मंगलाचरणं
मंगलाचरणं त्रैलोक्यमंगलात्मान:, सुरासुरनमस्कृता:। मंगलं मम यच्छन्तु, जितरागादयो जिना:।।१।। संसार प्रभवो मोहो, यैर्जितोऽत्यन्तदुर्जय:। अर्हन्तो भगवन्तस्ते, भवंतु मम मंगलम्।।२।। करस्थामलकं यद्वल्लोकालोकं स्वतेजसा। पश्यन्त: केवलालोका, भवन्तु मम मंगलम्।।३।। कर्मणाष्टप्रकारेण, मुक्तास्त्रैलोक्यमूर्द्धगा:। सिद्धा: सिद्धिकरा: सर्वे, भवन्तु मम मंगलम्।।४।। कमलादित्यचन्द्रक्ष्मामंदराब्धिवियत्समा:। आचार्या: परमाधारा, भवन्तु मम मंगलम्।।५।। परात्मशासनाभिज्ञा:, कृतानुगतशासना:। सदा सर्वेऽप्युपाध्याया:, कुर्वन्तु मम मंगलम्।।६।। तपसा द्वादशांगेन, निर्वाणं साधयन्ति ये। ते सर्वे साधव: शूरा:…