अथ नवग्रहशांति स्तोत्रम्
अथ नवग्रहशांति स्तोत्रम्… (चौबीस तीर्थंकर समन्वित) जगद्गुरुं नमस्कृत्य श्रुत्वा सद्गुरुभाषितम्। ग्रहशांतिं प्रवक्ष्यामि लोकानां सुखहेतवे।।१।। जिनेन्द्रा: खेचरा ज्ञेया:, पूजनीया विधिक्रमात्। पुष्पैर्विलेपनैर्धूपैर्नैवेद्यैस्तुष्टिहेतवे ।।२।। पद्मप्रभस्य मार्तण्डश्चन्द्र: चन्द्रप्रभस्य च। वासुपूज्यस्य भूपुत्रो बुधश्चाष्टजिनेशिनाम् ।।३।। विमलानन्तधर्मारा:-शांति:कुंथुर्नमिस्तथा। वर्धमानजिनेन्द्रस्य पादपद्मं बुधो नमेत् ।।४।। ऋषभाजितसुपार्श्वा: साभिनंदनशीतलौ। सुमति: संभवस्वामी, श्रेयसश्च वृहस्पति:।।५।। सुविधि: कथित: शुक्रे, सुव्रतश्च शनिश्चरे। नेमिनाथो भवेद् राहो: केतुश्चमल्लिपार्श्वयो:।।६।। जन्मलग्नं च राशिश्च, यदि पीडयंति…