श्री भरत स्वामी स्तुति:
श्री भरत स्वामी स्तुति: (सप्तविभक्ति समन्वित) श्रीभरतश्चक्रवर्ती, त्वं षट्खंडाधिनायक:। श्रीभरतेश्वरं नौमि, भेदविज्ञानप्राप्तये।।१।। भरतेश्वरेण दीक्षा-क्षणात् कैवल्य -माप्तवान्। श्रीभरतेश्वराय मे, नमो नमोस्त्वनंतश:।।२।। भरतात् भारतं वर्षं, पुराणेषु प्रकीर्त्यते। भरतस्य विरक्तिस्तु, गार्हस्थ्येऽपि प्रसिद्ध्यति।।३।। श्री भरतेश्वरे भक्ति:, सदा मे स्याद् भवे भवे। भो! भरतेश! स्वामिन्! त्वं, भेदज्ञानं प्रयच्छ मे।।४।।