श्रुतभक्ति- संस्कृत!
श्रुतभक्ति आर्या छंद स्तोष्ये संज्ञानानि, परोक्षप्रत्यक्षभेदभिन्नानि। लोकालोकविलोकनलोलितसल्लोकलोचनानि सदा।।१।। अभिमुखनियमितबोधनमाभिनिबोधिकमिंनद्रियेंद्रियजं। बह्वाद्यवग्र्हादिककृतषट्त्रिंशत्त्रिशतभेदम् ।।२।। विविधर्द्धिबुद्धिकोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकं। संभिन्नश्रोतृतया सार्धं श्रुतभाजनं वंदे।।३।। श्रुतमपि जिनवरविहितं, गणधररचितं द्व्यनेकभेदस्थम्। अंगांगबाह्यभावितमनंतविषयं नमस्यामि ।।४।। पर्यायाक्षरपदसंघातप्रतिपत्तिकानुयोगविधीन् । प्राभृतकप्राभृतक्, प्राभृतक् वस्तु पूर्वं च।।५।। तेषां समासतोऽपि च, विंशतिभेदान् समश्नुवानं तत्। वंदे द्वादशधोक्तं, गभीरवर – शास्त्रपद्धत्या।।६।। आचारं सूत्रकृतं, स्थानं समवायनामधेयं । व्याख्याप्रज्ञिंप्त च, ज्ञातृकथोपासकाध्ययने।।७।। वंदेंऽतकृद्दशमनुत्तरोपपादिकदशं दशावस्थम् । प्रश्नव्याकरणं हि, विपाकसूत्रं…