समाधिभक्ति:
समाधिभक्ति: प्रथमं करणं चरणं द्रव्यं नम:। शास्त्राभ्यासो जिनपतिनुति: संगति: सर्वदार्यै:। सद्वृत्तानां गुणगणकथा, दोषवादे च मौनम् ।। सर्वस्यापि प्रियहितवचो, भावना चात्मतत्त्वे। सम्पद्यंतां मम भवभवे, यावदेतेऽपवर्ग:।।१।। जैनमार्गरुचिरन्यमार्गनिर्वेगता जिनगुणस्तुतौ मति:। निष्कलंकविमलोक्तिभावना:, सम्भवन्तु मम जन्मजन्मनि।।२।। तव पादौ मम हृदये, मम हृदयं तव पदद्वये लीनम्। तिष्ठतु जिनेन्द्र! तावद्यावन्निर्वाणसंप्राप्ति:।।३।। अक्खर-पयत्थहीणं, मत्ताहीणं च जं मए भणियं। तं खमउ णाण देवय! देउ समाहिं…