – पिंडैर्दूर्र्वगुच्छसितसर्षपयुक्तैः। अर्हतोऽवतरणं विदधेहं, कर्तुमात्मदुरितौघविलोपम्।।2।।
ॐ ह्रीं क्रों दूर्वांकुरसितसर्षपयुक्तैर्हरितगोमयपिंडकैर्भगवतोऽवतरणं करोमि दुरितमस्माकमपनयतु स्वाहा। गोमयपिंडावतरणं।। (भगवान हमारे अष्टकर्र्म भस्म करें, इस भावना से भस्म के पिंड से अवतरणविधि करें।) शुद्धगोमयजभस्मपिंडकै-र्गंधवारिलुलितैजनप्रभोः। अग्रतोवतरणं वितन्महे, दग्धुमात्मदुरितेंधनोत्करम्।।3।।
ॐ ह्रीं क्रों भस्मपिंडकैर्भगवतोऽर्हतोऽवतरणं करोम्यस्माकं अष्टविधकर्माणि भस्मीकरोतु भगवान्स्वाहा।। भस्मपिंडावतरणं।। (हमारा कल्याण होवे, इस भावना से शालि के ओदन से (भात से) अवतरणविधि करें।) पीयूषपिंडोपमपांडुराति-स्वादिष्टशाल्योदनवृत्तपिंडैः । विदांवर त्वामवतारयामि, क्षेमं सुभिक्षं जगतां विधित्सुः।।4।।
ॐ ह्रीं कुंदेंदुकुमुदधवलवर्तुलौदनपिंडकैर्भगवतोऽर्हतोऽवतरणं करोमि क्षेमसुभिक्षं अस्माकं करोतु भगवान्स्वाहा। शाल्यन्नपिंडावतरणं।। (कर्मों को नष्ट करने की भावना से धूप खेकर अवतरण विधि करें।) कालागरुक्षोदविमिश्रितेन, कर्कोलमुख्यरजसा बहुवासितेन। निर्वर्तनं नित्यसुखार्हदीशो, दुष्कर्मचूर्णीकरणाय कुर्वे।।5।।
ॐ ह्रीं क्रों सुगंधीभूतदिग्वधूवदनकैरंधकारीकृतदिग्विवरैः कर्कोलैलादिचूर्णमिश्रित-कालागरुधूपैर्भगवतोऽर्हतोऽवतरणं करोम्यस्माकमष्टविधकर्माणि चूर्णीकरोतु भगवान्स्वाहा। धूपावतरणम्।। (श्वेत, काले, हरे, पीले और लाल ऐसे शरावों से (वर्धमानक से) हमारी संपत्ति वृद्धिंगत होवे, इस भावना से पंचवर्णी वर्धमानक से अवतरण विधि करें।) रूपाग्निवाध्र्यंगुलवक्रभूमि-समुच्छ्रयैः सच्चतुरकैस्तैः। सपंचवर्णैरवतारये त्वां, श्रीवर्धनार्थं जिन वद्र्धमानैः।।6।।
ॐ ह्रीं क्रों सितासितहरितपीतलोहितैर्वद्र्धमानकैर्भगवतोऽर्हतोऽवतरणं करोमि श्रियमस्माकं वर्धयतु स्वाहा। पंचवर्णवर्धमानावतरणं।। (हमारा धर्म आप उज्ज्वल करें, इस भावना से दीपों से अवतरण विधि करें।) अनंतनिर्भासनिजावबोधं, प्रध्वस्तदुर्मोहमहांधकारम्। सद्धर्मदीप्त्या जिनभानुमंतं, माणिक्यदीपैरवतारयामि।।7।
ॐ ह्रीं क्रों पद्मरागमणिभिरिव देदीप्यमानकर्पूरपारिदीपैरिवोभयपाश्र्वप्रज्वलितोल्कया भगवतोऽर्हतोऽवतरणं करोम्यस्माकं धर्ममुज्ज्वलं करोतु भगवान् स्वाहा। दीपावल्यावतरणम्।। (कर्पूर और सुगंधित पुष्पों से सुवासित जल अंजुलि में लेकर, हमारा ध्यान निर्मल होवे, ऐसी भावना से अवतरण विधि करें।) शीतांभसा पाणिपुटस्थितेन, युक्तेन कर्पूरसुगंधिपुष्पैः। नीराजनं नीरजसो जिनस्य, निर्वृत्तये शीलसमाधिसिद्ध्यै।।8।।
ॐ ह्रीं क्रों सुरभिशिशिरविमलसलिलपरिपूर्णेनांजलिना भगवतोऽर्हतोऽवतरणं करोमि विमलशीतल- ध्यानमस्माकमुत्पादयतु भगवान्स्वाहा।। सलिलांजल्यवतरणम्।। (जिनेन्द्रदेव हमारी इच्छा पूर्ण करें, ऐसी भावना से नींबू, जामुन, केला, नारियल, आम आदि फलों से अवतरण विधि करें।) जंबीरजंबूकदलीकपित्थ, फलोत्तमाम्रादिफलोत्तमौघैः। निर्वृत्तये नित्यफलं जिनेंद्रं, नित्यामृतानंदफलोपलब्ध्यै।।9।।
ॐ ह्रीं पवित्रतरुसमुत्पन्नैः क्रमुकनालिकेरमातुलिंगपनसदाडिमजंब्वाम्रादिफलैः भगवतोऽर्हतोऽवतरणं करोम्य- स्माकमाशाफलं संपादयतु भगवान्स्वाहा।। फलावतरणम्। (पृथ्वी सर्वधान्य संपन्न होवे, इस भावना से दूब, सरसोंयुक्त मिट्टी के पिंडों से अवतरणविधि करें।) सिद्धार्थदूर्वाक्षतलक्षितांगै-र्गंधांबुसिक्तोद्धमृदा कृतैश्च। सद्वर्धमानैरवतार्यमाणो, जिनो महीं सस्यचितां तनोतु।।10।।
ॐ ह्रीं दूर्वांकुराक्षतसितसर्षपयुक्तैर्मृत्पिंडकैर्भगवतोऽर्हतोऽवतरणं करोमि सर्वसस्याढ्यां वसुधां करोतु भगवान्स्वाहा। मृत्पिंडावतरणम्।। (हमारी आत्मा को भगवान उज्ज्वल करें, इस भावना से दर्भ अग्नि से अवतरणविधि करें।) निःशेषदोषेंधनदाहदक्षै-र्दर्भाग्रलग्नोज्ज्वलकीलजालैः। निर्वर्तये निर्वृजिनं जिनेन्द्रं, निर्दग्धुमात्माखिलकर्मकक्षम्।।11।।
ॐ ह्रीं क्रों कनत्कनककपिशवर्णैरग्रावलग्नाग्निज्वालाज्वलिताखिलदिङ्मुखैः पापारातिकुलोन्मूलनदक्षै£नबिड- निबद्धदर्भपूलैर्नीराजनविधिना भगवतोऽवतरणं करोम्यात्मोज्ज्वलनमस्माकं करोतु भगवान्स्वाहा।। दर्भदीपांकुरावतरणम्। यहां तक एकादशविध अवतरणविधि पूर्ण हुई। (पुष्पांजलि) कमलबकुलवालोत्फुल्लकल्हारमल्ली, कुमुदकुरुवकोद्य-द्यूथिकाकेतकीनाम्। दवनमरुवकानां, मालतीचंपकानां, जिनचरणपुरस्तादंजलिं प्रोत्क्षिपामः।।12।।
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं अर्हंत इदं पुष्पांजलिप्रार्चनं गृण्हीध्वं गृण्हीध्वं नमोऽर्हद्भ्यः स्वाहा। अनेन विविधकुसुमांजलिः। यहाँ पृष्ठ 107 से भगवान की अष्टद्रव्य से पूजा करें। यत्रागाधविशालगुणेत्यादिना प्रागुक्तेन भगवतोष्टविधां इष्टिं विदध्यात्। शार्दूलविक्रीडित-यः सर्वाभ्युदयप्रदो यममरा-धीशः सदोपासते। यैनैवामृतमाप्यते मुनिवरा, यस्मै नमस्कुर्वते। यस्मान्नास्त्यपरः सुहृत्सुमहिमा, यस्यैव यस्मिन्सताम्। प्रीतिस्तज्जिननाथ दिव्यचरणं, निःश्रेयसायास्तु नः।।13।।
भक्ष्यक्षीरघृताक्षतान्नसुमनो-वार्गंधदध्यन्वितम्। नानासत्फलपाणितान्वितमिमं, हेमादिपात्रे स्थितम्। उद्धार्याघ्र्यमनघ्र्यमध्वरविधि-प्रत्यूहविध्वंसकान्, दिक्पाला॰जगदेकपालकजिना-धीशाध्वरे व्याव्हये।।14।।
अघ्र्योद्धारणम्।।
गद्यं-ॐ शारदोदारवारिदातिविशदविशालायतोत्तुंगांगसंगांगीकृतांगश्रृंगांगश्रृंगिहाटकोपघटितघंटिकाकक्ष्यादिलक्ष्यमाण- पक्षभागम्। उदयाचलशिखरोदितदिवाकरबिंबातिशुंभज्जांबूनदजहटत्पट्टबंधातिबंधुरदंतभागम्। दंतांतगतसरोवरसरोजदलोपरिमानृत्यदमरांगना- वदनचंद्रशतापादितशतचंद्रनभःस्थलविलासम्।
कुथाकलितपृथक्पृष्ठभागाकृष्टविचित्रसंध्याभ्रसमावृतविजयार्धाचलमूर्धपराध्र्यशोभम्। नीरदनिनादनिकरनिभनिजभूरिभेरीरवांचित घंटाजालटंकारकृतारातिवारणमैरावण महावारणमारूढम्।। देहप्रभाद्विगुणभूषणदिव्यदीप्ति-व्यालिप्तदिग्विवरमंतरितांतरायम्। वज्रायुधं निजवधूवदनाब्जनेत्रम्, व्याव्हानये नुतजिनेंद्रमहे महेंद्रम्।।1।।
ॐ ह्रीं क्रों सुवर्णवर्ण सर्वलक्षणसंपूर्ण स्वायुधवाहनवधूचिन्हसपरिवार हे इंद्र! अत्र आगच्छ आगच्छ संवौषट्। स्वस्थाने तिष्ठ तिष्ठ। ममात्र सन्निहितो भव भव वषट्। इंद्राय स्वाहा। इंद्रपरिजनाय स्वाहा इत्यादि। इंद्रायेदमघ्र्यं पाद्यमित्यादि यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा। शांतिः सदास्तु तस्यार्हन् देवो यस्य सदाच्र्यते। इतीन्द्राव्हानम्।
पूर्वदक्षिणस्यां दिशि गद्यम्- ॐ घनागमघनाघनसमुद्भूतविद्युद्विलासानुकारिकलापघनगलाघटितकलधौतघर्घरमाला निर्घोषनि£जतपर्जन्यगर्जनम्।
अप्रत्याख्यानमायास्वरूपप्रख्यापनप्रवीणाप्रगुणविषाणभूषणविशेषझणझणात्कारोत्पादनपटुतरचटुलाटनसमुद्भटम्। पवनसखसमालोक- नसमागतपवनकुमारायमाणपृथुप्रोथघुरुघुराघोषनिश्वासनिर्भरम्। सर्वावयवसत्वसमुच्चयनिधिन्यासनिर्हातिबहलबलोपलक्षितललाट- पट्टविभ्राजितमदभ्रतरकायमुरभ्रवरमारूढम्।।
