त्रिदशपति-मुकुट-तटगत- मणिगण-करनिकर-सलिल-धारा-धौत-
क्रमकमल-युगलजिनपति-रुचिर- प्रतिबिंब-विलय-विरहित-निलयान् ।।१।।
निलया-नह-मिह महसां सहसा, प्रणिपतन-पूर्व-मवनौम्य-वनौ।
त्रय्यां त्रय्या शुद्ध्या निसर्ग-शुद्धान्-विशुद्धये घनरजसां।।२।।
भावन-सुर-भवनेषु, द्वासप्तति-शत-सहस्र-संख्या- भ्यधिकाः।
कोट्यः सप्त प्रोक्ता, भवनानां भूरितेजसां भुवनानाम्।।३।।
त्रिभुवन-भूतविभूनां, संख्यातीता-न्यसंख्य-गुणयुक्तानि।
त्रिभुवन-जननयन-मनः-प्रियाणि भवनानि भौमविबुध-नुतानि।।४।।
यावन्ति सन्ति कान्त-ज्योतिर्लोकाधि-देवताभि-नुतानि।
कल्पेऽनेक-विकल्पे, कल्पातीतेऽहमिन्द्रकल्पानल्पे।।५।।
विंशति-रथ त्रिसहिता, सहस्र-गुणिता च सप्तनवतिः प्रोक्ता।
चतु-रधिका-शीति-रतः, पंचक-शून्येन विनिहता-न्यनघानि।।६।।
अष्टापंचाश-दतश्चतुः शतानीह मानुषे क्षेत्रे।
लोकालोकविभाग-प्रलोकनालोक-संयुजां जयभाजाम्।।७।।
नवनवचतुः शतानि च, सप्त च नवतिः सहस्रगुणिताः षट् च।
पंचाशत्-पंचवियत्-प्रहताः पुनरत्र कोट्योऽष्टौ प्रोक्ताः।।८।।
एतावंत्येव सता-मकृत्रिमा-ण्यथ जिनेशिनां भवनानि।
भुवनत्रितये त्रिभुवन-सुरसमिति-समर्च्यमान-सत्प्रतिमानि।।९।।
वक्षाररुचककुंडल – रौप्यनगोत्तर – कुलेषुकार – नगेषु।
कुरुषु च जिनभवनानि, त्रिशतान्यधिकानि तानि षड्विशत्या।।१०।।
नंदीश्वर – सद्द्वीपे, नंदीश्वरजलधि – परिवृते धृतशोभे।
चंद्रकरनिकर-संनिभ-रुन्द्रयशो-वितत-दिङ्महीमंडलके।।११।।
तत्रत्यांजन-दधिमुख-रतिकर-पुरुनग-वराख्य-पर्वतमुख्याः।
प्रतिदिश-मेषा-मुपरि, त्रयोदशेन्द्रा-र्चितानि जिनभवनानि।।१२।।
आषाढकार्तिकाख्ये, फाल्गुन-मासे च शुक्लपक्षे-ष्टम्याः।
आरभ्याष्ट-दिनेषु च, सौधर्म-प्रमुख-बिवुधपतयो भक्त्या।।१३।।
तेषु महामह-मुचितं, प्रचुराक्षत-गंधपुष्प-धूपैर्दिव्यैः।
सर्वज्ञ – प्रतिमाना – मप्रतिमानां प्रकुर्वते सर्वहितम् ।।१४।।
भेदेन वर्णना का, सौधर्मः स्नपन – कर्तृता – मापन्नः।
परिचारक-भावमिताः, शेषेन्द्रा रुन्द्रचंद्र-निर्मल-यशसः।।१५।।
मंगल पात्राणि पुनस्तद्देव्यो बिभ्रति स्म शुभ्रगुणाढ्याः।
अप्सरसो नर्तक्यः, शेषसुरास्तत्र लोकना – व्यग्रधियः।।१६।।
वाचस्पति-वाचामपि, गोचरतां संव्यतीत्य यत्क्रममाणम्।
विबुधपति-विहितविभवं, मानुष-मात्रस्य कस्य शक्तिः स्तोतुम्।।१७।।
निष्ठापित-जिनपूजाश्-चूर्णस्नपनेन दृष्टविकृत-विशेषाः।
सुरपतयो नंदीश्वर-जिनभवनानि प्रदक्षिणीकृत्य पुनः।।१८।।
पंचसु मंदरगिरिषु, श्रीभद्रशाल – नंदन – सौमनसं।
पांडुकवन – मिति तेषु, प्रत्येकं जिनगृहाणि चत्वार्येव।।१९।।
तान्यथ परीत्य तानि च, नमसित्वा कृतसुपूजनास्-तत्रापि।
स्वास्पदमीयुः सर्वे, स्वास्पदमूल्यं स्वचेष्टया संगृह्य।।२०।।
सहतोरण-सद्वेदी, परीतवन-याग-वृक्ष-मानस्तंभ- ध्वजपंक्ति-
दशकगोपुर-चतुष्टय-त्रितय-शाल-मंडपवर्यैः।।२१।।
अभिषेक-प्रेक्षणिका-क्रीडनसंगीत-नाटका-लोकगृहैः।
