चतुर्दशं पर्व
चतुर्दशं पर्व… अथाभिषेकनिर्वृत्तौ शची देवी जगद्गुरोः। प्रसाधनविधौ यत्नमकरोत् कृतकौतुका१।।१।। तस्याभिषिक्तमात्रस्य दधतः पावनीं तनुम् । साङ्गलग्नान्ममार्जाम्भःकणान् स्वच्छामलांशुवै।।२।। स्वासन्नापाङ्गसंक्रान्तसितच्छायं विभोर्मुखम्। प्रमृष्टमपि सामार्जीद् भूयो जलकणास्थया।।३।। गन्धैः सुगन्धिभिः सान्द्रैरिन्द्राणी गात्रमीशितुः। अन्वलिम्पत लिम्पद्भिरिवामोदैस्त्रिविष्टपम् ।।४।। गन्धेनामोदिना भर्त्तुः शरीरसहजन्मना। गन्धास्ते न्यक्कृता एव सौगन्ध्येनापि संश्रिताः।।५।। तिलकं च ललाटेऽस्य शची चक्रे किलादरात् । जगतां तिलकस्तेन किमलंक्रियते विभुः।।६।। मन्दारमालयोत्तंस मिन्द्राणी विदधे विभोः। तयालंकृतमूर्द्धासौ कीर्त्येव व्यरुचद्…