शोणभ्रूश्मश्रुकेशांबकमरुणरुचं जाज्वलज्ज्वालशक्तिम्। कुंडीं वामेक्षमालामितरकरतले बिभ्रतं सोपवीतम्। स्वाहायुक्तं नियुक्तं जिनयजनविधेर्दीपधूपाधिकारे। सद्वेदाघोषिसभ्यावृतमनलमलंकारसारं यजेऽहम्।।2।।
ॐ ह्रीं क्रों रक्तवर्णसर्वलक्षणसंपूर्ण स्वायुधवाहनवधूचिन्हसपरिवार हे अग्ने! अत्र आगच्छ आगच्छ संवौषट्। इत्यादि। शांतिः सदा0। इत्यग्नेराव्हानम्।।
दक्षिणस्यां दिशि गद्यम्-ॐ स्याद्वादानवद्यविद्याविदग्धनिर्दग्धावलेपसकलसर्वथैकांतवादिदुर्वारदुर्यशोराशिमिवातिनीलस्थूलायतोत्तुगमंगमादधानम्। कटुतराभिनवकालकूटजाज्वलज्ज्वालाजटालनिजफणफणाधरत्रिगुणग्रथितघंटाटंकारसमाटिक्यमानयागप्रीतभटाटोपपंचराशरवैश्वानरांतकसमासत्ति- समायोगसमासादितनितांतदारुणाकारभीकरम्।
चरद्गवलशिखाभिघट्यमानमेघपटलपातुकमुक्ताजालसिच्यमाननिजपृष्ठाधिष्ठितदक्षिण- काष्ठाधीशम्। नीलरत्नाधिष्ठानपुष्पकनिष्पादितप्रतिमहिषविभ्रमाविर्भूतकोपकृशानुकृतरक्ताक्षमिव रक्ताक्षतोपलक्षितरक्ताक्षवरमारूढम्।। भृंगांगासितभूरिभंगुरजटा-जूटं शिखाडंबरोद्भिद्दंडोड्डमरं प्रचंडफणिभृत्सान्मंडनैर्मंडितम्। छायातुच्छमुखेंदुसुच्छविकृता-नंदं सकालच्छविं। कालं कालजकालधर्मरहिता-धीशाध्वरे व्याव्हये।।3।।
ॐ ह्रीं क्रों कृष्णवर्ण हे यम! अत्र आगच्छ आगच्छ संवौषट्…..। श्रीशांतिरस्तु।। इति यमाव्हानम्।। दक्षिणपश्चिमायां दिशि गद्यम्-जिनसवनसमालोकनकुतूहलभल्लाकारपरिणतसमागतांजनमहीधरशंकाकारिणं। जिनभानुविविधनयजिनवचो- भानुशतनिराकृतजनमनोमहामोहतमः संतानसंनिभम्।
उपाकृतपशुविशसनविधायिजनसमाòवकौतुकागतदयायागविलोकन- हताशपाश्र्वगतपापांजनखंजपुंजोपमानं। कुनयनिभनिजदर्शनावारकपुरोलंबमानतमालश्यामलशिरोरुहसटाभारम्। रूक्षतोपलक्षित भल्लूकाकारपरिणतकायकृतभीते£नर्भरं कर्बुरवरमारूढम्।। कटकमुकुटमुद्राहारकेयूरमुख्या-भरणकिरणभारोद्भासिताशांतरालम् । असितलसितकांतिं मुद्गरा च रात्रिं-चरपरिवृतमेतं व्याव्हये नैऋतीशम्।।4।।
ॐ ह्रीं क्रों श्यामवर्ण हे नैऋते! अत्र आगच्छ आगच्छ संवौषट्…..। शांतिः सदास्तु इति नैऋत्याव्हानम्। पश्चिमायां दिशि गद्यम्-समुद्रसलिलसंततक्रीडोपगूढबाढक्षीरोदडिंडीरपिंडपांडुराधिककपिलभावातिपशेलं। सर्वांगसंगतमकराकारकरावयवपरिकलित- करिवराकारम्। मृणालच्छेदसोदरोदारदंतकांतिकलापापसारितनिजवदनविवरांधकारम्।
यागभूभागपुष्पोपहाराय पुष्पापचय- मातन्वानमिवपुष्करकरव्यापारितकरपुष्करम्। अनेकांतमततत्वसमर्थनार्थमिव कथंचित्करिमकरोभयाकारविराजित करिमकरविमानमारूढम्। मुक्ताफलात्युज्ज्वलविद्रुमानु-स्यूतप्रभूताभरणाभिरामम्। भीमाहिपाशं वरुणान्यधीशं, यागेत्र यादःपतिमाव्हयामि।।5।।
ॐ ह्रीं क्रों सुवर्णवर्ण हे वरुण! अत्र आगच्छ आगच्छ संवौषट्…..। शांतिः सदा..। इति वरुणाव्हानम्।। पश्चिमोत्तरस्यां दिशि गद्य-लघुललितमृदुकोमलातिविमलकलधौतकपिशतरकायकमनीयम्। वदनवदमांसलातिचटुलतरचरणरमणीयम् मांसलसमानपरिणाह- विशिष्टपृष्ठभागम्। मृगाधिपमध्यप्रदेशशोभाध्यासितमध्योद्देशम्। निशातकुटिलपर्वपटलदंतुरविषाणविराजितम्। वामलोचनालोचनोपमान- चपलविशालविलोचनम्। समुत्क्षिप्तकर्णतालातिचकितमुहुर्मुहुराशांतरावलोकनम्। स्तोकतरभूभागगतिवेगातिशयपूर्वकायप्रविष्टापरकायम्। बहुतराकाशप्लुतगतिरयोभरपराजितमनोवेगमहिमानम्।
गर्वारंभाति वल्गुवल्गनविधानसमयश्रृंगारविघट्यमानघनपटलघनगलज्जल- धारापसारितपथपरिश्रमम्। निजनिशितखरखुरशिखरपरिकषितकुशिखरिनिकरशिरोभागम्। समीहितोद्देशाविलंबित सुखप्रापण- प्रमुखसकलसारगुंभितसंततसारंगवरमारूढम्। चलद्विपुलभूरुहं कलितविस्फुरद्भूषणम्। लसन्मधुकरच्छविं चलितगात्रयंत्रोत्करम्। जगत्त्रितयजीवनं विरचिताखिलार्थेतरम्। समीरणमिहाव्हये समदवायुवेगीयुतम्।।6।।
ॐ ह्रीं क्रों कृष्णवर्ण हे पवन! अत्र आगच्छ आगच्छ संवौषट्…..। शांतिः सदास्तु । इति पवनाव्हानम्। उत्तरस्यां दिशि गद्य-ॐ जिनमहामहमहिमावलोकनकुतूहलगगनागतनीलकुलाचलायमाननीलरत्नमयमहाधिष्ठानमहनीयम्। तत्कुलाचलकूटोपमानमणि- मयमुकुटोपरिमपद्मरागकलशप्रभापटलपाटलीकृतमध्यंदिनातपम्।
सीतानदीसितप्रवाहसोदरोदारधवलच्छविच्छदराजद्राजहंसनिकुरुंबनीयमानम्। विचित्रावयवशोभाजितवैमानिकविमानाधःपातसमुत्क्षिप्तकरशतायमानध्वजराजिविराजितम्। विविधमणिविनि£मतभित्तिभागप्रभाप्रसरसुस्वा- पशतसहस्रनिष्पादकं पुष्पकविमानमारूढम्। निधनरहितमुक्ताभूषणप्रौढवेषं। निधननिपुणशक्तिं विद्विषामुद्वहन्तम्। घनमुखनिजदेवीसन्मुखांभोजभृंगं। धनदमिह धनद्ध्र्यै सेव्यमाव्हानयेहम्।।7।।
ॐ ह्रीं क्रों सुवर्णवर्ण हे धनद! अत्र आगच्छ आगच्छ संवौषट्…..। शांतिः सदास्तु।। इति धनदमाव्हानम्। पूर्वोत्तरस्यां दिशि गद्य-महाहिमवन्महीधरसमानमहामानमाननीयधवलधौरेयतरगात्रम्। स्थूलसमुत्तुंगकठिनककुत्कूटघटिततत्कुलकुत्कीलकूटोदारविलासम्। महीधरमहाकूटविदारणविनोदविलिप्तधातुधूलिविसरविभूषणविषाणविराजितम्। कनत्कनकखचितचकचकायमानचलदचलद्वलमालामनोहरमस्तकम्।
मंजीरमंजुलारावगलालंबनघंटाध्वानद्विगुणगंभीरनिजनिनादपरिपूरितदिगंतरालम्। सलक्षणपुरुषविशेषविशालाक्षोपमानमहाक्षममतिदक्षं महोक्षवरमारूढम्।। कंकेलीद्रुमपल्लवच्छविजटा-जूटार्धचंद्रप्रभा- सांद्रीभूतभुजंगभूषणफणा-रत्नप्रभाभास्वरम् । भालाभीलविलोचनानलशिखा-तीक्ष्णत्रिशूलायुधम्। पार्वत्या धवमाव्हये गणवृतं, दक्षाध्वरध्वंसिनम्।।8।।
ॐ ह्रीं क्रों धवलवर्ण हे ईशान! अत्र आगच्छ आगच्छ संवौषट्…..। शांतिः सदास्तु।। इतीशाव्हानम्।। अधरस्यां दिशि गद्य-ॐ नितांतनिस्तलशुंभज्जंबूद्वीपविपुलनिष्ठुरपृष्ठभागम्। विशिष्टसारविनि£जतवज्रसारम्। निजनिरतिशयगतिवेगभर- पराजितपवनगमनवेगावलेपम्। धराधरधरासागरादि सकलजगद्भारधारणधुरीणगुणप्रभावप्रवादप्रतीतम्। तिमितिमिंगिलादिसकलजलचर- विशेषैकपुरोगमपदमासादितवंतम्। सकलसर्वथैकांततत्त्ववदत्यंतासंभाव्यमानरोमांकुरकूर्माकारपरिणतं कूर्मवरमारूढम्।
पृथ्वीछंद- स्फटापरिगतारुणद्युमणिबिंबशुंभन्मणिप्रभापटलपाटलीकृत सितांगविभ्राजितम्। धृतांकुशमनंकुशं सुगुणसद्मžपद्मायुतं फणाधरगणावृतं फणिमहीन्द्रमाव्हानये।।9।।
ॐ ह्रीं क्रों धवलवर्ण हे धरणीन्द्र! अत्र आगच्छ आगच्छ संवौषट्…..। शांतिः सदास्तु।। ऊध्र्वायां दिशि गद्य-ॐ मदांधसुरसिंधुरसमालोकनसमुज्जृंभितकोपानलबहिश्चलदुज्ज्वलज्ज्वाला कलापशंकाकारिसरलारुणसटाटोपम्। सततसुधाकरकरसृतसुधासारसंजातधवलिमानमिवातिधवलदेहमादधानम्। निजोभयपाश्र्वावस्थितकरिमकरक्रूरसमशीलक्रव्यादसमालोकन- समुद्भूतक्रोधानुरागपुंजायमानातिलोहितविलोचनविभूषणम्।
