अथ चतुर्दिग्वंदना
अथ चतुर्दिग्वंदना प्राग्दिग्विदिगन्तरे, केवलिजिन-सिद्ध-साधुगणदेवाः। ये सर्वर्द्धिसमृद्धा, योगिगणास्तानहं वन्दे।।१।। दक्षिणदिग्विदिगन्तरे, केवलिजिन-सिद्ध-साधुगणदेवाः। ये सर्वर्द्धिसमृद्धा, योगिगणास्तानहं वन्दे।।२।। पश्चिम दिग्विदिगन्तरे, केवलि-जिनसिद्ध-साधुगणदेवाः। ये सर्वर्द्धिसमृद्धा, योगिगणास्तानहं वंदे।।३।। उत्तरदिग्विदिगन्तरे, केवलिजिनसिद्ध-साधुगणदेवाः। ये सर्वर्द्धिसमृद्धा, योगिगणास्तानहं वन्दे।।४।। गुर्वावली-(ॐ आद्यानामाद्ये जंबूद्वीपे मेरोर्दक्षिणभागे भरतक्षेत्रे आर्यखंडे भारतदेशे… प्रदेशे……..नगरे वीर निर्वाण संवत् एकोनचत्वािंरशदुत्तर-पंचविंशतिशततमे१ (२५३५ तमे) मासोत्तममासे….मासे…..पक्षे….. तिथौ……वासरे प्रातःकाले सामायिकं कृत्वा श्रीमत्कुंदकुंदाम्नाये सरस्वती गच्छे बलात्कारगणे कुंदकुंदसूर्यादिसर्व-पूर्वाचार्येभ्यो नमोऽस्तु नमोऽस्तु नमोऽस्तु। गुरूणांगुरु-चारित्र-चक्रवर्ती-श्रीशांतिसागराचार्येभ्यो…