गौतम द्वीप
गौतम द्वीप तडदो बारसहस्सं गंतूणिह तेत्तियुदयवित्थारो। गोदमदीओ चिट्ठदि वायव्वदिसम्हि वट्टुलओ।।९१०।। तटतो द्वादशसहस्रं गत्वेह तावदुदयविस्तार:। गौतमद्वीप: तिष्ठति वायव्यदिशि वर्तुल:।।९१०।। तड। इह लवणे अभ्यन्तरतटात् द्वादशसहस्र १२००० योजनानि गत्वा तावन्मात्रोदय: १२००० तावन्मात्रविस्तार: १२००० वृत्ताकारो वायव्यां दिशि गौतमाख्यो द्वीपस्तिष्ठति।।९१०।। बहुवण्णणपासादा वणवेदीसहिय तेसु दीवेसु। तस्सामी वेलंधरणागा सगदीवणामा ते।।९११।। बहुवर्णनप्रासादा: वनवेदीसहितेषु तेषु द्वीपेषु। तत्स्वामिनो बेलन्धरनागा: स्वकद्वीपनामानस्ते।।९११।। बहु। वनैर्वेदिकाभि: सहितेषु तेषु द्वीपेषु…