श्री भरतस्वामी की स्तुति: (सप्तविभक्ति समन्वित)
श्री भरतस्वामी की स्तुति: (सप्तविभक्ति समन्वित) भरतश्चक्रवर्ती त्वं, षट्खंडविजयी महान्। भरतेश्वरमहं नौमि, भेदविज्ञानप्राप्तये।।१।। भरतेन सुकैवल्यं, प्राप्तं दीक्षाक्षणे त्वरं। भरतेशाय मे नित्यं, नमो नमोस्त्वनंतश:।।२।। भरतात् भारतं वर्षं, पुराणेषु प्रसिद्ध्यति। भरतस्य त्विदं क्षेत्रं, सर्वदा क्षेममाप्नुयात्।।३।। भरतेशे भवेद् भक्ति:, स्थिरा स्वपरज्ञानभाक्। भो! भरतेश! सिद्धात्मन्! स्वात्मसिद्धिं प्रयच्छ मे।।४।।