मत्तमातंगघटाकोटिकरटतटविपाटनसमासक्तमुक्ताफलप्रभाप्रखरनखरातिभीकरम्। कलाशेष कलाधराकारानुकारिकुटिलदंष्ट्रागभस्तिभरविदारितवदन विवरांधकारम्। कल्पांतानल्पघनाघनध्वानशतसमवायसन्निभनितांत- निष्ठुरनिजनिर्घोषसंत्रासितसकलदिग्गजेंद्रम्। मृगेंद्रवरमारूढम्।। जिनगुणमणिमालां मौक्तिकानां च मालां। कुमुदकुसुममालां रोहिणीदृष्टिमालाम्। चिरमुरसि धरंतं, कुंदभासं सकुंतं। कविनुतगुणरुंद्रं, चंद्रमाव्हानयेऽहम्।।10।।
ॐ ह्रीं क्रों श्वेतवर्ण हे सोम! अत्र आगच्छ आगच्छ संवौषट्…..। शांतिः सदास्तु.।। जल से पूरित कुंभ में सप्तधान्यों से दशदिक्पालों के मंत्रों से पृथक्-पृथक् एक- एक मंत्र सात-सात बार बोलकर आहुति देवें।
दिक्पालकानिति समच्र्य यवान्विता ये, गोधूममुद्गचणकाढकशालिमुद्गाः। तत्सप्तधान्यकृतमुष्टिभिरंबुकुंडे, सप्ताहुतीरिह दधे पृथगेव तेभ्यः।।1।।
ॐ आं क्रों ह्रीं इंद्राय स्वाहा। अनेन जलपूरितकुंडे सप्तधान्यकरमुष्टिभिरिंद्राहुतिं विदद्यात्।। एवमग्न्यादिभ्योऽपि।। (ऐसे ही अग्नि आदि दिक्पालों के मंत्रों से आहुति देना।) दिक्पाला यूयमेतैर्बलिभिरतितरां प्राप्नुवंतः प्रमोदम्। स्थाने स्थाने वसंतो निजनिजविभवैनःप्रतीपप्रभावाः। घ्नंतो विघ्नौघमिज्याप्रसिततनुभृतामध्वरं पालयध्वम्। स्वर्मोक्षापादनैकक्षमजिनयजनं वद्र्धतामद्वितीयम्।।2।।
अध्येषणाघ्र्यः।। अथाभिषेकः (अभिषेक प्रारंभ) वादित्रव्रातघोषे स्फुटमटति पटौ दिक्तटाघाटदेशम्। साटोपं सन्नटंतूद्भटरसघटनैः साधु गायंतु मंद्रम्। आनंदस्तोत्रमाशीर्वचनमतिमुदा मंगलं पाठयंतु। स्वीकुर्वन्त्वद्य भव्या भृशमुदितविधीनुद्धृतः पूर्णकुंभः।।1।।
ॐ ह्रीं कलशोद्धरणं करोमि स्वाहा। कलशोद्धरणम्। जल से अभिषेक गद्य-ॐसरोवरसरित्तटाकवापीकूपप्रभृतिपवित्रतरप्रसिद्धतीर्थनिकरसमानीतैः। स्वयंभूरमणसमुद्रगंगादिनदीपद्मादिसरोवरसंभूत- जलत्वेन संकल्पमानैः। समंत्रयंत्रार्चनविधिसमासादितात्यंतपवित्रभावैः। परमावगाढसम्यक्त्वैरिव निसर्गनिर्मलत्वनिवासैः। दयामय- धर्मैरिवजगत्यत्यंततापापनोदप्रवीणैः।
जिनवदनवनजविनिर्गतपरमागमैरिवात्यंतशीतलैः। शब्दागमैरिव सकलजनजीवनैः कथंचित्पदांचित- युक्त्यागमैरिव युक्तिविशेषवर्धमानैः। चतुरतरकाव्यरसैरिव मनोहरतमैः। पीयूषरसैरिव नितांततृप्तिनिष्पादकैः। सौजन्यगुणैरिव सर्वलोक- प्रियतमैः। जाड्यापनोदार्थं सुवृत्तमाकलयद्भिरिव रजतमहारजतेंद्रनीलकुंभसंभृतिसंभूतसुवृत्तैरंभोभिरमीभिः। शार्दूलवि.-मेरोर्मूर्धनि मूध्न यस्य पयसां, धारां पयोवारिधेः। सौधर्मः प्रथमं जयेति परया, भक्त्या समापातयत्। ईशानादिसुरेश्वरास्तदनु यं, संस्नापयांश्चक्रिरे। तं देवं निजपंकपातनकृते, संस्नापयामो जिनम्।। किंच।।2।।
यज्ज्ञानादिमहत्त्वनि£जतमहत्त्वाकाशमेत्यांभसा। व्याजात्तन्वभिषिंचतीह जिनमित्याविष्कृताशंककैः। अच्छाच्छैरपि शीतलैः सुमधुरैस्तीर्थोपनीतैर्जलैः, शांत्यापादितवारिमूतमनघं, देवं जिनं स्नापये।।3।।
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झ्वीं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते पवित्रतरजलेन जिनमभिषेचयामि स्वाहा। जलस्नपनम् । आहार्यस्फुटसौरभामलजलैः, संसिद्धिकामोदिभिः। श्रीखंडाक्षतपुष्पहव्यहिमरुग्दीपैः सुधूपैः फलैः। अघ्र्यैर्घातिविघातजातपरमा-नंदावबोधास्पदं। त्रैलोक्या£चतमर्चयामि चरण-द्वंद्वं जिनेंद्रप्रभोः।।4।।
अर्चना।। यो नैर्मल्यगुणादिभूषिततनु-र्दीप्त्या जलेनोर्जसा। युक्तश्चानपवत्र्यकायुरनिशं सक्तश्च मुक्तिश्रियाम्। नार्थस्तस्य जगत्प्रभोः स्नपनतः, ¯किंत्वाप्तुमेतान्गुणा-निंद्राद्यैरभिषिक्त एष भगवान्पायादपायाज्जिनः।।5।।
शांतिं च कांतिं विजयं विभूतिं, तुष्टिं च पुष्टिं सकलस्य जन्तोः। दीर्घायुरारोग्यमभीष्टसिद्धिं, कुर्यांज्जिनस्नानजलप्रवाहः ।।6।।
आशीर्वादः।। नालिकेर रस से अभिषेक गद्य-ॐ जिनेश्वरशासनानामिव सर्वप्रियतमानाम् पशूनामिव अविदितहृदयानामिव हृदयविदामापादितहृदयाल्हादानाम्। सज्जनानामिव सरसहृदयानाम्। विद्याविशेषाणामिव विशिष्टजनदर्शनोपयोगानाम्। प्रत्यासन्ननिष्ठानामिव प्रशस्तरुचिवृत्तोपलंभानाम्। परमात्मनामिव सांसिद्धिकसुखामृतानाम्।
निजोदरनिक्षिप्तसुधाकरबिंबसुधापरिपूरितहाटकहरिन्मणिपद्मरागकलशानुकारिणां। सुरलोकाकृतष्यमाण- सुधापरिपूरितमणिमयकलशकरीरपरिकरितवसुधावधूकरोपमाननालिकेरमहीरुहसद्यः समानीतानाम्! स्निग्धमसृणमहदनतिजरठानुपहत- प्रतिनवापरिम्लानतादिगुणगणभूषितानाम् नालिकेरफलानाम्। वसन्ततिलका- दोषत्रयोपशमशक्तिमुपेत्य सर्व-दोषोपशांतिकरशक्तिमपेक्ष्य जैनीम्। आलिंग्य पादपतितैरिव विश्वभर्तुः, संस्नापयामि सलिलैवमलैजनेंद्रम्।।7।।
ॐ ह्रीं…………………….नालिकेररसस्नपनम्। इक्षुरस अभिषेक सर्वश्रेयोपहारी सततमतितरामिक्षुकोदंडदुष्टम्। हत्वा छित्वेक्षुचापं तदमलिनरसैर्यंत्रनिष्पीडनोत्थैः। स्नातीव प्राप्तलोकत्रितयपतिपदो भाति येनाभिषिक्तः-पुंडेªक्षूणां रसेन स्मरहरमनघं तेन संस्नापयामः।।8।।
ॐ ह्रीं…………………….इक्षुरसस्नपनम्। आम्ररस अभिषेक कनकमयकरंडन्यस्तपीयूषकल्पैः, परिणतसहकारव्रातजातै रसौघैः। कनककुसुममालाचारुतामुद्वह शमसुखरससांद्रं, स्नापयामो जिनेंद्रम्।।9।।
ॐ ह्रीं…………………….चूत-आम्ररसस्नपनम्। अंगूर, अनार आदि रसों का अभिषेक खर्जूरराजादनसंभवेन, द्राक्षोद्भवादाडिमसंचितेन। परेण वा शस्तफलोद्भवेन, संस्नापयामि स्वरसेन देवम्।।10।।
ॐ ह्रीं………………….नानाफलरसस्नपनम्।। आहार्यस्फुट इत्यर्चना। यो नैर्मल्य इति।। शांतिं च कांतिं इति च आशीर्वादः। घृत से अभिषेक गद्य-ॐ निजनिरतिशयनित्यज्ञानानंदमोक्षमार्गानभिज्ञसंसारदुःखदावानलदंदह्यमानवराकोद्धरणविषयमूर्तीभूतभगवत्परमानुग्रह- मयानुरागसन्निभैः। अनिमित्तसकलजगदुपकारकरणस्मरणसमुज्जंृभमाणजिनविषयभव्यजनभक्तिरागरमणीयैः। अविलंबितसमायोग- कातरपरिनिःश्रेयसलक्ष्मीप्रस्थापितचारुचंपकमालाशंकावहैः।
बहिरंतर्मलविलयविहितविशुद्धिसंपन्नतासमानगुणकृतानुरागेण समालिंग्य सर्वार्थप्रकाशनविशिष्टगुणविमर्शनेन भगवतः पादे पतद्भिरिव कमनीयकलधौतद्रवैः। सुवर्णकुंभेषु सुवर्णभावेनाविवेचनीयमाकर्णपूर्णस्व- सद्भावमात्मसौरभ्यविशेषं निवेदयमानैः। स्पर्शनमात्रेण रजतकुंभान् शातकुंभतापादनेन स्पर्शोपलप्रभावमात्मसात्कुर्वाणैः। सुस्वरसुकुमार्यवयो- विज्ञानप्रजासर्गविषगदापहारसहजवीर्यसंस्कारानुरोधिवीर्यादिगुणविशेषविभूषितैरमीभिः। अनलबलविधानैः कांतितेजः प्रधानैः, तडिदुपमितपिंगैः सौरभाकृष्टभृंगैः। बहुभिरपि नवीनैः, सारहय्यंगवीनैः, स्नपनविधिपरेंद्रं स्नापयायो जिनेंद्रम्।।11।।
किंच।। सौरभ्यं वरमार्द्रता यदि सुवर्णस्येह संपद्यते। तत्तेन ह्युपमीयते घृतमिदं, नान्येन केनापि च। धीरैरित्यभिवणतेन महता, हय्यंगवीनेन वै। सेसिच्ये बलकांतिपुष्टिसुखदं, श्रेयस्करं श्रीजिनम्।। 12।।
