तीर्थंकर जन्मभूमि वंदना
“तीर्थंकर जन्मभूमि वंदना“ (मंगलचतुर्विंशतिका) –अनुष्टुप् छंद- अयोध्या मंगलं कुर्या-दनन्ततीर्थकर्तृणाम्। शाश्वती जन्मभूमिर्या, प्रसिद्धा साधुभिर्नुता।।१।। ऋषभोऽजिततीर्थेशोऽप्यभिनंदनतीर्थकृत्। श्रीमान् सुमतिनाथश्चा – नन्तनाथजिनेश्वर:।।२।। पंचतीर्थकृतां गर्भ – जन्मकल्याणकादिषु। इन्द्रादिभि: सदा वंद्या, वंद्यते वंदयिष्यते।।३।। संप्रति कालदोषेण शेषास्तीर्थंकरा: पृथक्। संजातास्ता अपि जन्म-भूमयो मंगलं भुवि।।४।। श्रावस्ती मंगलं कुर्यात्, संभवनाथजन्मभू:। तनुतान्मे मनःशुद्धिं, भव्यानां भवहारिणी।।५।। कौशाम्बी मंगलं कुर्यात्, पद्मप्रभस्य जन्मभू:। जिनसूर्यो मनोऽब्जं मे, प्रफुल्लीकुरुतादपि।।६।। वाराणसी जगन्मान्या,…