शिल्पिविकल्पित-कल्पन-संकल्पातीतकल्पनैः समुपेतैः।।२२।।
वापीसत्-पुष्करिणी-सुदीर्घिका-द्यंबुसंसृतैः समुपेतैः।
विकसित-जलरुहकुसुमै-र्नभस्यमानैः शशिग्रहंकषैः शरदि।।२३।।
भृङ्गाराब्दक-कलशा-द्युपकरणै-रष्टशतक-परिसंख्यानैः।
प्रत्येकं चित्रगुणैः, कृतझणझण-निनद-वितत-घंटाजालैः।।२४।।
प्रभ्राजंते नित्यं, हिरण्मया – नीश्वरेशिनां भवनानि।
गंधकुटीगतमृगपति-विष्टर-रुचिराणि विविधविभवयुतानि।।२५।।
येषु जिनानां प्रतिमाः, पंचशत-शरा-सनोच्छ्रिताः सत्प्रतिमाः।
मणिकनक-रजत-विकृता-दिनकर-कोटिप्रभाधिक-प्रभदेहाः।।२६।।
तानि सदा वंदेऽहं, भानु-प्रतिमानि यानि कानि च तानि।
यशसां महसां प्रतिदिश-मतिशय-शोभाविभांजि पापविभंजि।।२७।।
सप्तत्यधिकशत-प्रियधर्मक्षेत्र-गततीर्थकर-वरवृषभान्।
भूतभविष्यत्संप्रति-कालभवान्-भवविहानये विनतोऽस्मि।।२८।।
अस्या-मवसर्पिण्यां, वृषभजिनः प्रथमतीर्थकर्ता भर्ता।
अष्टापदगिरि-मस्तक-गतस्थितो मुक्तिमाप पापान्मुक्तः।।२९।।
श्रीवासुपूज्यभगवान्, शिवासु पूजासु पूजित-स्त्रिदशानां।
चंपायां दुरितहरः, परमपदं प्रापदा-पदा-मन्तगतः।।३०।।
मुदितमतिबलमुरारि-प्रपूजितो जितकषाय रिपुरथ जातः।
बृहदूर्जयंतशिखरे, शिखामणि-स्त्रिभुवनस्य नेमिर्भगवान्।।३१।।
पावापुर-वरसरसां, मध्यगतः सिद्धिवृद्धि-तपसां महसां।
वीरो नीरद नादो, भूरिगुणश्-चारुशोभ-मास्पदमगमत्।।३२।।
सम्मदकरिवन-परिवृत-सम्मेदगिरीन्द्र-मस्तके विस्तीर्णे।
शेषा ये तीर्थकराः, कीर्तिभृतः प्रार्थितार्थसिद्धिमवापन् ।।३३।।
शेषाणां केवलिनां, अशेषमतवेदि-गणभृतां साधूनां।
गिरितल-विवर-दरी-सरि-दुरुवन-तरुविटपि-जलधि-दहनशिखासु।।३४।।
मोक्षगतिहेतुभूत-स्थानानि सुरेन्द्र-रुन्द्र-भक्तिनुतानि।
मंगलभूता-न्येता-न्यंगीकृत-धर्मकर्मणा-मस्माकम् ।।३५।।
जिनपतयस्-तत्प्रतिमास्-तदालयास्-तन्निषद्यका-स्थानानि।
ते ताश्च ते च तानि च, भवन्तु भवघातहेतवो भव्यानाम् ।।३६।।
संध्यासु तिसृसु नित्यं, पठेद्यदि स्तोत्रमेतदुत्तम-यशसाम्।
सर्वज्ञानां सार्वं, लघु लभते श्रुतधरेडितं पदममितम् ।।३७।।
नित्यं निःस्वेदत्वं, निर्मलता क्षीरगौर-रुधिरत्वं च।
स्वाद्या-कृति-संहनने, सौरुप्यं सौरभं च सौलक्ष्यम् ।।३८।।
अप्रमित-वीर्यता च, प्रियहित-वादित्व-मन्य-दमितगुणस्य।
प्रथिता दश संख्याताः, स्वतिशय-धर्माः स्वयंभुवो देहस्य।।३९।।
गव्यूतिशत-चतुष्टय-सुभिक्षता-गगन-गमन-मप्राणिवधः।
भुक्त्युपसर्गाभावश्-चतुरास्यत्वं च सर्वविद्येश्वरता।।४०।।
अच्छायत्व-मपक्ष्म-स्पंदश्च समप्रसिद्धनखकेशत्वं।
स्वतिशयगुणा भगवतो, घातिक्षयजा भवंति तेऽपि दशैव।।४१।।
सार्वार्ध-मागधीया, भाषा मैत्री च सर्वजनता-विषया।
सर्वर्तुफलस्तवक-प्रवाल-कुसुमोपशोभित-तरुपरिणामा।।४२।।
आदर्शतल-प्रतिमा, रत्नमयी जायते मही च मनोज्ञा।
विहरण-मन्वेत्यनिलः, परमानंदश्च भवति सर्वजनस्य।।४३।।
