गणधरवलय यंत्र अभिषेक विधि
गणधरवलय यंत्र अभिषेक विधि अथ यन्त्रोद्धार: (यन्त्रलेखनमित्यर्थ:) —अनुष्टुप्— षट्कोणचक्रमध्ये तु, क्ष्मामध: श्रीं च मस्तके। अर्हं झ्वीं ह्रीं लिखेत्पार्श्वे, दक्षिणे वामत: क्रमात्।।१।। श्रीदक्षिण सप्रणवाऽसि, आ उ सा सहोमकम्। कोणेष्वप्रतिचक्रे फट्, सव्येन स्थापयेत् क्रमात्।।२।। कोणान्तरे विचक्राय, स्वाहा षड् बीजमालिखेत्। कोणाग्रेषु लिखेत् श्रीह्री-धृतिकीर्तिमतीन्दिरा:।।३।। वसु द्व्यष्ट त्रिहाष्टेषु, पत्रेषु ऋद्धिमन्त्रकान्। लिखित्वा मायया वेष्ट्य, क्रों रुद्धं गणधारकम्।।४।। यन्त्रं भूमण्डलोपेतं, लिखित्वा स्थापयेत्…