चतुर्थ परिच्छेद (प्रमाणाभास)
चतुर्थ परिच्छेद (प्रमाणाभास) एवं सम्यग्ज्ञानलक्षणप्रमाणं प्रत्यक्षपरोक्षभेदं द्रव्यपर्यायात्मकार्थविषयमज्ञाननिवृत्त्यादिफलं च प्रतिपाद्येदानीं प्रमाणाभासं निरूपयन्नाह— प्रत्यक्षाभं कथंचित्स्यात्प्रमाणं तैमिरादिकं।। यद्यथैवाविसंवादि प्रमाणं तत्तथा मतं।।१।। स्याद्भवेत्। किं प्रत्यक्षाभं प्रत्यक्षप्रमाणाभासमित्यर्थ: अक्षमिंद्रियानिंद्रियं प्रति नियतं प्रत्यक्षं ज्ञानमात्रं तदिवाभातीति व्युत्पत्ते:। किंविशिष्टं तैमिरादिकं तिमिरादागतं तैमिरं तदादिर्यस्याशुभ्रमणादेस्तथोक्तं। तत्किं स्यात् प्रमाणं भवति। कथं कथंचित् भावप्रमेयापेक्षया द्रव्यापेक्षया वा न सर्वथा प्रमाणाभासमेव। बहिरर्थाकारविषय एव ज्ञानस्य विसंवादात्। स्वरूपापेक्षया तस्याविसंवादात्। अत्राविनाभावं दर्शयति यदित्यादि-यत्…