सुदर्शनमेरु भक्ति
सुदर्शनमेरु भक्ति…. तीर्थंकर-स्नपननीर-पवित्रजातः तुङ्गोऽस्ति यस्त्रिभुवने निखिलाद्रितोऽपि। देवेन्द्र-दानव-नरेन्द्र-खगेन्द्रवंद्यः, तं श्रीसुदर्शनगििंर सततं नमामि।।१।। यो भद्रसालवन-नंदन-सौमनस्यैः, भातीह पांडुकवनेन च शाश्वतोऽपि। चैत्यालयान् प्रतिवनं चतुरो विधत्ते, तं श्रीसुदर्शनगििंर सततं नमामि।।२।। जन्माभिषेकविधये जिनबालकानाम्, वंद्याः सदा यतिवरैरपि पांडुकाद्याः। धत्ते विदिक्षु महनीयशिलाश्-चतसृः, तं श्रीसुदर्शनगििंर सततं नमामि।।३।। योगीश्वराः प्रतिदिनं विहरन्ति यत्र, शान्त्यैषिणः समरसैक-पिपासवश्च। ते चारणर्द्धि-सफलं खलु कुर्वतेऽत्र, तं श्रीसुदर्शनगििंर सततं नमामि।।४।। ये प्रीतितो गिरिवरं…