योगी क्षमागुणमयो भुवनैकबंधुः। क्रोधं निहत्य निज शांतरसे निमग्नः।।
स्वात्मैकजन्यपरमामृतसंप्रतृप्तः। तं योगिनं हृदि दधे परमां क्षमां च।।१।।
भावो मृदोर्भवति मार्दवधर्म एषः। अष्टौ मदानपि निरस्य विभाति साधौ।।
वश्यं करोति भुवनं विनयैश्चतुर्धा। तं योगिनं हृदि दधे वरमार्दवं च।।२।।
मायामपास्य सरलं कुरुते त्रियोगं। एकाग्रध्यानमपि साम्यतया विधत्ते।।
मुक्तिर्भवेत् ऋजुगतेः खलु तस्य साधोः। तं योगिनं हृदि दधे परमार्जवं च।।३।।
लोभं निरस्य शुचितां हृदये दधाति। ब्रह्मव्रतैः कलिलकर्ममलं धुनोति।।
अंतर्बहिः शुचिपरो भुवि पूज्यतेऽसौ। तं योगिनं हृदि दधे शुचये च शौचम्।।४।।
सम्यक् प्रशस्तवचनं भुवनैकसारं। सौख्याकरं सकलसद्गुणरत्नराशिं।।
गृण्हाति दिव्यध्वनिहेतुमिदं मुनींद्रः। तं योगिनं हृदि दधे वरसत्यधर्मं।।५।।
संयम्य पंचकरणानि मनश्च यत्नात्। षट्कायजीवपरिरक्षणदक्षचेताः।।
स्वाधीनसौख्यमुपलभ्य वसेत् च स्वस्मिन्। तं योगिनं हृदि दधे वृषसंयमं च।।६।।
साधुः सदा तपति द्वादशधा तपोभिः। कायं कृशीकुरुत एव किलात्मपुष्ट्यै।।
कर्माणि निर्जरयतीह शिवस्य हेतोः। तं योगिनं हृदि दधे सुतपश्च धर्मं।।७।।
रत्नत्रयं भविगणाय ददाति योगी। तत्त्याग एव परमो यतिभिस्तथोत्तं।।
आहारदानप्रभृतीनपि देहि मुक्त्यै। तं योगिनं हृदि दधे वरत्यागधर्मं।।८।।
त्रैलोक्यसंपदमपीह ददाति शीघं। देहेऽपि निर्ममरुचिः स अकिंचनः स्यात्।।
ध्यायन् स्वमेव गिरिगह्वरके हि तिष्ठेत्। तं योगिनं हृदि दधे ह्यपरिग्रहं च ।।९।।
ब्रह्मस्वरूप इह स्वात्मनि चर्यते यो। संघेऽप्यसौ वसति सद्गुणसंपदाप्त्यै।।
त्रैलोक्यपूज्यमपि सूत्तमधर्ममीडे। तं योगिनं हृदि दधेऽपि च ब्रह्मचर्यं।।१०।।
सिद्धिप्रासाद-निःश्रेणी-पंक्तिवत् भव्यदेहिनां।
दशलक्षण-धर्मोऽयं, नित्यं चित्तं पुनातु नः।।१।।
हे धर्मकल्पवृक्ष! त्वां, वंदे भक्त्या त्रिशुद्धितः।
‘ज्ञानमत्या’ समं मह्यं, स्वर्गमोक्षफलं दिश।।२।।
इच्छामि भंते! दसलक्खण-धम्मभत्तिकाओसग्गो कओ तस्सालोचेउं, णिच्छयववहार-मोक्खमग्ग-सेढिभूदाणं उत्तमखमा-मद्दव-अज्जव-सउच्च-सच्च-संजम-तव-चाग-आकिंचण-बंभचेर-णाम-दसलक्खण-धम्माणं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।