आयुष्मन् शृणु! (आदिपुराण ग्रंथ भाग-१ पर्व-२४ से)
आयुष्मन् शृणु! (आदिपुराण ग्रंथ भाग-१ पर्व-२४ से) आयुष्मन् शृणु तत्वार्थान् वक्ष्यमाणाननुक्रमात्। जीवादीन् कालपर्यन्तान् सप्रभेदान् सपर्ययान्।।८५।। जीवादीनां पदार्थानां याथात्म्यं तत्त्वमिष्यते। सम्यग्ज्ञानाज्र्मेतद्धि विद्धि सिद्ध्यङ्गमङ्गिनाम्।।८६।। तदेकं तत्त्वसामान्याज्जीवाजीवाविति द्विधा। त्रिधा मुक्तेतराजीवविभागात्परिकीर्त्यते।।८७।। जीवो मुक्तश्च संसारी संसार्यात्मा द्विधा मत:। भव्योऽभव्यश्च साजीवास्ते चतुर्धा विभाविता:।।८८।। मुक्तेतरात्मको जीवो मूर्तामूर्तात्मक: पर:। इति वा तस्य तत्त्वस्य चातुर्विध्यं विनिश्चितम्।।८९।। पञ्चास्तिकायभेदेन तत्तत्त्वं पञ्चधा स्मृतम्। ते जीवपुद्गलाकाशधर्माधर्मा: सपर्यया:।।९०।। त…