01. मंगलाचरणम्
ज्योतिर्लोक जिनालय विधान मंगलाचरणम् भवनविमानज्योति—र्व्यन्तरलोकविश्वचैत्यानि। त्रिजगदभिवन्दितानां, वन्दे त्रेधा जिनेंद्राणाम्।।१।। ज्योतिषामथ लोकस्य, भूतयेऽद्भुतसंपद:। गृहा: स्वयंभुव:सन्ति, विमानेषु नमामि तान्।।२।। इति स्तुतिपथातीत—श्रीभृतामर्हतां मम। चैत्यानामस्तु संकीर्ति:, सर्वास्रवनिरोधिनी।।३।। ज्योतिर्व्यंतर भावनामरगृहे, मेरौ कुलाद्रौ तथा। जंबूशाल्मलि चैत्यशाखिषु तथा वक्षाररूप्याद्रिषु।। इष्वाकारगिरौ च कुण्डलनगे, द्वीपे च नंदीश्वरे। शैले ये मनुजोत्तरे जिनगृहा:, कुर्वन्तु मे (न:) मंगलम्।।४।। —आर्यास्कंध छंद— ज्योतिर्लोकेऽगणिता भासन्ते भासमानसुरनुत निलया:। तेषु जिनसूर्यबिम्बान् ,…