दुवई छंद- जातिजरोरुरोगमरणातुरशोकसहस्रदीपिताः ।
दुःसहनरकपतनसन्त्रस्तधियः प्रतिबुुद्धचेतसः।।
जीवितमंबुबिंदुचपलं तडिदभ्रसमा विभूतयः।
सकलमिदं विचिन्त्य मुनयः प्रशमाय वनान्तमाश्रिताः।।१।।
भद्रिका छंद व्रतसमितिगुप्तसंयुताः, शमसुखमाधाय मनसि वीतमोहाः।
ध्यानाध्ययनवशंगतास्र, विशुद्धये कर्मणां तपश्चरन्ति।।२।।
दिनकरकिरणनिकरसंतप्तशिलानिचयेषु निःस्पृहाः।
मलपटलावलिप्ततनवः शिथिलीकृतकर्मबंधनाः।।
व्यपगतमदनदर्परतिदोषकषायविरक्तमत्सराः।
गिरिशिखरेषु चंडकिरणाभिमुखस्थितयो दिगंबराः।।३।।
सज्ज्ञानामृतपायिभिः क्षान्तिपयः सिच्यमानपुण्यकायैः।
धृतसंतोषच्छत्रवै, तापस्तीव्रोऽपि सह्यते मुनीन्द्रैः।।४।।
शिखिगलकज्जलालिमलिनैर्विबुधाधिपचापचित्रितैः।
भीमरवैर्विसृष्टचण्डाशनिशीतलवायुवृष्टिभिः।।
गगनतलं विलोक्य जलदैः स्थगितं सहसा तपोधनाः।
पुनरपि तरुतलेषु विषमासु निशासु विशंकमासते।।५।।
जलधाराशरताडिता न चलन्ति चरित्रतः सदा नृसिंहाः।
संसारदुःखभीरवः परीषहारातिघातिनः प्रवीराः।।६।।
अविरतबहलतुहिनकणवारिभिरंघ्रिपपत्रपातनै-
रनवरतमुक्तासात्कार रवैःपरुषैरथानिलैः शोषितगात्रयष्टयः।।
इह श्रमणा धृतिकंबलावृताः शिशिरनिशां।
तुषारविषमां गमयन्ति चतुःपथे स्थिताः।।७।।
इति योगत्रयधारिण:सकलतपःशालिनःप्रवृद्धपुण्यकायाः।
परमानंदसुखैषिणः समाधिमग्रयं दिशंतु नो भदन्ताः।।८।।
क्षेपक श्लोक गिह्मे गिरिसिहरत्था वरिसायाले रुक्खमूलरयणीसु।
सिसरे वाहिरसयणा ते साहू वंदिमो णिच्चं।।९।।
गिरिकंदरदुर्गेषु, ये वसन्ति दिगम्बराः।
पाणिपात्रपुटाहारास्ते यांति परमां गतिं।।१०।।
इच्छामि भंते! योगिभत्तिकाउस्सग्गो कओ तस्सालोचेउं अढ्ढाइज्जदीव-दोसमुद्देसु पण्णारसकम्मभूमिसु आदावणरुक्खमूल-अब्भोवा-सठाणमोणवीरासणेक्कपासकुक्कुडासणचउत्थपक्ख-खवणादियोगजुत्ताणं सव्वसाहूणं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।