स्वर्गों में चैत्यवृक्ष एवं मानस्तम्भ में तीर्थंकर के वस्त्राभरणादि (लोकविभाग से)
स्वर्गों में चैत्यवृक्ष एवं मानस्तम्भ में तीर्थंकर के वस्त्राभरणादि (लोकविभाग से) तत्र िंसहासने दिव्ये सर्वरत्नमये शुभे। स्वैरं निषण्णो विस्तीर्णे जयशब्दाभिनन्दितः१।।२५४।। वृतः सामानिवैर्देवैस्त्रायिंस्त्रशैस्तथैव च। सुखासनस्थैः श्रीमद्भिस्तन्मुखोन्मुखदृष्टिभिः।।२५५।। चित्रभद्रासनस्थाभिर्वामदक्षिणपार्श्वयोः। संक्रीडयमानो देवीभिः क्रीडारतिपरायणः।।२५६।। तत्र योजनविस्तीर्णः षट्कृतिं च समुच्छ्रितः। स्तम्भो गोरुतविस्तारधाराद्वादशसंयुतः।।२५७।। वङ्कामूर्तिः सपीठोऽस्मिन् क्रोशतत्पाददीर्घकः। व्यासाश्च रत्नशिक्यस्थास्तिष्ठन्ति च समुद्गकाः।।२५८।। । १ । १/४। सक्रोशानि हिषट् तूर्ध्वं योजनान्यसमुद्गकाः। क्रोशन्यूनानि तावन्ति अधश्चाप्यसमुद्गकाः।।२५९।। ।२५/४।…