कुण्डलपुरं विजीयात् तीर्थं त्रिकाले!
कुण्डलपुरं विजीयात् तीर्थं त्रिकाले वैदेहिके सुप्रान्तेऽति रमणीयक्षेत्रे, बड़गाँव पुण्यनालन्दाकोशदेशे। नानासुकूपसरशोभितशोभनीयं, कुण्डलपुरं विजीयात् तीर्थं त्रिकाले।।१।। तीर्थेशवीरजिनपुण्यप्रसूतिभूमि:, आगत्य यत्र प्रमुख: सौधर्मशक्र:। रौ विधाय न्हवनं ख्यातो विशेष:, कुण्डलपुरं विजीयात् तीर्थं त्रिकाले।।२।। सिद्धार्थराजनृपमण्डितमण्डलेश:, तस्य प्रियात्रिशलया: सूनुर्महात्मा। अक्रीडयत् सुरगणै: सह यत्र भूमौ, कुण्डलपुरं विजीयात् तीर्थं त्रिकाले।।३।। यत्रत्यसन्मतिजिन: तपस: सुमार्गे, निग्र्रन्थसाधुदीक्षामङ्गीचकार। आध्यात्मिका: तदारभ्य नमन्ति तद्भुवं, कुण्डलपुरं विजीयात् तीर्थं त्रिकाले।।४।।