यः सर्वाणि चराचराणि विधिवद्-द्रव्याणि तेषां गुणान्। पर्यायानपि भूतभाविभवतः, सर्वान् सदा सर्वदा।
जानीते युगपत् प्रतिक्षणमतः, सर्वज्ञ इत्युच्यते सर्वज्ञाय जिनेश्वराय महते, वीराय तस्मै नमः।।१।।
वीरः सर्वसुरासुरेन्द्रमहितो, वीरं बुधाः संश्रिताः वीरेणाभिहतः स्वकर्मनिचयो, वीराय भक्त्या नमः।
वीरात्तीर्थमिदं प्रवृत्तमतुलं, वीरस्य वीरं तपो वीरे श्री द्युति-कान्ति-कीर्ति-धृतयो, हे वीर! भद्रं त्वयि।।२।।
ये वीरपादौ प्रणमन्ति नित्यं, ध्यानस्थिताः संयमयोगयुक्ताः।
ते वीतशोका हि भवन्ति लोके, संसारदुर्गं विषमं तरंति।।३।।
व्रतसमुदयमूलः संयमस्कन्धबन्धो, यमनियमपयोभिर्वर्धितः शीलशाखः।
समितिकलिकभारो गुप्तिगुप्तप्रवालो गुणकुसुमसुगन्धिः सत्तपश्चित्रपत्रः।।४।।
शिवसुखफलदायी यो दयाछाययोद्घः शुभजनपथिकानां खेदनोदे समर्थः।
दुरितरविजतापं प्रापयन्नन्तभावं स भवविभवहान्यै नोऽस्तु चारित्रवृक्षः।।५।।
चारित्रं सर्वजिनैश्चरितं, प्रोक्तं च सर्वशिष्येभ्यः।
प्रणमामि पंचभेदं, पंचमचारित्रलाभाय।।६।।
धर्मः सर्वसुखाकरो हितकरो, धर्मं बुधाश्चिन्वते।
धर्मेणैव समाप्यते शिवसुखं, धर्माय तस्मै नमः।
धर्मान्नास्त्यपरः सुहृद्भवभृतां, धर्मस्य मूलं दया,
धर्मे चित्तमहं दधे प्रतिदिनं, हे धर्म! मां पालय।।७।।
धम्मो मंगलमुद्दिट्ठं , अिंहसा संयमो तवो।
देवा वि तस्स पणमंति, जस्स धम्मे सया मणो।।८।।
इच्छामि भंते! पडिक्कमणादिचारमालोचेउं, सम्मणाण-सम्मदंसण-सम्मचरित्त-तव-वीरियाचारेसु जमणियम-संजम-सील-मूलुत्तरगुणेसु सव्वमईचारं सावज्जजोगं पडिविरदोमि असंखेज्जलोग-अज्झवसायठाणाणि अप्पसत्थजोगसण्णाणिंदियकसायगारवकिरियासु मणवयणकायकरणदुप्पणिहाणाणि परिचिंतियाणि किण्हणीलकाउलेस्साओ विकहापलिकुंचिएण उम्मग हस्सरदिअरदिसोय-(सोग) भयदुगंछवेयणविज्जं-भजंभाइआणि अट्ठरुद्दसंकिलेसपरिणामाणि परिणामदाणि अणिहुदकरचरणमण-वयणकायकरणेण अक्खित्तबहुलपरायणेण अपडिपुण्णेण वासरक्खरावयपरि-संघायपडिवत्तिएण वा अच्छाकारिदं मिच्छा मेलिदं आमेलिदं वा मेलिदं वा अण्णहादिण्णं अण्णहापडिच्छदं आवासएसु परिहीणदाए कदो वा कारिदो वा कीरंतो वा समणुमणिदो तस्स मिच्छा मे दुक्कडं ।