नंदीश्वर द्वीप के जिनमंदिर
नंदीश्वर द्वीप के जिनमंदिर इदानीं नन्दीश्वद्वीपं सविशेषं प्रतिपादयन् तावत्तस्य वलयव्यासमाह— आदीदो खलु अट्ठमणंदीसरदीववलयविक्खंभो। सयसमहियतेवट्ठीकोडी चुलसीदिलक्खा ये१।।९६६।। आदितः खलु अष्टमनन्दीश्वरद्वीपवलयविष्कम्भः। शतसमधिकत्रिषष्टिकोटिः चतुरशीतिलक्षश्च।।९६६।। आदीदो। जम्बूद्वीपादारभ्याष्टमनन्दीश्वरद्वीपवलयविष्कम्भः शतसमधिकत्रिषष्टिकोटिचतुरशीतिलक्षयो- जनप्रमितः खलु १६३८४००००० एतावत्कथं नन्दीश्वरद्वीपसहितप्राक्तनद्वीपसमुद्राणां संख्या १५ कृत्वा रूऊणाहियपदमित्यादिना कृते सति भवति।।९६६।। अथात्र दिव्चतुष्टयस्थितानां पर्वतानामाख्यां संख्यामवस्थानं च निरूपयति— एक्कचउक्कट्ठं जणदहिमुहरइयरणगा पडिदिसम्हि। मज्झे चउदिसवावीमज्झे तब्बाहिरदुकोणे।।९६७।। एकचतुष्काष्टाञ्जनदधिमुखरतिकरनगाः प्रतिदिशं। मध्ये चतुर्दिग्वापीमध्ये तद्बाह्यद्विकोणे।।९६७।। एक्क। प्रतिदिशं…