तीर्थंकर जन्माभिषेक महिमा (सिद्धान्तसार दीपक से)
तीर्थंकर जन्माभिषेक महिमा(सिद्धान्तसार दीपक से) षष्ठोऽधिकारः विदेहस्थान् जिनेन्द्रादीन् प्रणम्य परमेष्ठिनः। तन्मूर्त्यादींश्च वक्ष्येऽहं विदेहक्षेत्रमुत्तमम्।।१।। विदेहक्षेत्रस्थ सुदर्शन मेरु का सविस्तार वर्णन :— तस्यमध्ये महामेरुः सुदर्शनाह्वयोमहान्। नवाधिकनवत्या चोच्छ्रितःसहस्रयोजनैः।।२।। योजनानां सहस्रैककन्दस्त्रिक्षण ऊर्जितः। विचित्राकारसंस्थानोनाभिवद्भाति सुन्दरम्।।३।। सहस्रयोजनैर्वङ्कामयश्चित्राधरान्तगः। नानारत्नमयो मध्ये स्यादेकषष्टिसम्मितैः।।४।। सहस्रयोजनैश्चाग्रेशातकुम्भमयोगिरिः। नित्यो दीप्तोयमत्राष्टिंत्रशत्सहस्रयोजनैः।।५।। अस्य विस्तर व्याख्यानं बालावबोधाय संस्कृतभाषया वक्ष्ये :— चित्राऽवनिं भित्त्वा स्थितस्य मेरोः कन्दतले व्यासः नवत्यधिकदशसहस्रयोजनानि योजनैकादशभागीकृतानां दशभागाः, परिधिश्चैकत्रिंशत्सहस्रनवशतदशोत्तरयोजनानि योजनैकदशभागानां…