सौधर्म स्वर्ग में जिनमंदिर-चैत्यवृक्ष (लोक विभाग से)
सौधर्म स्वर्ग में जिनमंदिर-चैत्यवृक्ष (लोक विभाग से) सौधर्मे व सभैशाने शेषेन्द्राणां सभास्तथा। उपपातसभाश्चैव अर्हदायतनानि च१।।२६३।। शतार्धायामविस्तीर्णाः पुरस्तान्मुखमण्डपाः। वेदिकाभिः परिक्षिप्ता नानारत्नशतोज्ज्वलाः।।२६४।। ।१००। ५०। सामानिकादिभिः सार्धम् इन्द्राः पर्वसु सादराः। पूजयन्त्यर्हतां तेषु कथाभिरपि चासते।।२६५।। कल्पेषु परतश्चापि सिद्धायतनवर्णना। आयागाः खलु कल्पेषु सभा ग्रैवेयतः स्मृताः।।२६६।। योजनाष्टकमुद्विद्धा तावदेव च विस्तृता। उपपातसभेन्द्राणां त्रायिंस्त्रशवतां स्मृता।।२६७।। अशोकं सप्तपर्णं च चम्पकं चूतमेव च। पूर्वाद्यानि वनान्याहुर्देवराजबहिःपुरात्।।२६८।।…