कल्याणमन्दिरस्तोत्रपूजा
कल्याणमन्दिरस्तोत्रपूजा (संस्कृत विधान) पूर्व-पीठिका श्रीमद्गीर्वाणसेव्यं प्रबलतरमहा-मोहमल्लातिमल्लं। कान्तं कल्याणनाथं, कठिनशठमनो-जातमत्तेभसिंहम्।। नत्वा श्रीपार्श्वदेवं, कुमुदविधुकृतो, रम्यकल्याणधाम्न। स्तोत्रस्योच्चैर्विशालं, विधिवदनुपम, पूजनं कथ्यतेऽत्र।। पंचवर्णेन चूर्णेन, कर्त्तव्यं कमलं वरं। वेदवार्धिकरं वेद्यां, कर्णिकामध्यमं बुधै:।। धौतवस्त्रधर: प्राज्ञ:, श्लेष्मादिव्याधिवर्जित:। बाह्याभ्यन्तर-संशुद्धो, जिनपूजा-विधानवित्।। गुरोराज्ञां विधायोच्चं, शिरस्या-दरतस्तत:। पृष्ट्वा सङ्घपतिं पूजा-प्रारंभ: क्रियतेऽञ्जसा।। आदौ गन्धकुटीपूजां, विधायामल-वस्तुभि:। पञ्चानामर्हदादीनां, ततोऽर्यां परमेष्ठिनाम्।। ततो गत्वा गुरोरग्रे, भारती-मुनि-पूजनं। कृत्वेलाशुद्धिकार्यं च, क्रमेणागमकोविदै:।। ततोऽम्लानां च सामग्रीं, कृत्वा…