ॐ ह्रीं……………………..घृतस्नपनम्।। आहार्यस्फुट इत्यर्चना। यो नैर्मल्य0 इति, शांतिं च कांतिं इति च आशीर्वादः। क्षीर (दूध) अभिषेक गद्य-ॐ शरत्समयसमुदितनिशाकरकरनिकरनितांतनिर्मलेन। दूरविलंबायमानायततरशरदभ्रशुभ्रविभ्रमविभ्राजितेन। गंगातरंग- संघट्टसंजातडिंडीरपिंडपांडुरेण। सुरशुंडालशुंडादंड विपुलधवलधारापातेन। अनन्यसामान्य स्वादानुविद्धविशदगुणविजितामृतेश्वरविशद- वस्तुविस्ताराच्छुरितकेनावच्छिन्नेन।
तीर्थकरपरमपुण्यवदसाधारणशुभार्थसार्थसंपादनसमर्थेन। जिनवदनवनज विनिर्गतदिव्यवाणी- विलासतत्तदभिमतानेकविधपरिणामप्रवीणेन। चतुरकविप्रबंधवत्प्रसादमाधुर्यादिगुणप्रतिपादितसर्वजनचित्तचमत्कारेण। जिनाभिषवण- विधिव्यापृतभव्यजनसद्यः परिणतागण्यपुण्यसंसिद्धिकामधेनुप्रथमप्रस्रवप्रवाहसंशयप्रतिपादकेन। संकल्पातीतदानवरोपलिप्साकुतूहलकल्पद्रुम- कल्पमानसुधासारशंकावहेन। निजाचिंत्यदानगुणनिजत चिंतामणिप्रहितप्राभृतोदारहारलताकारेण।
प्रेक्षकजनापेक्षणीयपराक्षयमोक्षलक्ष्मी- कटाक्षवीक्षणसदक्षेण। जिनस्नानोपयोगिताजातजगत्रयोदरपरिपूरितहारनीहारकुंदेंदुकुमुदाकाशसंकाशविशदयशोलाभातिशयसंतुष्ट- क्षीरोदजनोपायविकृतक्षीरपूरनिभेन क्षीरपूरेण। यज्जन्मस्नानदुग्धप्लवभरकलितो राजते स्माद्रिराजः। क्षीरोदेनोपगूढो दृढमिव बहुशोऽदृष्टपूर्वोद्य दृष्टः। सौधर्मैशानमध्यः स्वमपि धुरधुरायोगवद्यो बभासे। तं देवं स्नातकाख्यं त्रिदशपरिवृढैः स्नातकं स्नापयामि।।13।।
किंच।। आकृष्टैवममत्र्यकैरसदृशं, देवस्य सेवाकृते। मत्वेति स्वयमेत्य तं स्नपयति, क्षीरांबुराशिध्र्रुवम्। इत्युद्भावितशंकनैर्बहुशुभैः, क्षीरैजनं स्नापये। क्षीराभासतनुं सुमेरुशिखरे, क्षीराभिषेकाप्तये।।14।।
ॐ ह्रीं……………क्षीरस्नपनम्।। आहार्यस्फुट इत्यर्चना।। यो नैर्मल्य इति।। शांतिं च कांतिं0 इति च आशीर्वादः। दधि अभिषेक गद्य-ॐ निजसमृद्धिनिरवकाशीकृतजिनांतरवकाशबहिश्चलदविरलशुक्ललेश्याविसरविलासेन। निरवधिप्रवद्र्धमानशुद्धशुक्लध्यान- बंधुरेण जिनपतिप्रसादासादितसुरासुरमुख्यमूर्धचूडामणिभावोपलंभसंतुष्टतदंकमालिप्रधानपरतदीयविशदयशोराशि संकाशेन। हस्तद्वयोद्धृत- गलितामरनिजरूपनिराकृतनिर्जराहितसुमनोवर्षशोभातिशयेन।
रागद्वेषमोहाक्रांतसर्वथैकांतवादिवाणीस्खलितशतविलोकाविर्भूतसर्वज्ञवीत- रागस्याद्वादिजिनोपदिष्टवाणीस्फुटाट्टहासलक्ष्मीजुष्टेन। नितांतघनीभूतहिमखंडपांडुरेण। रजतमहीधरशिलातलकठिनेन। स्फुटस्फटिकशिलाभ्यं- तरैकांतनिर्मलेन। चंद्रकरचंद्रकांतोपलमेदुरेण। द्रप्स्यदधिविषयसोत्प्रासहासेनेव। वलक्षगुवलक्षरूपेणोपलक्षितेन। सकललौकिकमंगलमुख्यता- वलेपनेनेव प्रभूतस्तब्धभावेन। स्वकीयबहुलसौरभप्रसरपराजित परिपक्वदधित्थेन दध्ना। गुरुमपि गुरुणाग्न्यं, मंगलं मंगलेन। शुचिमपि शुचिनोच्चैः, शीतलं शीतलेन। हितमखिलहितेनात्यंतरुच्येन रुच्यम्। जिनपमवृजिनेन, स्नातकं स्नापयामि।। 15।।
किं च।। लेश्या किं बहिरुद्गता जिनपतेः, शुक्ला समाजृंभणा। दंतर्मातुमशक्तितः किमथवा, ध्यानं नु शुक्लाव्हयम्। किंवा केवलनामधीः किमथवा, तीर्थंकरं पुण्यमि-त्याशंकेन शशांकदीधितिरुचा, दध्ना जिनं स्नापये।।16।।
ॐ ह्रीं……………………..दधिस्नपनम्।। आहार्यस्फुटमित्यर्चना। यो नैर्मल्यामिति, शांतिं च कांतिं चेति चाशीर्वादः। सुगंधितचूर्ण अभिषेक कर्कोलैलामलयजहिमग्रंथिपर्णागरुश्री-जातीपत्रिप्रभृतिसुरभिद्रव्यसंसिद्धचूर्णैः । स्वर्मोक्षश्रीविषयविलसद्वश्यचूर्णैरमीभि-र्देवस्यामुष्य चूर्णीकृतदुरघगिरेरंगमुद्धूलयामः।।17।।
गद्य-ॐ कर्कोलैलालवंगप्रियंग्वादिसुगंधिद्रव्यश्लक्षसंपिष्टशुष्कचूर्णै£जनप्रतिमालग्नघृतक्षीरदधिप्रवहणलेपापनोदं विदधामि। मम भगवंतोऽर्हंतः संततानुबद्धदुरितोपलेपनं अपनुदंतु स्वाहा। ॐ ह्रीं सुगंधचूर्णेन जिनांगमुद्वर्तयामि स्वाहा। सुगंधचूर्णोद्वर्तनम्। (चावल के आटे का लेपन, इसमें कपूर-चंदन आदि मिश्रित है।) कमलसदकपिष्टैः पुण्यरेणूत्कराभैः, मलयजरससांद्रैरिंदुधूलीविमिश्रैः। जिनतनुमुपलिप्योद्वर्तयामः समंतादखिलमसितुकामा स्नानजस्नेहलेपम्।।18।।
ॐ कर्पूरद्रव्यचंदनद्रव्यसंमिश्रजलाद्र्रशालेयपिष्टेन जिनांगमुद्वर्तयामि स्वाहा। ॐ ह्रीं पवित्रतरसुगंधशालिपिष्टेन जिनांगमुद्वर्तयामि स्वाहा। शालिपिष्टोद्वर्तनम्।। कषायजल-सर्वौषधि से अभिषेक (आम, बड़, पीपल, खैर, उदुंबर, पिंपली, जामुन आदि वृक्षों की छाल के चूर्ण से या सर्वौषधि से अभिषेक करें। यह अभिषेक संसाररूपी घोर ज्वर का नाश करने वाला है।) चूतन्यग्रोधबोधिद्रुमखदिरवरोदुंबरप्लक्षजंबू- मुख्यानां सद्द्रुमाणां त्वगुपहितजलैः साधुसिद्धैः कषायैः। सर्वैस्त्यक्तं कषायै£नरवधिपरमस्वास्त्यमाप्तं महाप्तम्। संसारापारघोरज्वरशमनकृते स्नापयामो जिनेंद्रम्।।19।।
ॐ प्लक्षन्यग्रोधाश्वत्थोदुंबराम्रखदिरजंबूप्रभृतिशुभद्रुमसमित्वक्कषायपरिपूर्णकलशैरभिषेचयामि विगतकषायविशेषं विदधातु नः स्वाहा। कषायोदकस्नपनम्।। अन्नपिंडावतरणविधि एक थाल में वर्ण के भात लेवें ओदन के पाँच पिंड पाँच वर्ण के बनावें। लाल, हरे, काले, श्वेत और पीले ऐसे पांच रंग के पिंड लेकर भगवान के सामने उतारकर रख देवें। जिनतनुगतमेनं स्नेहलेपं व्यपोह्य। प्रवरकनकपात्रे स्थापितैरानुपूव्र्या। अरुणहरितकृष्णश्वेतपीतान्नपिंडैः। पृथगिह गतदोषं देवमावर्तयामि।।20।।
वर्णान्नावतरणम्।। नीराजनाविधि (पुष्प, जल, अक्षत, दही आदि उत्तम पदार्थ और प्रज्वलित दर्भ या कर्पूर, इनसे मंगल आरती उतारें।) कुसुमसदकमुख्यैर्मंगलार्थैः परोक्तैर्दशभिरिह सहैव स्थापितैः स्वर्णपात्रे। जितवृजिनजिनेंद्रं दर्भपूलोभयाग्र-ज्वलदनलशिखाभिः साधु नीराजयामः।।21।।
मंगलावतरणम्। स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।। हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलैः, देवं समभ्यर्चये।। इति स्नानोत्तरोपस्कारः।। अघ्र्यं। गद्य-ॐ सकलभुवनजनादेयगुणजातजातरूपमयैरपि निजांगसितातिसितनूतनवसनसमावृतैः। बहुधान्यप्रतिष्ठितैरपि निज- विशालोदरविवरप्रतिष्ठितापरिमितभुवनैः।
निजनिखिलांगन्यस्तप्रशस्तसूत्रैरपि सूत्रन्यासबहिर्भूतैः। महनीयमहत्वप्रसिद्धैरपि सजातीय- मध्यगणनावजतैः। विशिष्टतमसुवृत्तजुष्टैरपि परप्रसिद्धमंगलभावैः। अनवद्यजीवनैरपि मणिकनकासक्तजीवनैः। परित्यक्त- महाशयैरपिकमलोन्मुखैः। आकंठपरिपूर्णामृतैरपि वदनगतफलैः। विरुद्धविविधधर्माध्यासितैरपि विबुधजनसमचतैश्चतुभरमीभिः। चतुष्कोणकलशाभिषेक चत्वारः सारतोयांबुधय उत घनाः पुष्करावर्तकाद्याः। निर्यद्दुग्धाः स्तना वा किमु सुरसुरभेरित्थमाशंक्यमानैः। अच्छाच्छस्वाददीव्यत्परिमलविलसत्तीर्थवारिप्रवाहैः। कुंभैरेभिश्चतुभर्युगपदभिषवं कुर्महे भव्यबंधोः।।22।।
ॐ ह्रीं पवित्रतरचतुःकोणकुंभपरिपूर्णजलेन जिनमभिषेचयामि स्वाहा। चतुःकोणकुंभजलस्नपनम्। आहार्यस्फुट इत्यर्चना। यो नैर्मल्य इति, शांतिं च कांतिं चेति चाशीर्वादः।
