येनेन्द्रान्भुवनत्रयस्य विलसत्केयूरहारांगदान्।
भास्वन्मौलिमणिप्रभाप्रविसरोत्तुङ्गोत्तमाङ्गान्नतान् ।।
स्वेषां पादपयोरुहेषु मुनयश्चव्रु प्रकामं सदा।
वंदे पंचतयं तमद्य निगदन्नाचारमभ्यर्चितम् ।।१।।
अर्थव्यंजनतद्द्वयाविकलताकालोपधाप्रश्रयाः।
स्वाचार्याद्यनपन्हवो बहुमतिश्चेत्यष्टधा व्याहृतम्।।
श्रीमज्ज्ञातिकुलेन्दुना भगवता तीर्थस्य कत्र्रांऽजसा।
ज्ञानाचारमहं त्रिधा प्रणिपताम्युद्धूतये कर्मणाम् ।।२।।
शंकादृष्टिविमोहकांक्षणविधिव्यावृत्तिसन्नद्धतां।
वात्सल्यं विचिकित्सनादुपरतिं धर्मोपबृंहक्रियाम् ।।
शक्त्या शासनदीपनं हितपथाद्भ्रष्टस्य संस्थापनम् ।
वंदे दर्शनगोचरं सुचरितं मूध्र्ना नमन्नादरात् ।।३।।
एकान्ते शयनोपवेशनकृतिः संतापनं तानवम् ।
संख्यावृत्तिनिबन्धनामनशनं विष्वाणमद्र्धोदरम् ।।
त्यागं चेन्द्रियदन्तिनो मदयतः स्वादो रसस्यानिशम्।
षोढा बाह्यमहं स्तुवे शिवगतिप्राप्त्यभ्युपायं तपः।।४।।
स्वाध्याय: शुभकर्मणश्चयुतवतः संप्रत्यवस्थापनम् ।
ध्यानं व्यापृतिरामयाविनि गुरौ वृद्धे च बाले यतौ।।
कायोत्सर्जनसत्क्रिया विनय इत्येवं तपः षड्विधं।
वंदेऽभ्यंतरमन्तरंगबलवद्विद्वेषिविध्वंसनम् ।।५।।
सम्यग्ज्ञानविलोचनस्य दधतः श्रद्धानमर्हन्मते।
वीर्यस्याविनिगूहनेन तपसि स्वस्य प्रयत्नाद्यतेः।।
या वृत्तिस्तरणीव नौरविवरा लघ्वी भवोदन्वतो।
वीर्याचारमहं तमूर्जितगुणं वंदे सतामर्चितम् ।।६।।
तिस्रः सत्तमगुप्तयस्तनुमनोभाषानिमित्तोदयाः।
पंचेर्यादिसमाश्रयाः समितयः पंचव्रतानीत्यपि।।
चारित्रोपहितं त्रयोदशतयं पूर्वं न दृष्टं परै- राचारं
परमेष्ठिनो जिनपतेर्वीरं नमामो वयम् ।।७।।
आचारं सहपंचभेदमुदितं तीर्थं परं मंगलं।
निर्ग्रन्थानपि सच्चरित्रमहतो वंदे समग्रान्यतीन् ।।
आत्माधीनसुखोदयामनुपमां लक्ष्मीमविध्वंसिनी-
मिच्छन्केवलदर्शनावगमनप्राज्यप्रकाशोज्वलाम् ।।८।।
अज्ञानाद्यदवीवृतं नियमिनोऽवर्तिष्यहं चान्यथा।
तस्मिन्नर्जितमस्यति प्रतिनवं चैनो निराकुर्वति।।
वृत्ते सप्ततयीं निधिं सुतपसामृद्धिं नयत्यद्भुतं।
तन्मिथ्या गुरु दुष्कृतं भवतु मे स्वं निंदतो निंदितम्।।९।।
संसारव्यसनाहतिप्रचलिता नित्योदयप्रार्थिनः।
प्रत्यासन्नविमुक्तयः सुुमतयः शांतैनसः प्राणिनः।।
मोक्षस्यैव कृतं विशालमतुलं सोपानमुच्चैस्तरा-
मारोहन्तु चारित्रमुत्तममिदं जैनेन्द्रमोजस्विनः।।१०।।
इच्छामि भन्ते! चारित्तभत्तिकाउस्सग्गो कओ तस्सालोचेउं सम्मण्णाणुज्जोयस्स सम्मत्ताहिट्ठिस्स सव्वपहाणस्स णिव्वाणमग्गस्स कम्मणिज्जरफलस्स खमाहारस्स पंचमहव्वयसंपुण्णस्स तिगुत्तिगुत्तस्स पंचसमिदिजुत्तस्स णाणज्झाण-साहणस्स समयाइवपवेसयस्स सम्मचारित्तस्स, णिच्चकालं अंचेमि पूजेमि वन्दामि णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।