जिनमंदिर एवं प्रतिमा निर्माण का फल (पद्मपुराण से)
जिनमंदिर एवं प्रतिमा निर्माण का फल (पद्मपुराण से) भवनं वस्तु जैनेन्द्रं निर्मापयति मानव:। तस्य भोगोत्सव: शक्य: केन वक्तुं सुचेतस:१।।१७२।। प्रतिमां यो जिनेन्द्राणां कारयत्यचिरादसौ। सुरासुरोत्तमसुखं प्राप्य याति परं पदम्।।१७३।। व्रतज्ञानतपोदानैर्यान्युपात्तानि देहिन:। सर्वैस्रिष्वपि कालेषु पुण्यानि भुवनत्रये।।१७४।। एकस्मादपि जैनेन्द्रबिम्बाद् भावेन कारितात्। यत्पुण्यं जायते तस्य न संमान्त्यतिमात्रत:।।१७५।। फलं यदेतदुद्दिष्टं स्वर्गे संप्राप्य जन्तव:। चक्रवर्त्यादितां लब्ध्वा यन्मर्त्यत्वेऽपि भुञ्जते।।१७६।। धर्ममेवं विधानेन य:…