मध्य कुंभाभिषेक गद्य-ॐ निजांगसंगतनिखिलनिरतिशयगंधद्रव्यनव्यदिव्यामोदप्रसरसमाकृष्टमंजुगुंजन्मधुकरमधुरारावबधिरितदिगंतरालेन। विविध- मंगलालंकारविशेषविराजमानमहामूतिनिर्व£ततसर्वजननयनानंदनेन। सर्वतोवभासमानमाननीयविशदगुणकलाप समुत्पादितसकलजनचित्त- चमत्कारेण। अनन्यसाधारणमहत्वमहोन्नतिमहालक्ष्मीसमालक्षितेन। शिष्टजनसमुदयसमीहितसंपादनसमुत्पन्नशिष्टप्रतिपालनेन। दुःसह- दुरितव्रातविध्वंसनरूपदुष्टनिग्रहनिरर्गलेन। चतुर्भद्रोपायशक्तिरत्नत्रयसाधनभावसमासादित सकलविबुधजनपूजनेन।
मणिकनकादिसमस्तसार- वस्तुविशेषनिवासेन। जिनमहामहसाधन प्रधानभावकृतार्थीकृतनिजजीवनेन। समलंकृताखिलसुवृत्तकलशसभामध्यमध्यासीनेन। सकलकलश- राजश्रियातिशुंभतानेन मध्यकुंभेन। सुगंधित जलाभिषेक सकलभुवननाथं तं जिनेंद्रं सुरेन्द्रै-रभिषवविधिमाप्तं स्नातकं स्नापयामः। यदभिषवणवारां बिंदुरेकोऽपि न¤णां, प्रभवति हि विधातुं भुक्तिसन्मुक्तिलक्ष्मीः।।23।।
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं झं झं झ्वीं झ्वीं क्ष्वीं क्ष्वीं द्रां द्रां द्रीं द्रीं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते, ॐ ह्रीं क्रों मम पापं खंड खंड दह दह हन हन पच पच पाचय पाचय हं झं झ्वीं क्ष्वीं हं सः झं वं व्हः पः हः क्षां क्षीं क्षूं क्षें क्षैं क्षों क्षौं क्षं क्षः क्षीं हां हीं हूं हें हैं हों हौं हं हः हीं द्रां द्रीं द्रावय द्रावय नमोऽर्हते भगवते श्रीमते ठ ठ मम श्रीरस्तु सिद्धिरस्तु पुष्टिरस्तु शांतिरस्तु। कल्याणमस्तु। स्वाहा।
बृहच्छांतिमंत्रेण गंधोदकाभिषेकं कुर्यात्। इस मध्यकलश से उपर्युक्त मंत्र बोलते हुए शांतिधारा करें। आहार्यस्फुट इत्यर्चना। यो नैर्मल्य इति शांतिं च कांतिमिति च आशीर्वादः। शार्दूलवि.-घातिव्रातविघातजातविपुल-श्रीकेवलज्योतिषो। देवस्यास्य पवित्रगात्रकलनात्, पूतं हितं मंगलम्। कुर्याद्भव्यभवातदावशमनं, स्वर्मोक्षलक्ष्मीफल-प्रोद्यद्धर्मलताभिवर्धनमिदं, सद्गंधगंधोदकम्।।24।।
आशीर्वादः।। यस्योदारदयस्य जन्म हरतो, जन्माभिषेकोत्सवम्। चारौ मेरुमहीधरस्य शिखरे, दुग्धैस्तु दुग्धोदधेः।। चक्रे शक्रगणो महागुणनिधेः, श्रीपादपद्मद्वयम्, तस्यैकादशधा महेन महता-माराध्यमाराधये।।25।।पुष्पांजलिः। यत्रागाधविशाल इत्येकादशधा महामहः।। यहां 107 पेज से अष्टद्रव्य से पूजा करें। अष्टाधिकाशीतिसुरावृतानां, इष्टार्थदानां नवदेवतानाम्। आराधनं चात्र महामहांगं, श्रीपीठयंत्रे विधिना विधास्ये।।26।।पुष्पांजलिः।।
विहारकाले जगदीश्वराणामित्यादि वायुमेघाग्निनागानभ्यर्चयेत्।। यहां 114 पेज से वायुकुमार आदि की पूजा करें।
(आठदल के कमल की क£णका में अर्हंत पूजा)
शार्दूलवि – घातिप्रक्षयजाक्षयो£जतमहा-धीसौख्यदृक्शक्तयः-कल्याणानि महान्ति पंच परम-श्रीप्रातिहार्याष्टकम्। प्राप्ता ये भुवनस्तुतैरतिशयै-र्युक्ताश्चतुस्त्रिंशता, तानर्हाम्यहमर्हतस्त्रिजगती, साम्राज्यलक्ष्मीपतीन्।।1।।
गद्य- ॐ ह्रीं नितांतशुद्धबुद्धस्वभावनिजात्मनिखिलप्रदेशानादिघटितनिराघाटघातिघोराटवीसाटोपशिखापटलदावानलायमान द्वितीय- शुक्लध्याननिःपातितारिहननरजोरहस्यहननसंजातजगत्त्रयविधेयमहार्हणानिवासोद्भूताचिंत्यार्हंत्यपदमधिष्ठितानाम्। सर्वतो विजृंभमाणसाकार- निराकारकेवलज्ञानदर्शनयुगपत्प्रवृत्तिव्यवस्थितप्रमाण प्रतिपन्नसर्वज्ञत्वानाम्।
शक्तिव्यक्तिविभागावस्थित समस्तवस्तुविविधाकारकिर्मीरित- सकलसंसारिमुक्तात्मस्वरूपसंकरव्यतिकरव्यपेतसाक्षात्करणशक्तिरूपपरमाश्चर्याणाम्। व्याबाधव्यपेता चिंत्यसारमानोपमानातीतनित्यनिजात्म- जातानंदमंदिराणाम्। त्रिभुवनैकाधिपतित्वव्यंजकविशिष्टाष्टमहाप्रातिहार्यादिबहिरंगमहालक्ष्मीसमालक्षितानाम्। सकललोकैकमंगललोकोत्तम- शरणभूतानाम्। सप्ततिसमेतशतकर्मभूमिभूतभवद्भव्यानां भगवदर्हत्परमेष्ठिनामष्टतयीमिष्टिं करोमि स्वाहा। स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।।
हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलैः श्रीमज्जिनंद्रान्यजे।। (अघ्र्य चढ़ावें) ॐ ह्रीं अर्हद्भ्यः अघ्र्यं………..।
पूर्वदलाभ्यंतरे (पूर्वदल में सिद्ध पूजा) (ॐ) बाह्याभ्यंतरहेतुजातसुदृशः, पूर्वश्रुतैरादिमा-च्छुक्लध्यानयुगाद्विजित्य दुरितं, लब्ध्वा सयोगिश्रियम्। प्राप्यायोगिपदं परेण सकलं, नि£जत्य कर्मोत्करम्-शुक्लध्यानयुगेन सिद्धसुगुणान्सिद्धान्समाराधये।।2।।
गद्य-ॐ ह्रीं निरवशेषावरणविश्लेषाविष्कृतचरमानंतानंतनिर्भासजाज्वलत्त्रिकालविषयलोकालोकव£तसर्वद्रव्यपर्यायक्रम- करणव्यवधानातिक्रमसाक्षात्करणदक्षाक्षूणकेवलाख्यपरंज्योतिः प्रमुखस्वाभाविकानंतगुणविशेषविभूषितानाम्। अशेषभोग्यद्रव्यद्रव्य- कर्मनिरपेक्षस्वात्मोपादानमात्रसंजातातिशयसकलात्मप्रदेशनित्यव्यापकस्य सर्वदा सर्वबाधावृद्धिक्षयप्रतीक्षदुःखोदयमानोपमानपरित्यक्तस्य। सकलचक्रिकुरुभवार्यफणींद्रसुरेंद्राहमिंद्रत्रिकालसंभवसुखानंतगुणितक्षणपर्यायस्य।
सम्यक्सकलशास्त्रविदृष्टांतसाधितसंसारनाटकावलोकन- संभावितसर्वकालशाश्वतपरमोत्कृष्टसुखस्यैकनिवासानाम्। नैगमनयातिरूढतपोनयसंयमचारित्रज्ञानदर्शनसिद्धप्रसिद्धव्यवहाराणाम्। सकललोकैकमंगलोत्तमशरणभूतानाम्। सप्ततिसमेतशतकर्मभूमिभूतभवद्भव्यानाम्। भगवत्सिद्धपरमेष्ठिनामष्टतयोमिष्टिं करोमि स्वाहा। स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।।
हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलैः, श्रीसिद्धनाथान् यजे।।(अघ्र्य चढ़ावें) दक्षिणदलाभ्यंतरे (दक्षिण दल में आचार्यपूजा) कुमततिमिरसूर्यान्सारगांभीर्यधैर्यान्। परहितनिजकार्यान्पंचभेदोद्धचर्यान्। विनयनविधिवीर्यान् पूजयामो धृतार्यान्। मुनिजनपरिवार्यान् श्रीमदाचार्यवर्यान्।।3।।
गद्य-ॐ ह्रीं निजनिरतिशयतपश्चरणप्रभावोपलब्धबुद्धिऋद्धिप्रकृष्टश्रुतज्ञानावरणवीर्यांतरायक्षयोपशमद्वाराविर्भूतसकल- श्रुतज्ञानस्वपरपक्षदक्षमलक्षणगुणांतरादानोपस्कारदूरापास्तसमस्तविनेयसंशयविपर्ययावसानव्यवसानदुस्तरतमः स्तोमानाम्। संयतजन- मनश्चमत्कारकरणप्रवीणाचारवत्वाद्यष्टकाचेलक्यादिदशकतपोद्विषट्कावश्यकषट्कलक्षणानन्यसाधारणषट्त्रिंशद्गुणरत्नरत्नाकराणाम्। शुद्धचिदात्मस्वरूपनिजात्मनिवकल्पसमाधिजनितसारसुखास्वादनलंपटानामपिपरहितापादनैकतानमानसानाम्। निःश्रेयसामोघ- निबंधनज्ञानदर्शनचारित्रतपोवीर्याचारानंतचतुष्टयलाभाय स्वयमाचरतामपि परानाचारयताम्।
सकललोकैकमंगललोकोत्तमशरणभूतानाम्। सप्ततिसमेतशतकर्मभूमिभूतभवद्भव्यानां भगवदाचार्यपरमेष्ठिनामष्टतयीमीष्टिं करोमि स्वाहा। स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।। हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलैः, श्री धर्मसूरीन्यजे।। (अघ्र्य चढ़ावंे) पश्चिमदलाभ्यंतरे (पश्चिम दल में उपाध्याय पूजा) दुःखावर्तसहदुस्तरमहा-संसारघोरांबुधि-क्षिप्र्रप्रोत्तरणाथसार्थजिनवाक्यामोघपोतप्रदान्। नित्यानंदनिवासनिश्चलचिदात्मात्मानिशाभ्यासतः-सोभ्यासीभवदक्षयामृतपदान्, श्रीपाठकार्यान्यजे।।4।।
