भरत क्षेत्र के बारे मे (राजवार्तिक ग्रंथ से)
भरत क्षेत्र के बारे मे (राजवार्तिक ग्रंथ से) भरत इति संज्ञा कुत:? भरतक्षत्रिययोगाद्वर्षो भरत:।।१।। विजयार्धस्य दक्षिणातो जलधेरुत्तरत: गंगासिन्धवो-र्बहुमध्यदेशभागे विनीतानामनगरी द्वादशयोजनायामा, नवयोजनविस्तारा। तस्यामुत्पन्न: सर्वराजलक्षणसम्पन्नो भरतो नामाद्यश्चक्रधर: षट्खण्डाधिपति:। अवसर्पिण्या राज्यविभागकाले तेनादौ भुक्तत्वात् तद्योगाद्भरत-इत्याख्यते वर्ष:। अनादिसंज्ञासंबंन्धाद्वा।।२।। अथवा जगतोऽनादित्वादहेतुका अनादिसंबंधपारिणामिकी भरतसंज्ञा। अथ क्व भरत इति ? अत्रोच्यते- हिमवत्समुद्रमध्ये भरत:।।३।। हिमवतोऽद्रेस्त्रयाणां समुद्राणां पूर्वदक्षिणाऽपराणां मध्ये भरतो वेदितव्य:। स पुनर्गङ्गासिंधूभ्यां विजयार्धेन च…