मरुतोऽपि सुरभि-गंध-व्यामिश्रा योजनांतरं भूभागं।
व्युपशमितधूलिकंटक-तृणकीटक-शर्करोपलं प्रकुर्वन्ति।।४४।।
तदनु स्तनितकुमारा, विद्युन्माला-विलास-हासविभूषाः।
प्रकिरन्ति सुरभिगंधिं, गंधोदक-वृष्टि-माज्ञया त्रिदशपतेः।।४५।।
वरपद्मरागकेसर-मतुलसुखस्पर्शहेममय-दलनिचयम्।
पादन्यासे पद्मं, सप्त पुरः पृष्ठतश्च सप्त भवंति।।४६।।
फलभारनम्रशालिब्रीह्यादि-समस्त-सस्य-धृतरोमांचा।
परिहृषितेव च भूमिस् -त्रिभुवन-नाथस्य वैभवं पश्यंती।।४७।।
शरदुदयविमल-सलिलं, सर इव गगनं विराजते विगतमलं।
जहति च दिशस्तिमिरिकां, विगतरजः प्रभृति-जिह्मताभावं सद्यः।।४८।।
एतैतेति त्वरितं, ज्योति-व्र्यंतर दिवौकसा-ममृतभुजः।
कुलिशभृदाज्ञापनया, कुर्वन्त्यन्ये समन्ततो व्याह्वानम् ।।४९।।
स्फुटदर-सहस्र-रुचिरं, विमलमहारत्न-किरण-निकरपरीतम्।
प्रहसितकिरण-सहस्र-द्युतिमंडल-मग्रगामि धर्मसुचक्रम्।।५०।।
इत्यष्टमंगलं च, स्वादर्शप्रभृति भक्ति-रागपरीतैः।
उपकल्प्यन्ते त्रिदशैरेतेऽपि निरुपमाति-विशेषाः।।५१।।
वैडूर्यरुचिरविटप-प्रवालमृदुपल्लवोप-शोभितशाखः।
श्रीमानशोकवृक्षो, वरमरकतपत्र-गहन-बहलच्छायः।।५२।।
मंदारकुंदकुवलय-नीलोत्पल-कमल-मालती-बकुलाद्यैः।
समदभ्रमर-परीतैव्र्या-मिश्रा पतति कुसुम-वृष्टिर्नभसः।।५३।।
कटक-कटि-सूत्रकुंडल-केयूर-प्रभृति-भूषितांगौ स्वंगौ।
यक्षौ कमल दलाक्षौ, परिनिक्षिपतः सलीलचामर-युगलम्।।५४।।
आकस्मिकमिव युगपद्दिवसकर-सहस्र-मपगतव्यवधानम्।
भामंडल-मविभावित-रात्रिंदिवभेद-मतितरा-माभाति।।५५।।
प्रबलपवनाभिघात-प्रक्षुभितसमुद्र-घोषमन्द्र-ध्वानम्।
दंध्वन्यते सुवीणा-वंशादि-सुवाद्यदुंदुभिस्-तालसमं।।५६।।
त्रिभुवनपतितालांछन-मिंदुत्रयतुल्य-मतुलमुक्ताजालम्।
छत्रत्रयं च सुबृहद्-वैडूर्यविक्ऌप्तदंड-मधिक-मनोज्ञम्।।५७।।
ध्वनिरपि योजनमेकं, प्रजायते श्रोत्रहृदय-हारिगंभीरः।
ससलिल-जलधर-पटल-ध्वनित-मिव प्रविततान्त-राशावलयं।।५८।।
स्फुरितांशु-रत्नदीधिति-परिविच्छुरिता मरेन्द्रचापच्छायम्।
ध्रियते मृगेन्द्रवर्यैः, स्फटिकशिला-घटितसिंह-विष्टर-मतुलम्।।५९।।
यस्येह चतुस्ंित्रशत्-प्रवरगुणाः प्रातिहार्य-लक्ष्म्यश्चाष्टौ।
तस्मै नमो भगवते, त्रिभुवन-परमेश्वरार्हते गुणमहते।।६०।।
इच्छामि भंते! णंदीसरभत्ति-काउस्सग्गो कओ तस्सालोचेउं णंदीसरदी-वम्मि, चउदिस-विदिसासु अंजण-दधिमुह-रदिकर-पुरु-णगवरेसु जाणि जिणचेइयाणि ताणि सव्वाणि तिसुवि लोएसु भवणवासिय-वाणविंतर-जोइसिय-कप्पवासियत्ति चउविहा देवा सपरिवारा दिव्वेहि गंधेहि, दिव्वेहि पुप्फेहि, दिव्वेहि धूव्वेहि, दिव्वेहि चुण्णेहि, दिव्वेहि वासेहि, दिव्वेहि ण्हाणेहि, आसाढ-कत्तिय-फागुणमासाणं अट्ठमिमाइं काऊण जाव पुण्णिमंति णिच्चकालं अंचंति, पूजंति, वंदंति, णमंसंति णंदीसर-महाकल्णाणं करंति, अहमवि इह संतो तत्थसंताइं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउं मज्झं।