01. मंगलाचरण
श्री सुमतिनाथ विधान मंगलाचरण नय—प्रमाणै: सकलं सुतत्त्वं, प्रकाशयन् यो जगतामुदेति। स: सर्वलोवैकविभास्वराख्यां, वन्दे सुमत्यै सुमिंत जिनं तम्।।१।। श्रीसुमतिजिन स्तोत्र (श्रीसमन्तभद्राचार्य—विरचितं) अन्वर्थसंज्ञ: सुमति-र्मुनिस्त्वं, स्वयं मतं येन सुयुक्तिनीतम् । यतश्च शेषेषु मतेषु नास्ति, सर्वक्रिया-कारक-तत्त्वसिद्धि:।।१।। अनेक-मेकं च तदेव तत्त्वं, भेदान्वय-ज्ञान-मिदं हि सत्यम् । मृषोपचारोऽन्यतरस्य लोपे, तच्छेष-लोपोऽपि ततोऽनुपाख्यम्।।२।। सतः कथंचित्-तदसत्त्व-शक्तिः, खे नास्ति पुष्पं तरुषु प्रसिद्धम्। सर्वस्वभाव-च्युत-मप्रमाणं, स्ववाग्-विरुद्धं तव दृष्टितोऽन्यत्।।३।।…