तीर्थंकर जन्मभूमि वंदना
तीर्थंकर जन्मभूमि वंदना (मंगलचतुर्विंशतिका) -गणिनीप्रमुख श्री ज्ञानमती माताजी -अनुष्टुप् छंद- अयोध्या मंगलं कुर्या-दनन्ततीर्थकतर्¸णाम्। शाश्वती जन्मभूमिर्या, प्रसिद्धा साधुभिर्नुता।।१।। ऋषभोऽजिततीर्थेशोऽप्यभिनंदनतीर्थकृत्। श्रीमान् सुमतिनाथश्चा – नन्तनाथजिनेश्वर:।।२।। पंचतीर्थकृतां गर्भ – जन्मकल्याणकादिषु। इन्द्रादिभि: सदा वंद्या वंद्यते वंदयिष्यते।।३।। संप्रति कालदोषेण शेषास्तीर्थंकरा: पृथक्। संजातास्ता अपिजन्म-भूमयो मंगलं भुवि।।४।। श्रावस्ती मंगलं कुर्यात्, संभवनाथजन्मभू:। तनुतान्मे मनःशुद्धिं, भव्यानां भवहारिणी।।५।। कौशाम्बी मंगलं कुर्यात्, पद्मप्रभस्य जन्मभू:। जिनसूर्यो मनोऽब्जं मे,…