तीर्थंकर-स्नपननीर-पवित्रजातः, तुङ्गोऽस्ति यस्त्रिभुवने निखिलाद्रितोऽपि।
देवेन्द्र-दानव-नरेन्द्र-खगेन्द्रवंद्यः, तं श्री सुदर्शनगििंर सततं नमामि।।१।।
यो भद्रसालवन-नंदन-सौमनस्यैः, भातीह पांडुकवनेन च शाश्वतोऽपि।
चैत्यालयान् प्रतिवनं चतुरो विधत्ते, तं श्रीसुदर्शनगििंर सततं नमामि।।२।।
जन्माभिषेकविधये जिनबालकानाम्, वंद्याः सदा यतिवरैरपि पांडुकाद्याः।
धत्ते विदिक्षु महानीयशिलाश्चतसृः, तं श्रीसुदर्शनगििंर सततं नमामि।।३।।
योगीश्वराः प्रतिदिनं विहरन्ति यत्र, शान्त्यैषिणःसमरसैक-पिपासवश्च।
ते चारणद्र्धि-सफलं खलु कुर्वतेऽत्र, तं श्रीसुदर्शनगििंर सततं नमामि।।४।।
ये प्रीतितो गिरिवरं सततं नमन्ति, वंदन्त एव च परोक्षमपीह भक्त्या।
ते प्राप्नुवंति किल ‘ज्ञानमतिं’ श्रियं हि, तं श्री सुदर्शनगििंर सततं नमामि।।५।।
इच्छामि भंत्ते! सुदंसणमेरुभत्ति काओसग्गो कओ तस्सालोचेउं, इमम्हि मज्झलोए जंबुदीवमज्झट्ठिद-सव्वोच्चमंदरसेले भद्दसालणंदण-सोमणस-पांडुकवणेसु चउचउदिसासु सोलसजिणायदणाणं पांडुवणविदिसासु तित्थयर-ण्हवणपवित्त-पांडु-पहुदिसिलाणं
जिण-जिणघरवंदणट्ठ-विहरमाण-चारणरिद्धिजुत्तरिसीणं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।