श्रीमान् पाश्र्वो जिनेन्द्र:, परमसुखरसानन्दकंदैकपिंड:।
चिच्चैतन्यस्वभावी, भुवि सकलकले:, कुण्डदण्डप्रचण्ड:।।
भ्राजिष्णुस्त्वं सहिष्णु:, कमठशठकृतेनोपसर्गस्य जिष्णु:।
त्वां भक्त्या नौमि नित्यं, समरसिकमना, मे क्षमारत्नसिद्ध्यै।।१।।
१माधवमास्यसिते द्वितये दिवसे किल गर्भमित: प्रभु:।
पौषसुमास्यसितैकयुता दशमीदिवसे जनिमाप स:।।
जन्मतिथौ च दिशावसनो नवहस्ततनु: खलु तीर्थकृत्।
शालिनवांकुरसद्द्युतिमान् शतवर्षमितायुरवेत् स मां।।२।।
ध्याननिमग्नपाश्र्वमुनिपं, विलोक्य कमठासुर: कुपितवान्।
मूसलधारयोग्रपवनैर्भयंकरमहोपसर्गमिति स: ।।
वन्हिकणान् ववर्ष दृषद:, पिशाचपरिवेष्टितश्च कृतवान्।
मंदरशैलवद्दृढमना:, चचाल नहि योगतो जिनवर:।।३।
फणपतिरासनस्य चलनात् त्वरं, सह समाययौ वनितया।
असितमधौ चतुर्दश दिने, सुबोधरविरुद्ययौ च जिन! ते।।
गलितमदस्तदा स कमठासुरो जिनविभुंं श्रित: सदसि वै।
जिनवचनौषधं किल पपौ, समस्तभवरोगशांतकरणं।।४।।
संप्राप्नोत् शुक्लासप्तम्यां, नभसि वसुगुणमणिखचितवसुधां।
सम्मेद: शैलेन्द्रो वंद्य:, सततमपि गणिमुनिसुरखगनरै:।।
वाराणस्यां ब्राह्मी सूते, स्म विकसितकृतमुनिहृदयकमलं।
सर्पश्चिन्हो भाति त्रेधा, जिनचरणकमलमहमपि च नुवे।।५।।
विश्वसेनसुत: पाश्र्व:, त्वत्प्रसादात् क्षमाखने!।
सर्वंसहा मतिर्मे स्यात्, तावद्यावत् शिवो न हि।।६।।