गद्य-ॐ ह्रीं अनादिविद्याविलासदुस्तरतमः पटलपटावगुंठितजगदू£जतज्योतीरूपजगदेकसाराचाराद्यंग सामायिकाद्युपांगसंगताप्त- संतानप्रवृत्तप्रमाणभूतभूतदयैकतानादिप्रपंचप्रवचनपारावारपारंगतानाम्। अक्षयात्यक्षमोक्षसुखैकसाधकतमांतरंगतपः सनाथीकृतपरा- काष्ठाधिष्ठितानेकविधबहिरंगतपस्तप्यमानानाम्। दृष्टेष्टविरोधादिदोषास्पृष्टप्रसादमाधुर्यादिगुणाश्लिष्ट विशिष्टातितुष्टिप्रदसूक्तिसुनय- प्रमाणात्मकयुक्तियुक्ताक्षेपणीप्रभृति चतुर्विधधर्मोपदेशामृतवृष्टि सन्तर्पित भव्यसस्यानाम्।
शुद्धोपयोगानुविद्धध्यानाधीन शुद्धबुद्ध- स्वभावानुभूतिसमुद्भूतशुद्धसुखाब्धि विवक्षणामपि मुमुक्षुजनमोक्षमार्गोपदेशकरणबद्धकक्षाणाम्। सकललोकैक मंगललोकोत्तमशरणभूतानाम्। सप्ततिसमेतसप्तकर्मभूमि भूतभवद्भव्यानां भगवदुपाध्यायपरमेष्ठिनामष्टतयीमिष्टिं करोमि स्वाहा। स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।। हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलैः, श्रीपाठकेन्द्रान्यजे।।(अघ्र्य चढ़ावे) उत्तरदिग्दले च (उत्तरदिशा के दल में सर्वसाधु पूजा) त्यक्त्वा संगमशेषमक्षयपदोत्कंठास्तपो दुष्करम्। कुर्वन्तः प्रतिसंहृतेन्द्रियमरुत्स्वान्ताः स्फुरच्चेतनाः।। ध्यानं धम्र्यमथापि शुक्लमपि ये, कुर्वन्ति सर्वद्र्धयः। सर्वाच्र्यानिह सर्वसंयमगुणाँस्तान् सर्वसाधून्यजे।।5।।
गद्य-ॐ ह्रीं सर्वज्ञवीतरागप्रकाशितानादिप्रवचनÐदयान्तस्तत्वैकलोलीभावनिर्वर्तितनिर्विकल्पशुद्धस्वात्मसंवेदनरूपसमिद्ध- ध्यानैकतानमानसानाम्।। इतरयतिदुरासदातितिविस्मयकराचिन्त्यप्रभावसप्तद्र्धिसमुत्पादनपवित्रतरचारित्राणाम्। परमोत्तमधर्मध्यानप्रथम- शुक्लध्यानान्यतरशुद्धध्यानसामथ्र्यसंपद्यमानागण्यपुण्यास्रवसहचरसकलपापकर्म संवरनिर्जराप्रबन्धानाम्। निजान्तःप्रतिफलितसमस्तवस्तु- विस्तारविपुलकेवलज्ञानोदयोपघातघातिसंघातघातनसमर्थसहजचैतन्यशक्तिव्यंजकात्मदेहादिभेदज्ञानसंततिप्रवृत्तिप्रवृद्धध्यानोद्दीपितनिजानन्द- रसास्वादक्षणावधीरितमोक्षाभिलाषाणाम्। सकललोकैकमंगललोकोत्तमशरणभूतानाम्। सप्ततिसमेतशतकर्मभूमिभूतभवद्भव्यानाम् भगवत्साधुपरमेष्ठिनामष्टतयीमिष्टिं करोमि स्वाहा।
स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।। हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलैः, श्रीसर्वसाधून्यजे।।(अघ्र्य चढ़ावें) आग्नेयदलाभ्यन्तरे च (आग्नेय विदिशा के दल में जिनधर्मपूजा) संसारोग्रमहाटवीस्फुटमरुत्संवृद्धदावानलं। संपूर्णामरवृत्तधीरुचिमयं, लोकत्रयी दुर्लभम्।। लभ्यं नूनमयोगिकेवलगुण-स्थानांतिमैकक्षणे। साक्षान्मोक्षनिबंधनं निरुपमं धर्मं समभ्यर्चये।।6।।
गद्य-ॐ दर्शनमोहज्ञानावरणवीर्यान्तरायचारित्र मोहप्रमुख प्रतिबंधोपशमादिसंजातोपशमादि स्वरूप प्रादेश सम्यग्दर्शन ज्ञानचारित्र भेद रूपस्य। तद्भेद भावना विशेष प्रबन्ध प्रादुर्भावित प्रादेशिका भेदरूपसमिद्ध धम्र्यशुक्ल ध्यानबलेन तदभेद रूपमात्म प्रदेश व्यापकं विधाय कृतकृत्यतया निवृत्त व्यापारस्य। निरवशेषकर्म संघात निर्मूल क्षपणादुष्करकर्म कर्मठस्य। समस्त पुरुषार्थ पराकाष्ठाधिष्ठित निःश्रेयसाद्युदय परंपरानिबंधनस्य। मंगल लोकोत्तमशरणभूतस्य केवलिप्रज्ञप्त धर्मस्याष्टतयीमिष्टिं करोमि स्वाहा।
स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।। हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलैः, श्रीजैनधर्मं यजे।। (अघ्र्य चढ़ावे) नैऋत्यदिग्दलाभ्यन्तरे च (नैऋत्य विदिशा के दल में जिनागम पूजा) अपौरुषेयानखिलानदोषा-नशेषविद्भिर्विहितप्रकाशान्। प्रकाशितार्थान्प्रयजे प्रमाणं, प्रवेदयद्वादशदिव्यवेदान्।।7।।
गद्य-ॐ निखिलजगदेकसार निरतिशय परमगंभीराणाम्, अमोघस्यात्कार लांछितत्वेन परा प्रधृष्याणामपि पर प्रघर्षकाणाम्। स्थानत्रयाविसंवादित्वेन प्रमाणभूतानामखिलबाधाजाललंघनजंघालानाम्। अनादिपरंपरायातत्वेन अपौरुषेयाणाम्। मंगलपूर्ववस्तु प्रभृतिभेद भेदोपलक्षितानाम्। प्रमाण नयनिक्षेप निर्देशादिसदसदादिजीवस्थानगुणस्थानमार्गणा स्थानाधिगमोपाय प्रज्ञापित षड्द्रव्यपंचास्तिकाय सप्त तत्त्वनवपदार्थानाम्।
सकलवर्णाश्रमाचार व्यवहार प्रायश्चित्तादि विधि प्रतिपादका नामपरस्पर व्याहत वाक्यार्थानाम्। नित्यमहादिवि- विधयज्ञकर्मनिवेदकानाम्। अखिलभूतदयैकतानानामभ्युदयफलावसानानाम्। ब्रह्मलोकाविच्छिन्नसंप्रदायानाम्। इहपरापरपरमेष्ठि- संतानप्रकाशितानाम्। अतिविततमिथ्यांधकारवृतलोकैकज्योतीरूपाणाम्। राजषदेवषपरमषब्रह्म£षभिर्वाचनाप्रच्छनादिभिरुपासितानाम्। भूतं भवंतं भविष्यंतं सूक्ष्मं व्यवहितं विप्रकृष्टमेवंजातीयकमर्थमशेषमावेदयतामन्वर्थवे दव्यपदेशानाम्।
आचारसूत्रकृतस्थानसमवायव्याख्याप्रज्ञप्ति- ज्ञातृकथोपासकाध्ययनांतकृद्दशौपपादिक दशप्रश्नव्याकरणविपाकसूत्रदृष्टिवादाख्यद्वादशानाम्। मंगललोकोत्तमशरण भूतानामष्टतयीमिष्टिं करोमि स्वाहा। स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।। हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलैः, श्रीजैनवाक्यं यजे।। (अघ्र्य चढ़ावें) वायव्यदिग्दले च (वायव्य विदिशा के दल में जिनचैत्य पूजा) कोट्योर्हत्प्रतिमाशतानि नवतिः, पंचोत्तरा विंशतिः। पंचाशत्त्रियुता जगत्सु गुणिता, लक्षा सहणि तु।। सप्ताग्राणि च विंशतिर्नवशतीद्यूनं शतार्धं मता, स्ता नित्या पुरुतुंगपूर्वमुखसत्पर्यंकबंधान्यजे।।8।।
गद्य-ॐ सर्वज्ञवीतरागपरमाप्तपदप्रतिष्ठाधिष्ठितभगवदर्हद्भट्टारकस्थापनान्यासनिवासतापुण्यगुणप्रायप्रचोदितत्रिजगज्जन- विधीयमानपूजातिशयास्पदानाम्। नागयक्षामरद्वात्रिंशन्मिथुनकरकलितचतुषष्टिचामराद्यष्टप्रातिहार्यविशिष्टानाम्। विनीलकुंतलकुलिशदशन- प्रवालाधरपल्लवोपमानकरचरणतलसमुल्लसितानाम्। श्रीमच्छुतदेवीसर्वाण्हसनत्कुमारयक्षप्रतिमोपलक्षितपीठोपकंठानाम्। प्रत्येकाष्ट- शतभृंगारादिमंगलद्रव्याष्टकगर्भगर्भावासमध्यमध्यासीनानाम्।
वदंतीनामिव पश्यंतीनामिव हसंतीनामिव निजासेचनरूपातिशयेन सकलजनमनश्चमत्कारमातन्वतीनाम्। आसन्नभव्यताद्यंतरंगसाधनसंपन्नभव्यजनसम्यक्त्वोत्पत्तिबहिरंगनिमित्तमहिमानमापादयन्तीनाम्। अलब्घशुद्धोपयोगिनामर्चानिर्मापण स्थापनार्चनापराणाम्। पुण्यापुण्याòवसंवरतत्साधकवृद्धिक्षयसाक्षात्फलचतुष्टयमापादयंतीनाम्। मंगललोकोत्तमशरणभूतानामर्हद्भट्टारक प्रतिमानामष्टतयीमिष्टिं करोमि स्वाहा। स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।। हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलैः, श्रीजैनबिंबान्यजे।। (अघ्र्य चढ़ावें) ऐशान्यांतरदिग्दले च (ऐशान्य विदिशा के दल में जिनचैत्यालय पूजा) भवनजवनजानां ज्योतिषां कल्पजानां, मणिमयनिलयस्था येहमिंद्रालयस्थाः। बहुविभवयुता ये ये च मध्ये त्रिलोके। जिनपतिनिलयास्ताँस्ताँश्च सर्वान्महामि।।9।।
