सुदर्शनाद्रिं प्रणिपत्य मूध्र्ना, तत्रस्थितान् षोडशचैत्यगेहान् ।
तेषु स्थिताश्च प्रतिमा जिनानां, वंदे विशुद्ध्या शिवसौख्यसिद्ध्यै।।१।।
चतुःप्रमा: ये गजदंतशैलाः, तेषु त्रिलोकाधिपमंदिराणि।
तत्राप्तरूपाणि नमोऽस्तु तेभ्यः, स्वात्मोत्थसौख्यं मम शीघ्रमस्तु।।२।।
जिनालयाः षट्कुलपर्वतेषु, ह्यकृत्रिमाः रत्नमयाः विरेजुः।
जैनेन्द्रबिम्बानि विभांति तेषु, नमामि भूत्यै किल तानि मोदात् ।।३।।
विदेहदेशस्थितषोडशेषु, वक्षारशैलेषु जिनालयाः स्यु।
तत्र स्थितास्ताः प्रतिमाः प्रवंदे, भवाग्निशान्त्यै शिरसा त्रिसंध्यं।।४।।
ये प्राग्विदेहेषु सुपश्चिमेषु, द्विःषोडशप्राकृतिकाः सुदेशाः।
सर्वेषु मध्ये विजयार्ध-शैलाः, तत्रस्थ-जैनेन्द्रगृहाणि वंदे।।५।।
ऐरावते यौ भरतेऽपि कांतौ, रूप्याचलौ द्वौ च तयोः जिनानां।
निकेतने तत्र जिनेश्वरार्चाः, मनःप्रसत्त्यै किल ताः प्रणौमि।।६।।
जम्बूद्रुमे शाल्मलि-शाखिनि द्वौ, चैत्यालयौ तौ प्रणमामि नित्यं।
तत्रस्थचैत्यानि भवांतकानां, संस्तौमि भक्त्या भवदुःखशान्त्यै।।७।।
आर्या छंदः मेरौ षोडशशैले, गजदंते ये चतुःप्रमाः जिननिलयाः।
कुलशैले षड्मान्या, विदेहजे वक्षारगिरिषु ते षोडश।।८।।
रूप्याद्रिचतुिंस्त्रशत्, तेषु गृहाः जंबूद्रौ शाल्मलिवृक्षे।
एतान् सर्वान् मान्यान्, अष्टासप्तति-जिनालयान् प्रणमामि।।९।।
मुनिवंदितपादसरोजयुगं, सुरनायकनागनरेन्द्रनुतं।
अकृतं भुवनत्रयजैनगृहं प्रणमामि मनःशुद्ध्यै सततं।।१०।।
विविधैः शुामंगलवस्तुयुतैः, घटमंगलतोरणधूपघटैः।
शुशुभे जिनसंद्म सदानुपमं, प्रणमामि मनःशुद्ध्यै सततं।।११।।
अनुष्टुप् चतुर्विंशतितीर्थेशा, भारते वृषभादयः।
ऐरावतेऽपि ये जातास्तेभ्यो नित्यं नमोऽस्तु मे।।१२।।
सीमंधरादिचत्वारो, जिनेन्द्रास्तान् नमाम्यहं।
वर्तमानान् विदेहेषु, केवलिनो मुनयश्च तान् ।।१३।।
जम्बूद्वीपेऽत्र यावन्तो-ऽर्हद्गणभृद्-यतीश्वराः।
सिद्धाः सिद्ध्यंति सेत्स्यंति, तान् तत्क्षेत्राणि च स्तुवे।।१४।।
पंचकल्याणमेदिन्यः, सातिशयस्थलानि च।
वंदे कृताकृतांश्चापि, जिनचैत्यजिनालयान् ।।१५।।
अंतातीता जिनवरगृहा धातकी-पुष्करार्धे-।
ष्विष्वाकारे सुरुचकगिरौ मानुषांके प्रभूताः।।
पूज्या ये कुंडलगिरिवरे द्वीपनंदीश्वरे च।
तत्रस्थान् तान् प्रतिदिनमहं जैनगेहान् प्रवंदे।।१६।।
ये त्रैलोक्ये भवनभुवने व्यंतरे स्वर्गलोके।
ज्योतिर्लोके जिनवरगृहाः संति विभ्राजमानाः।।
एते सर्वे भुवनमहिताः साधुवृन्दैः सुवंद्याः।
दद्युर्मह्यं जिनसुगुुणसंपत् सदा तांश्च वंदे।।१७।।
नमोऽस्तु जिनमूर्तये सकलतापविच्छित्तये।
नमोऽस्तु जिनमूर्तये सकलदोषसंशुद्धये।।
नमोऽस्तु जिनमूर्तये सकलसौख्य-संसिद्धये।
पुनीहि जिनदेव! मां भवभयात् हि रक्षां कुरु।।१८।।
नमोऽस्तु जिनसद्मने त्रितयलोकसंपद्भृते।
नमोऽस्तु परमात्मने सकललोकचूड़ामणे।।
नमोऽस्तु जिनमूर्तये सकलदोषविच्छित्तये।
पुनीहि मम रागमोह-सहितं मनोऽज्ञानवत् ।।१९।।
जम्बूद्वीपस्तुतिर्भक्त्या, क्रियते नियतं मुदा।
भूयात् सा मेऽचिरायार्ह-ज्ज्ञानमत्यै श्रियै ध्रुवं।।२०।।
इच्छामि भंत्ते! जंबूदीवभत्ति-काउस्सग्गो कओ तस्स आलोचेउं, इमम्हि पढमे जंबूदीवम्हि मंदरसेले गजदंत-वक्खार-रूप्पकुलपव्वदेसु जंबूसालमलिरुक्खेसु दो भरहेरावएसु बत्तीसविदेहेसु चउतीसकम्मभूमीसु अज्जखंडेसु किट्टिमाकिट्टिमाणं सव्वजिणायदणाणं, तित्थयर-सामण्णकेवली-गणहर-सुदकेवली-विविधरिद्धिजुत्त-रिसि-मुणि-जइ-अणगाराणं संतत-विहरमाण-सीमंधरादि-चउजिण्ािंदाणं पंचकल्लाणभूमि-अइसयखेत्ताणं च णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।
ये भी पढें-