47. २४ तीर्थंकरों के प्रथम पारणा के नगर
२४ तीर्थंकरों के प्रथम पारणा के नगर श्री हस्तिनापुरं रम्यमयोध्या नगरी शुभा। श्रावस्ती च विनीता च पुरं विजयपूर्वकम्।।२३९।। पुरं मङ्गलकं नाम्ना पाटलीखण्डसंज्ञकम्। पद्मखण्डपुरं कान्तं तथा श्वेतपुरं परम्।।२४०।। अरिष्टपुरमिष्टं तु सिद्धार्थपुरमप्यतः। महापुरमतो नाम्ना स्पुटं धान्यवटं पुरम्।।२४१।। वर्धमानपुरं ख्यातं पुरं सौमनसाह्वयम्। मन्दरं हास्तिनपुरं तथा चक्रपुरं मतम् ।।२४२।। मिथिला राजगृहकं पुरं वीरपुरं तथा। पुरी द्वारवती काम्यकृतं कुण्डपुरं पुरम्।।२४३।।…