02. मंगलाष्टक स्तोत्रं
मंगलाष्टक स्तोत्रं अर्हंतो मंगलं कुर्यु:, सिद्धा: कुर्युश्च मंगलम्। आचार्या: पाठकाश्चापि , साधवो मम मंगलम्।।१।। मंगलं जिनधर्म: स्यात्, जिनवाणी च मंगलम्। जिनार्चा जिनगेहाश्च, कुर्वंतु मम मंगलम्।।२।। सप्तकोट्यो जिनागारा, लक्षाणि च द्विसप्तति:। भवनेषु स्थिता: सर्वे, कुर्वंतु मम मंगलम्।।३।। व्यंतराणां जिनागारा:, संख्यातीता विभान्त्यपि। स्वात्मसिद्धिविधातार:, कुर्वंतु मम मंगलम्।।४।। ज्योतिष्काणां जिनागारा:, असंख्या: संति सौख्यदा:। स्वात्मज्योति: प्रयच्छन्तु कुर्वंतु मम मंगलम्।।५।। चतुरशीतिलक्षा:…