गद्य- ॐ रजतमहारजतेंद्रनीलमरकतमाणिक्यमयमहामानभासुरभित्तिस्तंभशालिशिखरमंडपमहामानस्तंभाद्यंगोपांगसंगताकीर्ण- पंचवर्णप्रभाजालप्रभाविहितविचित्रांबरविलासांबराणाम्। संततानादिसंसिद्धहटद्धाटकीयधूपघटपेटकास्य निर्यद्विश्वतोविसपधूम- लेखाजालबहलपरिमलप्रकरसुरभी कृतसकलदिङ्मुखानाम्। वंदारुसुरासुरवृंदारकजयजयारावसुरनर्तकीकरकंकणझंकारद्विगुणीकृतानादिघटित- घंटाजालझणझणध्वानबधिरी कृतनिखिलदिङ्मंडलानाम्। तमः समूलसमुत्पाटनपटुतरावलोपलिप्सागतगभस्तिमालिमंडलायमानहटद्घाटकीय- घटितपेटकोपघटितचित्तचमत्काराणाम्। चकचकायमाननानाविधोपकरणनिचितनीलतलनिजतज्योतिर्गणांकितगगनांगणानाम्। समुत्तुंग- सुवर्णभित्तिभागालंबमानमणिमालामुषितमेरु गिरिपाश्र्वशोभातिशयानाम्।
विचित्रनिर्माणवदनाभिषेकनर्तनसंगीतावलोकनादि- मंडपाभिमंडितचैत्यमहीमहितानाम्। कंुजराराति कुंजरादि दशविधध्वजराजीसभाजिताद्यद्वितीयशालान्तरध्वजधराविराजितानाम्। चतु£दग्गताशोकसप्तच्छदचंपकाम्रचतुर्वर्णांचिततृतीयबहिः शालांतरगतवनावनिविनूतानाम्।
चतुर्वीथीपर्यंतगतमहामानस्तंभाहित- प्रतितीर्थजनमानस्तंभानाम्। सहजसकलपरिष्कराणामकृत्रिमाणामहार्यविविधालंकाराणामपि कृत्रिमाणां। मंगललोकोत्तमशरणभूतानां भगवज्जिनचैत्यालयानामष्टतयीमिष्टिं करोमि स्वाहा। स्वच्छैस्तीर्थजलैरतुच्छसहज-प्रोद्गंधिगंधैः सितैः । सूक्ष्मत्वायतिशालिशालिसदकै-र्गंधोद्गमैरुद्गमैः।। हव्यैर्नव्यरसैः प्रदीपितशुभै-र्दीपैर्विपद्धूपकैः। धूपैरिष्टफलावहैर्बहुफलै-श्चैत्यालयान्संयजे।। (अघ्र्य चढ़ावें)
ये सांसिद्धिकदिव्यभूषणलसद्-दिव्यांगदीप्त्युज्ज्वला। ये शिष्टाष्टगुणाश्च येऽवधिमिता, बोधं भवप्रत्ययम्। ये नंदादितिथिप्रवर्तनविधौ, दक्षाश्च यक्षादयः। तानेता॰जनयज्ञविघ्नविहतौ, न्यक्षेण यक्ष्ये क्षमान्।।1।।
ॐ धर्माधर्मानुभोगपरिच्छिन्नपर्यंतासंख्यातप्रदेशलोकाकाशप्रतिप्रदेशैकैकव्यवस्थितरत्नराशिसंकाशवर्तनालक्षणकालाणुमुख्य- कालबलोपबृंहितक्रियारूपक्रियाविशेषपरिच्छिद्यमानसमयादिस्वरूपव्यवहारकालप्रभेदपंचदशतिथिस्वाम्यतन्निबंधनजयापजयला- भालाभादिसकललोकयात्राप्रवर्तनदक्षपक्षादितिथिदेवतानाम्। सकलसंपत्संपादकदयामय महायागप्रत्यूहव्यूहातिक्रमार्थमावाहनादिपुरः सरसपर्याक्रमं यथाक्रममुपक्रमामहे।
ॐ ह्रीं यक्ष-वैश्वानर-राक्षस-नधृत-पन्नग-असुर-सुकुमार-पितृ-विश्वमालि-चमर-वैरोचन-महाविद्य-मार- विश्वेश्वर-पिंडाशिनामधेयाः तिथिदेवाः सर्वेऽप्यायात सर्वेऽप्यायात यानायुधयुवतिजनैः सार्धं। ॐ भूर्भुवः स्वः स्वाहा। इमं सार्घं चरुममृतमिव स्वस्तिकं यज्ञभागं गृण्हीत गृण्हीत स्वाहा। अथ द्वितीयमंडलाभ्यंतरे (द्वितीय मंडल के अंदर अघ्र्य) रक्तार्कं धवलेंदुमारमरुणं, पीतं ससौम्यं गुरुम्। शुक्रं शुक्लमलिप्रभं शनिमहिं, केतुं सुवर्णार्चनैः। पुंजेषूचितमंडलोपरिकृतेष्वास्थाप्य मूलान्वितम्। दर्भं संस्कृतमत्र साधु धिनुयां, तत्तत्सवर्णार्चनैः।।2।।
गद्य-ॐ महीतलोपरिष्टादष्टशताशीत्युत्तराष्टशतत्रिद्वादशषण्णवत्यूननवशतनवशतिप्रमाणयोजनातिक्रान्ताकाशप्रदेशसंचाराणां। एकषष्टिभागीकृतप्रमाणयोजनाष्टचत्वारिंशद्भागषट्पंशाशद्भागक्रोशार्धार्धक्रोशकिंचिन्न्यूनक्रोशक्रोशतदर्धोपारविस्ताराणां। प्रत्येकं चतुःसहसंख्यतत्संख्यद्विद्विसप्रमाणपूर्वादिदिग्गतसिंहसिंधुरमहोक्षजटिलाश्वाकाराभियोग्यामरनीयमानानिलप्रतिष्ठितविमाना- नधितिष्ठताम्। संवत्सरसहतच्छतसहधिकपल्यपल्यार्धार्धपल्यपल्यशतवत्सराधिकपल्यपल्यार्धार्धमानोत्कृष्टायुषाम्।
तापसकापालिक- बौद्धऋषिब्रह्मचारिपरिव्राट्पाशुपतश्रमणमुनिपूजाप्रसादवरदानाम्। आदित्यसोमांगारबुधबृहस्पतिशुक्रशनैश्चराणाम्। अरिष्टच्छायाविष्ट- किंचिन्न्यूनयोजनविस्तारविमानाधिष्ठिततद्ध्वजाग्रत्यक्तचतुरंगुलचंद्रार्कविमानषट्षण्मासांताच्छादकराहुकेतुसहितानाम्। नागभूतयक्षर्तुकृत- देहातधनहानिस्थानच्युतिरसादिवैषम्योपशांतिकरपूजाविशेषसानुग्रहनवग्रहाणाम्। सकल संपत्संपादकदयामयमहायागप्रत्यूह- व्यूहातिक्रमार्थमावाहनादिपुरःसरसपर्याक्रमं यथाक्रममुपक्रमामहे।
ॐ ह्रीं आदित्यसोमांगारक-बुध-गुरु-शुक्र-शनि-राहु-केतुनामनवगृहदेवाः सर्वेऽप्यायात सर्वेऽप्यायात याना- युधयुवतिजनैः सार्धं। ॐ भूर्भुवः स्वः स्वाहा। इमं सार्घं चरुममृतमिव स्वस्तिकं यज्ञभागं गृण्हीत गृण्हीत। इत्थं सारसपर्ययाद्य महिता, यूयं प्रसन्नाः स्त नः। सांगास्ताद्विकलापि मोहमुखतो, युष्मत्प्रसादादियम्। सर्वज्ञाध्वरविघ्नमाघ्नत दृतं, सूर्यादिसर्वे ग्रहाः। पूर्णांगान्विधिपू£तपूर्णफलदां, पूर्णाहुतिं वोर्पये।। पूर्णार्घः।। तृतीयमंडलाभ्यंतरे (तीसरे मंडल के अभ्यंतर में अघ्र्य) यक्षान्यजामो जिनमार्गरक्षा-दक्षान्सदा भव्यजनैकपक्षान्। निर्दग्धनिःशेषविपक्षकक्षान्-प्रत्यक्षमत्यक्षसुखे विलक्षान्।।3।।
गद्य- ॐ कनककलधौतांजनालिघनाभश्यामश्वेतावदातधवलपांडुरपालाशलोहितप्रवालाभकालानिलासितचित्रसितारुण- कृष्णश्याममुद्गप्रभाणाम्। वृषभकरिशिखावलदंतावलवैनतेयमृगमृगेंद्रकमठकंजाक्षसितपक्षमयूरमकरमत्स्यपोत्रिपतत्रिशंखकुंजर- वृषवृषभपुष्पककच्छपानेकपसमारूढानाम्। भगवदादिब्रह्मादितीर्थंकरापसव्यपाश्र्वविहितविन्यासानाम्। अव्युत्पन्नतावच्छिन्नसम्यक्त्व- सनाथजिनभक्तजनैः शश्वदैहिकफलोपलिप्सया समुपास्यमानानाम्। स्वर्गापवर्गनिसर्गमार्गजिनमार्गप्रतिकूलानुकूलजननिग्रहानुग्रहसमग्र- विधानदक्षप्रतीक्ष्यगोमुखादिचतु²वशतियक्षाणाम्। सकलसंपत्संपादकदयामयमहायागप्रत्यूहव्यूहातिक्रमार्थमावाहनादिपुरःसरसपर्याक्रमं यथाक्रममुपक्रमामहे।
ॐ ह्रीं गोमुख-महायक्ष-त्रिमुख-यक्षेश्वर-तुंबुर-पुष्प-मातंग-श्याम-अजित-ब्रह्म-ईश्वर-कुमार-षण्मुख-पाताल- किन्नर-गरुड़-गंधर्व-खेन्द्रकुबेर-वरुण-भृकुटि-सर्वाण्ह-धरणेन्द्र-मातंगयक्षाः सर्वेऽप्यायात सर्वेऽप्यायात यानायुधयुवतिजनैः सार्धं। ॐ भूर्भुवः स्वः स्वाहा। इमं सार्घं चरुममृतमिव स्वस्तिकं यज्ञभागं गृण्हीत गृण्हीत। इत्थं सारसपर्ययाद्य महिता यूयं प्रसन्नाः स्त नः, सांगास्ताद्विकलापि मोहमुखतो युष्मत्प्रसादादियम्। सर्वज्ञाध्वर विघ्नमाघ्नत द्रुतं सर्वेऽपि यक्षेश्वराः, पूर्णांगां विधिपूर्तिपूर्णफलदां, पूर्णाहुतिं वोऽर्पये।। चतुर्थमंडलाभ्यंतरे (चतुर्थ मंडल के अभ्यंतर में अघ्र्य) यक्षीः सपक्षीकृतभव्यलोका, लोकाधिकैश्वर्यनिवासभूताः। भूतानुकंपादिगुणानुमोदा, मोदांचिताः पूजनया धिनोमि।।4।।
गद्य- ॐ जातरूपजांबूनदरजतमहारजतकनककार्तस्वरकुंदेंदुकांतिकालपालाशगांगेयगरुत्मताश्मगर्भभर्मप्रवालहेमहिरण्यहाटक- हरिन्मणितपनीयछायहरितहरित्पद्मरागेंद्रनीलप्रभाणाम्। महोत्पललोहासनशकुंतसितपक्षकरितुरगसौरभेयसैरिभकूर्मकोल- कुरंगकेसरिकुक्कुटाहिमानसावासवाहनानाम् वृषभादिभगवदर्हद्भट्टारकसव्यभागाविहितनिवेशनानाम्।
