मानुषोत्तर पर्वत के जिनमंदिर एवं कूटों की संख्या
मानुषोत्तर पर्वत के जिनमंदिर एवं कूटों की संख्या अनन्तरं मानुषोत्तरस्वरूपं गाथात्रयेणाह— अंते टंकच्छिण्णो बाहिं कमवड्ढिहाणि कणयणिहो। णदिणिग्गमपहचोद्दसगुहाजुदो माणुसुत्तरगो१।।९३७।। अन्तः टज्र्च्छिन्नो बाह्ये क्रमवृद्धिहानिकः कनकनिभः। नदीनिर्गमपथचतुर्दशगुहायुतः मानुषोत्तरः।।९३७।। अंते। अभ्यन्तरे टज्र्च्छिन्नो बाह्ये शिखरात् क्रमवृद्धः मूलात् क्रमहानियुक्तः कनकनिभः नदीनिर्गमपथैश्चतुर्दशगुहाभिर्युतो मानुषोत्तराख्यशैलो ज्ञातव्यः।।९३७।। मणुसुत्तरुदयभूमुहमिगिवीसं सगसयं सहस्सं च। बावीसहियसहस्सं चउवीसं चउसयं कमसो।।९३८।। मानुषोत्तरोदयभूमुखमेकविंशं सप्तशतं सहस्रं च। द्वाविंशधिकसहस्रं चतुर्विंशतिः चतुःशतं क्रमशः।।९३८।। मणुसु। मानुषोत्तरोदयभूमुखव्यासाः…