हरिषेण चक्रवर्ती ने अगणित जिनमंदिर बनवाये (पद्मपुराण से)
हरिषेण चक्रवर्ती ने अगणित जिनमंदिर बनवाये (पद्मपुराण से) अथासावन्यदापृच्छत् सुमालिनमुदद्भुतः। उच्चैर्गगनमारूढो विनयानतविग्रहः१।।२७२।। सरसीरहितेऽमुष्मिन् पूज्यपर्वतमूर्द्धनि। वनानि पश्य पद्मानां जातान्येतन्महाद्भुतम्।।२७३।। तिष्ठन्ति निश्चलाः स्वामिन् कथमत्र महीतले। पतिता विविधच्छायाः सुमहान्तः पयोमुचः।।२७४।। नमः सिद्धेभ्य इत्युक्त्वा सुभालो तमथागमत्। नामूनि शतपत्राणि न चैते वत्स तोयदाः।।२७५।। सितकेतुकृतच्छायाः सहस्राकारतोरणाः। शृङ्गेषु पर्वतस्यामी विराजन्ते जिनालयाः।।२७६।। कारिता हरिषेणेन सज्जनेन महात्मना। एतान् वत्स नमस्य त्वं भव पूतमनाः क्षणात्।।२७७।।…