जिनेन्द्र देव के दर्शन का फल (पद्मपुराण से)
जिनेन्द्र देव के दर्शन का फल (पद्मपुराण से) फलं ध्यानाच्चतुर्थस्य षष्ठस्योद्यानमात्रत:। अष्टमस्य तदारम्भे गमने दशमस्य तु१।।१७८।। द्वादशस्य तत: िंकचिन्मध्ये पक्षोपवासजम्। फलं मासोपवासस्य लभते चैत्यदर्शनात्।।१७९।। चैत्याङ्गणं समासाद्य याति षाण्मासिकं फलम्। फलं वर्षोपवासस्य प्रविश्य द्वारमश्नुते।।१८०।। फलं प्रदक्षिणीकृत्य भुङ्क्ते वर्षशतस्य तु। दृष्ट्वा जिनास्यमाप्नोति फलं वर्षसहस्रजम्।।१८१।। अनन्तफलमाप्नोति स्तुिंत कुर्वन् स्वभावत:। नहि भक्तेर्जिनेन्द्राणां विद्यते परमुत्तमम्।।१८२।। कर्म भक्त्या जिनेन्द्राणां क्षयं भरत…