प्रशस्ति:
प्रशस्ति: दिग्दिक्वाणद्विवीराब्दे१, पूर्णायामाश्विने सिते। ऋषभदेवपुराख्ये, तीर्थंकरस्तुति: कृति:।।१।। पूर्यते भक्तिभावेन, स्वात्मस्वस्थप्रदायिका। भवे भवे जिने भक्ति-र्यावत् सिद्धपदं भवेत्।।२।। सर्वोच्चप्रतिमा यावत्, पर्वतोपरि राजते। अहिंसा परमो धर्म:, ऋषभदेवशासनम्।।३।। सप्तविभक्तियुक्ता हि, रचनैषातिशायिनी।। अर्हज्ज्ञानमतीं कुर्यात्, प्रदद्यात् न: स्तुत्यं फलम्।।४।।