सुमेरु वंदना
“…सुमेरु वंदना…” -वसंततिलका छंद- तीर्थंकर-स्नपननीर-पवित्रजात:, तुङ्गोऽस्ति यस्त्रिभुवने निखिलाद्रितोऽपि। देवेन्द्र-दानव-नरेन्द्र-खगेन्द्रवंद्य:, तं श्रीसुदर्शनगिरिं सततं नमामि।।१।। यो भद्रसालवन-नंदन-सौमनस्यै:, भातीह पांडुकवनेन च शाश्वतोऽपि। चैत्यालयान् प्रतिवनं चतुरो विधत्ते, तं श्रीसुदर्शनगिरिं सततं नमामि।।२।। जन्माभिषेकविधये जिनबालकानाम्, वंद्या: सदा यतिवरैरपि पांडुकाद्या:। धत्ते विदिक्षु महनीयशिलाश्-चतसृ:, तं श्रीसुदर्शनगिरिं सततं नमामि।।३।। योगीश्वरा: प्रतिदिनं विहरन्ति यत्र, शान्त्यैषिण: समरसैक-पिपासवश्च। ते चारणर्द्धि-सफलं खलु कुर्वतेऽत्र, तं श्रीसुदर्शनगिरिं सततं नमामि।।४।। ये…