जीवन्धर कुमार ने कुत्ते को णमोकार मंत्र सुनाया (गद्य चिन्तामणि ग्रंथ से)
जीवन्धर कुमार ने कुत्ते को णमोकार मंत्र सुनाया (गद्य चिन्तामणि ग्रंथ से) तथा तेन प्रकारेण विहरतो भ्रमतस्तस्य जीवंधरस्य अग्रतः पुरस्तात् क्वचित् कुत्रापि अग्रजन्मनां ब्राह्मणानाम् अतिमहान् भूयिष्ठतरः कोलाहलः कलकलशब्दः प्रावर्तत। तं कोलाहलम् आकर्ण्य निशम्य समित्रे ससुहृदि पवित्रचारित्रे पूताचारे अस्मिन् जीवंधरे तदभ्यर्णं कोलाहलपार्श्वम् अभिपतति गच्छति सति क्वचित् आदरेण निष्पादितो निर्मितो य आहारस्तस्याघ्राणेन नासाविषयीकरणेन कुपिता रुष्टा ये धरणीसुरा…