श्रीचन्द्रप्रभजिनस्तवनम् (श्री समन्तभद्रस्वामि कृत)
श्रीचन्द्रप्रभजिनस्तवनम् (श्री समन्तभद्रस्वामि कृत) -उपजाति छंद- चन्द्रप्रभं चन्द्र-मरीचि-गौरं, चन्द्रं द्वितीयं जगतीव कान्तम्। वन्देऽभिवन्द्यं महतामृषीन्द्रं, जिनं जित-स्वान्त-कषायबन्धम्।।१।। यस्याङ्ग-लक्ष्मी-परिवेष-भिन्नं, तमस्तमोऽरेरिव रश्मि-भिन्नम्। ननाश बाह्यं बहुमानसं च, ध्यान-प्रदीपाऽतिशयेन भिन्नम्।।२।। स्व-पक्ष-सौस्थित्य-मदाऽवलिप्ता, वाक्-सिंहनादैर्विमदा बभूवु:। प्रवादिनो यस्य मदाऽऽर्द्र-गण्डा, गजा यथा केशरिणो निनादै:।।३।। य: सर्वलोके परमेष्ठिताया:, पदं बभूवाऽद्भुत-कर्म-तेजा:। अनन्त-धामाऽक्षर-विश्वचक्षु:, समन्त-दु:ख-क्षय-शासनश्च।।४।। स चन्द्रमा भव्य-कुमुद्वतीनां, विपन्न-दोषाऽभ्रकलज्र्-लेप:। व्याकोश-वाङ्-न्याय-मयूख-माल:, पूयात् पवित्रो भगवान् मनो मे।।५।।