सुदर्शनमेरु वंदना
सुदर्शनमेरु वंदना -बसंततिलका छंद- तीर्थंकर – स्नपननीर – पवित्रजात:, तुङ्गोऽस्ति यस्त्रिभुवने निखिलाद्रितोऽपि। देवेन्द्र – दानव – नरेन्द्र – खगेन्द्रवंद्य:, तं श्रीसुदर्शनगिरिं सततं नमामि।।१।। यो भद्रसालवन – नंदन – सौमनस्यै:, भातीह पांडुकवनेन च शाश्वतोऽपि। चैत्यालयान् प्रतिवनं चतुरो विधत्ते, तं श्रीसुदर्शनगिरिं सततं नमामि।।२।। जन्माभिषेकविधये जिनबालकानाम्, वंद्या: सदा यतिवरैरपि पांडुकाद्या:। धत्ते विदिक्षु महनीयशिलाश्-चतसृ:, तं श्रीसुदर्शनगिरिं सततं नमामि।।३।। योगीश्वरा:…