क्षुल्लक दीक्षा विधि:
क्षुल्लक दीक्षा विधि अथ लघुदीक्षायां सिद्ध-योगि-शान्ति-समाधिभक्ती: पठेत्। ‘‘ॐ ह्रीं श्रीं क्लीं ऐं अर्हं नम:’’ अनेन मंत्रेण जाप्यं वार २१ अथवा १०८ दीयते। अन्यच्च विस्तारेण लघुदीक्षाविधि:-अथ लघुदीक्षानेतृजन: पुरुष: स्त्री वा दाता संस्थापयति। यथा-योग्यमलंकृतं कृत्वा चैत्यालये समानयेत्, देवं वंदित्वा सर्वै: सह क्षमां कृत्वा गुरोरग्रे च दीक्षां याचयित्वा तदाज्ञया सौभाग्यवतीस्त्रीविहित-स्वस्तिकोपरि श्वेतवस्त्रं प्रच्छाद्य तत्र पूर्वाभिमुख: पर्यंकासनो गुरुश्चोत्तराभिमुख: संघाष्टवं संघं…