तत्तदर्हत्पूजापूर्वकस्वस्वपूजाविधि- विधायिनामखिलसमीहितसंपादनोत्तालानाम्। यजमानयाजकजनपदजनेश्वरविघ्नपरिहारद्वारेण सर्वज्ञयज्ञसहकारितामाचरंतीनाम्। परमगंभीरामोघस्यात्कारलांछनजिनशासनविद्वेषिविशसनव्याजृंभमाण प्रभावचक्रचक्रेश्वरीप्रभृतिशासनदेवतानाम्। सकलसंपत्संपादक। ॐ ह्रीं चक्रेश्वरीप्रभृति यक्ष्यः सर्वा अप्यायात अप्यायात ॐ भूर्भुवः स्वः स्वाहा। इमं सार्घं चरुममृतमिव स्वस्तिकं यज्ञभागं गृण्हीत गृण्हीत। इत्थं सारपर्यया.।। देव्यश्च यक्ष्योऽखिलाः।। पंचमंडलाभ्यंतरे (पांचवें मंडल के अभ्यंतर में अघ्र्य) श्रीमत्सर्वजनीनजैनसवन-प्रत्यूहविध्वंसन- प्रोद्भूताप्रतिमप्रभावविहित-प्रख्यातिपूजांचितान्। स्वस्वातुच्छपरिच्छदान्दशदिशा-मन्याप्रधृष्यामितान्। दिक्पाला॰जगदेकपालकजिना-धीशाध्वरे व्याव्हये।।5।।
गद्य-ॐ विमलकलधौतखचितमणिमयोचिताभरणभूषितैरावतच्छागरक्ताक्षकरिमकरतुरंगपुष्पकपुष्टांगशाक्कराकारवाहना- रूढानाम्। नितांतचारुचामीकरातिबालभास्करांजनपुंजतमःस्तोमसुधाकरसुवर्णस्वर्णशशांकसंकाशशरीरप्रभाभिरामाणाम्। कुलिशजाज्वलज्ज्वाला- जालप्रचंडदंडमुद्गराहिपाशपादपशक्तित्रिशूलाप्रतिहतप्रभावप्रहरणानाम्। कमनीयकामिनीकुलललामभूतशचीस्वाहा-छाया- नैऋती-वरुणानी-वायुवेगी-धनदेवी-पार्वती-नाम-महादेवीमुखांबुजदत्तद्दष्टीनाम्।
पाकशासनपावक-कृतांत-कौणप-पाशपाणि-पवन पार्वतीशसख-पार्वतीप्रियाभिधानानाम्। लोकापालानां कूर्मगतसितांगसांकुशपद्मावतीप्रिय फणीश्वरकंठीरवारूढपांडुरतनुकुंतकररोहिणी जीवितेश्वरसहितानाम्। सकलसंपत्संपादक0।। ॐ ह्रीं इंद्राग्नि प्रभृतिदिक्पालदेवाः सर्वेऽप्यायात सर्वेऽप्यायात। यानायुधयुवतिजनैः सार्धं। ॐ भूर्भुवः स्वः स्वाहा। इमं सार्घं चरुममृतमिव स्वस्तिकं यज्ञभागं गृण्हीत गृण्हीत।। इत्थं सारसपर्यया सर्वेऽपि यक्षेश्वराः। चतुद्र्वाराभ्यंतरे च द्वे रक्षसी द्वावसुरावही द्वौ। द्वौ वैनतेयाविति साष्टसंख्याः। दौवारिकानिष्टबलिप्रदानात्, पूर्वादिदिग्द्वारगतान्धिनोमि।।
ॐ सर्वाभीष्टफलदविशिष्टेष्टजिनेष्टियष्ट्रयाजकराष्ट्र चतुःसंघविघ्नविघातनाखंडितचंडिमाडंबरकोदण्डधरदंडायमान- दंडकुंडलितपाशप्रचंडगदामंडितभुजादंडपूजामंडलपूर्वादिद्वारपालनप्रयुक्तद्वारपालकानाम्। सकलसंपत्सम्पादक। ॐ ह्रीं रक्षोसुराहिगरुडान्वयोद्भवद्विद्विसंख्याष्टद्वारपालकाः सर्वेऽप्यायात सर्वेऽप्यायात इदमघ्र्यं गृण्हीत गृण्हीत।। इत्थं सार0।। सर्वे प्रतीहारकाः।। वोर्पये।। पूर्णाघ्र्यः।। स्तुतिः दिग्विन्यस्तक्षिबीजाक्षरलिखितलकारं ठकारावृतांगम्। द्विर्धात्रीमंडलांत£नहितमुपहितब्रह्मलींकारकोष्ठम्। ग्लौं क्ष्मं ठं वेष्टितांतं क्षितितलमहितं ध्यायति प्रत्यहं यो। देवं ह्म्ल्व्र्यूंकाररूपं रिपुकुलमखिलं तस्य संस्तंभमेति।।1।।
ऊध्र्वाधः पाशदत्तांकुशमितरदिशा योजितं क्लीं सुबीजं। जंभामोहात्तकोष्ठज्वलनपुरपुटाग्रांतरों ब्लूंसमेतम्। ओं ब्लें धात्रे वषड्वेष्टितमवनिपुरांतर्गतं देव यस्त्वाम्।। ह्रीं कारं ध्यायतीद्धद्युतिमखिलजगद्वश्यतां तस्य याति।।2।।
भक्तिपाठ विधि पूर्वकथित विधि से चैत्यभक्ति (पृष्ठ 34), पंचगुरुभक्ति (पृष्ठ 35), शांतिभक्ति (पृष्ठ 35) पढं। आवेद्यासनतः क्रियाप्रणमनं, पश्चाद्विधेया स्थितिः। $यावर्तैकशिरोनतिः प्रथमतः, साम्यं तदन्तेपि च। कायोत्सर्गविधिर्नतिस्तवनमा-योज्यं च तत्साम्यवत्। कार्याभक्तिरभीप्सिता व्यवसिता-वालोचनाप्यासनात्।।3।।
इति लक्षणतः कार्या महाभिषवणक्रिया। याजकैश्चैत्यसत्पंचगुरुशांतीशभक्तितः।। ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: असि आ उसा नवदेवताः स्वस्थानं गच्छत गच्छत जः जः जः। इति विसर्जनम्। ॐ ह्रां ह्रीं ह्रूं ह्रौं ह्र: असि आ उसा अष्टाशीतिपरिवारदेवाः स्वस्थानं गच्छत गच्छत जः जः जः। इति यंत्रदेवताविसर्जनम्। तदन्ते चार्चनावेरं स्वस्थाने विनिवेशयेत्। इसके बाद प्रतिमाजी मूलवेदी में विराजमान कर देवें। द्वारपालबलिः शिलामध्येऽथ नासाया, मध्ये सव्येतराग्रयोः। शिलाया अपि षड्द्वार-देवताभ्यो बलिं ददे।।4।।
ॐ ह्रीं क्रों प्रशस्तवर्ण सर्वलक्षण सम्पूर्णस्वायुधवाहनवधूचिन्हसपरिवाराः हे क्षेत्रपालाः श्रेयोगंधर्वाः किन्नराः प्रेता भूताः सर्वेऽपि भूर्भुवः स्वः स्वाहा। इमं साघ्र्यं चरुममृतमिव स्वस्तिकं यज्ञभागं गृण्हीत गृण्हीत। ।। इति द्वारपालबलिः।। दिक्पालबलिः मध्येगृहं विधातारं, अर्चयेत्सलिलादिभिः। अष्टौ दिक्पालकान्दिक्षु, बलिपीठेऽपदाभरान्।।5।।
ॐ ह्रीं यानायुधयुवतिजनसहितब्रह्मन् ¬ भूर्भुवः स्वः इमं साघ्र्यं गृहाण गृहाण। ।। इति ब्रह्मबलिः।। ॐ ह्रीं कनकवर्ण सर्वलक्षणसंपूर्ण स्वायुधवाहनवधूचिन्हसपरिवार हे इंद्र! एहि एहि। इमं साघ्र्यं गृहाण गृहाण। ॐ ह्रीं क्रों रक्तवर्ण सर्वलक्षणसंपूर्णस्वायुधवाहनवधूचिन्हसपरिवार हे अग्ने! एहि एहि। इमं साघ्र्यं गृहाण गृहाण। ॐ ह्रीं क्रों कृष्णवर्ण सर्वलक्षणसंपूर्णस्वायुधवाहनवधूचिन्हसपरिवार हे यम! एहि एहि। इमं साघ्र्यं गृहाण गृहाण। ॐ ह्रीं क्रों श्यामवर्ण सर्वलक्षणसंपूर्णस्वायुधवाहनवधूचिन्हसपरिवार हे नैऋत्य! एहि एहि। इमं साघ्र्यं गृहाण गृहाण। ॐ ह्रीं क्रों धवलवर्ण सर्वलक्षणसंपूर्णस्वायुधवाहनवधूचिन्हसपरिवार हे वरुण! एहि एहि। इमं साघ्र्यं गृहाण गृहाण। ॐ ह्रीं क्रों कृष्णवर्ण सर्वलक्षणसंपूर्णस्वायुधवाहनवधूचिन्हसपरिवार हे पवन! एहि एहि।
इमं साघ्र्यं गृहाण गृहाण। ॐ ह्रीं क्रों पीतवर्ण सर्वलक्षणसंपूर्णस्वायुधवाहनवधूचिन्हसपरिवार हे कुबेर! एहि एहि। इमं साघ्र्यं गृहाण गृहाण। ॐ ह्रीं क्रों धवलवर्ण सर्वलक्षणसंपूर्णस्वायुधवाहनवधूचिन्हसपरिवार हे ईशान! एहि एहि। इमं साघ्र्यं गृहाण गृहाण। ।। इति दिक्पालबलिः।। ॐ ह्रीं क्रों अपदः सर्वे देवा इमं बलिं गृण्हीध्वं गृण्हीध्वं।
इत्यपददेवेभ्योे बलिं बलिपीठे दद्यात्। इत्यपददेवताबलिः। अथ श्रीबलिः
गद्य-ॐ समस्ताभ्युदयनिःश्रेयससमुद्भूतदुस्तरसुखनिस्तीरनिजानंदेत्यादिनित्यमहोक्तगद्येन पद्येन च (पृष्ठ 38) पूर्वोक्तप्रकारेण मंगिणीतालादिना श्रीबलिं दद्यात्। अथ मूलवेराग्रतः स्वेष्टप्रार्थना। जय जय जिन शाश्वत्। शांतिः शिरोधृतेत्यादिपद्यत्रये कृतस्तुतिपाठाच्छुभ- ध्यानम्। प्रक्षीणेत्यादिना जिनेश्वरविसर्जनम्। प्रमादादित्यादिना क्षमापणापूर्वकं पंचांगप्रणामः। मोहध्वांतविदारणमित्यादिना गमनापृच्छनम्। इत्थं विधत्ते जिनपुंगवस्य, महाभिषेकोत्सवसंविधिं यः। मेरौ सुरेन्द्रैश्च महाभिषेकं, प्रपद्यतेऽमुत्र स धर्मनेमिः।।6।।
इत्यर्हत्प्रतिष्ठासारसंग्रहे नेमिचंद्रदेवविरचिते प्रतिष्ठातिलकनाम्नि महाभिषेकविधिर्नाम त्रयोदशः परिच्छेदः।