श्री गौतमस्वामी स्तोत्र
श्री गौतमस्वामी स्तोत्र श्री इन्द्रभूिंत वसुभूतिपुत्रं, पृथ्वीभवं गौतमगोत्ररत्नं। स्तुवन्ति देवा: सुरमानवेन्द्रा:, स गौतमो यच्छतु वाञ्छितं मे।।१।। श्री वर्धमानात् समवाप्य दीक्षां, मुहूर्तमात्रेण कृतानि येन। अङ्गानि पूर्वाणि चतुर्दशानि, स गौतमो यच्छतु वाञ्छितं मे।।२।। श्रीवीरनाथेन पुरा प्रणीतं, मन्त्रं महानन्दसुखाय यस्य। ध्यायन्त्यमी सूरिवरा: समग्रा:, स गौतमो यच्छतु वाञ्छितं मे।।३।। यस्माभिधानं मुनयोऽपि सर्वे, गृह्णन्ति भिक्षां भ्रमणस्य काले। मिष्टान्नपानादिभि: पूर्णकामा:, स…